हेतुमात्रस्य सूत्रे भानात्पूर्वसूत्रस्थनञमाकृष्य प्रतिजानीते —
नेति ।
तत्र हेतुं सूत्रं व्याचष्टे —
स इत्यादिना ।
साक्षित्वेनाहङ्काराद्यध्यासनिरासयोग्यतां वक्तुं चेतनस्येत्युक्तम् । ऐक्यापारोक्ष्यप्रमितिप्रतिबन्धनिवर्तकं सूचयति —
आचार्यवानिति ।
उक्तप्रमित्या सर्वबन्धननिवृत्त्या देहादिदृष्टेरपि निवृत्तिप्राप्तौ प्रारब्धकर्मणा तद्दृष्ट्यनुवृत्तिमाचष्टे —
तस्येति ।
कथं तर्हि प्रारब्धकर्मनिवृत्तिरित्याशङ्क्य भोगादिति मन्वानो ब्रूते —
यावदिति ।
आरब्धकर्मध्वस्तावपि कथं देहादिधीध्वस्तिरित्याशङ्क्याप्रतिबन्धादित्याह —
अथेति ।
उत्तमपुरुषस्तूभयत्र प्रथमपुरुषे छान्दसत्वात् ।
साङ्ख्यपक्षेऽपि मोक्षोपदेशोपपत्तिमाशङ्क्याह —
यदीति ।
तदा चेतनं सन्तं मुमुक्षुमचेतनोऽसीति ब्रुवच्छास्त्रं विपरीतवादि भूत्वा पुंसोऽनर्थायेति कृत्वा स्यादप्रमाणमिति योजना ।
अस्तु शास्त्राप्रामाण्यं, नेत्याह —
नत्विति ।
आत्मनो जडैक्यमपि सत्याद्यैक्यवदनवच्छिन्नतया शास्त्रप्रमेयमित्याशङ्क्याह —
यदि चेति ।
शास्त्रोक्ते विश्वासबुद्ध्यौ हेतुमाह —
श्रद्दधानतयेति ।
अनात्मन्यात्मदृष्टिं नासौ त्यजेदित्यत्र लौकिकं दृष्टान्तमाह —
अन्धेति ।
कश्चित्किल पश्चिमचेता गहनविपिनसमीपसञ्चारिपथि पतितमतिदुःखितं विनष्टदृष्टिद्वयमपि पुरुषापसदमवलोक्य तदन्तिकमुपसृत्य विप्रलब्धुमिच्छति, किमिति भवतातिबहुतरगोगवयादिसञ्चारसङ्कीर्णे दुर्गे मार्गे प्रचुरपरिणततरक्षुरोषणादिपरिवृतकान्तारपरिसरे परिहाय सहायसम्पदमास्यते । स च विवेकपरिचयविधुरो मधुरां गिरमुपश्रुत्य सहर्षं समभाषत । दैवोपहतः पिहितनयनयुगुलो बताहं कयापि विधया पन्थानमेनमासाद्य नानाविधबन्धुनिकरपरिपूरितमतिसविधमपि नगरं जिगमिषुरिहैवासमर्थो बहुतिथमत्यवाहयम् । सम्प्रति तु भवतो दिष्ट्या दृष्टस्य दृष्टिपथमवतीर्णं समासादितमनोरथं शोकसागरादुत्तीर्णमात्मानमालक्ष्य लब्धलक्ष्यो निर्वृतोऽस्मि । स च विप्रलप्सुः शिक्षाविपक्षमुक्षाणमभ्याशदेशनिवासिनमुलपादि चरन्तमाकलय्यास्य तु पुच्छं गृहीत्वा गच्छतु भवान् , एष त्वाभिमतं नगरं नेष्यतीत्याभाष्य तदनुमोदनपुरःसरं पुरुषं पशुमानीय तदीयलाङ्गूलं ग्राहयामास । स च गृहीततदीयवालधिर्विविधा वेदनास्तदाहिता इतस्ततो नीयमानोऽनुभवन्नपि नगरजिगमिषया तदाप्त्यादेष्टुराप्ततादृष्ट्या च स्वयमुपात्तं प्रबलबलीवर्दयूनश्चरममङ्गं परित्यक्तुं नैव धियं दधार । स च भूयो भूयो भूयसीर्यातनाः प्रतिलभ्य प्रेप्सितमप्रतिपद्यैव महति मोहसागरे निपतितः । तेनैव न्यायेनायमपि श्रद्धालुत्वादनात्मनि शास्त्राहितामात्मदृष्टिमत्यजन्ननर्थभागी भवेदित्यर्थः ।
आत्मा जडादर्थान्तरं, तत्साक्षित्वात् , घटसाक्षिवदित्यतिरिक्तात्मधिया पुरुषार्थभागी स्यादित्याशङ्क्यागमविरोधान्मैवमित्याह —
तद्व्यतिरिक्तं चेति ।
आत्मज्ञानाभावे दोषमाह —
तथेति ।
विहतिर्मुक्तिभाक्त्वाभावः ।
अनात्मनिष्ठत्वे दोषमाह —
अनर्थं चेति ।
‘तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः’ इति श्रुतेरित्यर्थः ।
परमते तन्निष्ठानुपपत्तेः सदात्मत्वोपदेशमिच्छता सतश्चेतनत्वमेष्टव्यमित्युपसंहरति —
तस्मादिति ।
नन्वारोपेणापि शास्त्रे ध्यानोपदेशात्कथं तद्यथाभूतमेवोपदिशतीति नियम्यतेऽत्राह —
एवं चेति ।
कस्यचिदारोपितचोरत्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टस्तेन दृष्टान्तेन सत्ये ब्रह्मण्यभिसन्धिमतो मोक्षः ‘तद्यथा परशुं तप्तं प्रतिगृह्णाति’ इत्यत्रोक्तः । स च तत्त्वतो वस्तूपदेशे सम्भवतीत्यर्थः ।
सदात्मत्वोक्तेरारोपितार्थत्वेऽपि सत्याभिसन्धिसिद्धिः, ‘यस्य स्यादद्धा’ इत्यादिध्यानवाक्ये तद्दृष्टेरित्याशङ्क्याह —
अन्यथेति ।
उक्थं प्राणः ।
महावाक्योत्थं ज्ञानमिदमुच्यते । तस्य सम्पन्मात्रत्वेनानित्यफलत्वे फलितमाह —
तत्रेति ।
मोक्षस्य तद्वादिभिर्नित्यत्वोपगमादित्यर्थः ।
मोक्षोपदेशस्य परपक्षेऽप्यनुपपत्तिमुक्त्वोपसंहरति —
तस्मादिति ।
दृष्टान्ते गौणत्वमङ्गीकरेति —
भृत्येति ।
इतश्चात्मशब्दस्य दृष्टान्तेन प्रधानविषयतया न गौणतेत्याह —
अपि चेति ।
मुख्यार्थायोगो गुणायोगश्च गौणत्वे हेतुः ।
तदभावेऽपि तत्कल्पनातिप्रसङ्गिनीति हेत्वन्तरमेव स्फोटयति —
क्वचिदिति ।
अग्न्यादिशब्दानां माणवकादिषु गौणत्वदृष्ट्या दहनादिष्वपि तत्प्रसक्तेरित्याह —
सर्वत्रेति ।
गौणत्वं निरस्य साधारण्यं निरसितुमनुवदति —
यत्त्विति ।
एकत्र मुख्यशब्दस्य तद्योगादन्यत्र वृत्तिसम्भवे तत्रापि शक्तिकल्पने गौरवानैवमित्याह —
तन्नेति ।
क्वचित्त्वगत्यानेकार्थतेत्यर्थः ।
प्रधानमात्मशब्दस्य मुख्योऽर्थस्तदविवेकादन्यत्र तच्छब्दतेत्याशङ्क्याप्त्यादिनिमित्तस्य चेतने मुख्यत्वात्तत्रैवात्मशब्दस्य मुख्यतेत्याह —
तस्मादिति ।
कथं तर्हि भूतात्मेत्यादिवाक्यमित्याशङ्क्य जीवैक्याध्यासात्पञ्चकोशात्मभूतानामिन्द्रियाणां चात्मशब्दत्वं, परमात्मैक्यारोपात्प्रधानस्य प्रकृतेरित्याह —
चेतनत्वेति ।
आप्त्याद्युपाधेरात्मशब्दस्य चेतने मुख्यत्वे प्रधानेऽपि तथैव तन्मुख्यत्वसिद्धेः साधारण्यमित्याशङ्क्याह —
साधारणत्वेऽपीति ।
परमसूक्ष्मशक्त्यात्मकप्रकृत्यर्थाणिमशब्दात्तज्जाड्यसिद्धेस्तद्विषयत्वमात्मशब्दस्य शक्यं निश्चेतुमित्याशङ्क्य शक्तेरप्यन्तस्थचिदात्मनि निरङ्कुशमणीयस्त्वमित्याह —
न चेति ।
अत्रेति प्रकरणोक्तिः । किञ्चित्प्रकरणमुपपदं वेत्यर्थः ।
कथं तर्हि चेतनविषयतेत्याशङ्क्य क्रमेण प्रकरणोपपदे दर्शयति —
प्रकृतं त्विति ।
चेतनसन्निधानेऽपि तस्य ‘तत्त्वमसि’ इत्यचेतनप्रधानतादात्म्योक्तेरहेतुः सन्निधिरित्याशङ्क्याह —
नहीति ।
चेतने प्रकरणादिभावे फलितमाह —
तस्मादिति ।
‘जीवेनात्मना’ ‘स आत्मा’ इति च वाक्यमिहेत्युक्तम् । आत्मशब्दसाधारण्ये दृष्टान्तितं ज्योतिःशब्दं विघटयति —
ज्योतिःशब्दोऽपीति ।
कथं तर्हि ‘वसन्ते वसन्ते ज्योतिषा यजेत ‘ इत्यत्र कालविधौ प्रकृतज्योतिष्टोमे ज्योतिःशब्दः, तत्राह —
अर्थवादेति ।
‘कतमानि ज्योतीषि’ इत्युक्त्वा ‘एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः’ इत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यं त्रिवृदादिस्तोमानां फलप्रकाशकत्वम् । ततो ज्योतिष्ट्वेन निरूपितत्रिवृदादिस्तुतिसमुदायत्वाज्ज्योतिष्टोमे ज्योतिःशब्दः । तस्मादेकस्यात्मशब्दस्यानेकसाधारण्ये नेदमुदाहरणमित्यर्थः ।
आत्मशब्दादिति पूर्वसूत्रोक्तहेतुसाधकतया तच्छेषत्वेन सूत्रं व्याख्यायाधुना स्वतन्त्रहेतुपरतया व्याकरोति —
अथवेति ।
निरस्ता गौणत्वस्य साधारणत्वस्य च शङ्का यस्मात्स तथा तस्य भावस्तत्ता, तयात्मशब्दं व्याख्यायेति सम्बन्धः । सतश्चेतनस्य च तादात्म्यवचनं पूर्वसूत्रोक्तो हेतुः ।
सदर्थनिष्ठस्य मुक्तिरूपपरानन्दैक्योक्तेश्च चितो न प्रधानैक्यमिति हेत्वन्तरमिहोच्यत इत्याह —
तत इति ।
चेतनाचेतनयोरैक्यायोगादचेतननिष्ठतया चेतनस्य मोक्षोपदेशासिद्धेः ।
सिद्धमुपसंहरति —
तस्मान्नेति ॥ ७ ॥