ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
कुतश्च प्रधानं सच्छब्दवाच्यम् ? —

यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारामियं सेति दर्शयत्येवं दुर्ज्ञेयत्वादात्मतत्त्वस्यादौ प्रधानात्मत्ववचनात्तदेव सच्छब्दमिति शङ्कते —

कुतश्चेति ।