ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
न प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति । ‘स आत्मा’ इति प्रकृतं सदणिमानमादाय, ‘तत्त्वमसि श्वेतकेतो’ इति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठामुपदिश्य, ‘आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति मोक्षोपदेशात् । यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यम् ‘तत् असि’ इति ग्राहयेत् मुमुक्षुं चेतनं सन्तमचेतनोऽसीति, तदा विपरीतवादि शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात् । न तु निर्दोषं शास्त्रमप्रमाणं कल्पयितुं युक्तम् । यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रम् , स श्रद्दधानतया अन्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत् , तद्व्यतिरिक्तं चात्मानं न प्रतिपद्येत । तथा सति पुरुषार्थाद्विहन्येत, अनर्थं च ऋच्छेत् । तस्माद्यथा स्वर्गाद्यर्थिनोऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति, तथा मुमुक्षोरपि ‘स आत्मा तत्त्वमसि श्वेतकेतो’ इति यथाभूतमेवात्मानमुपदिशतीति युक्तम् । एवं च सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यते । अन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे, ‘अहमुक्थमस्मीति विद्यात्’ (ऐ. आ. २ । १ । २ । ६) इतिवत्सम्पन्मात्रमिदमनित्यफलं स्यात् । तत्र मोक्षोपदेशो नोपपद्येत । तस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम् । भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्दः ‘ममात्मा भद्रसेनः’ इति । अपि च क्वचिद्गौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेऽर्थे गौणीकल्पना न्याय्या, सर्वत्रानाश्वासप्रसङ्गात् । यत्तूक्तं चेतनाचेतनयोः साधारण आत्मशब्दः, क्रतुज्वलनयोरिव ज्योतिःशब्द इति, तन्न । अनेकार्थत्वस्यान्याय्यत्वात् । तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते — ‘भूतात्मा’ ‘इन्द्रियात्मा’ इति च । साधारणत्वेऽप्यात्मशब्दस्य न प्रकरणमुपपदं वा किञ्चिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धारयितुं शक्यते । न चात्राचेतनस्य निश्चायकं किञ्चित्कारणमस्ति । प्रकृतं तु सदीक्षितृ, सन्निहितश्च चेतनः श्वेतकेतुः । न हि चेतनस्य श्वेतकेतोरचेतन आत्मा सम्भवतीत्यवोचाम । तस्माच्चेतनविषय इहात्मशब्द इति निश्चीयते । ज्योतिःशब्दोऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढः, अर्थवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तः । अथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वशङ्कतया व्याख्याय, ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुर्व्याख्येयः — ‘तन्निष्ठस्य मोक्षोपदेशात्’ इति । तस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम् ॥ ७ ॥

हेतुमात्रस्य सूत्रे भानात्पूर्वसूत्रस्थनञमाकृष्य प्रतिजानीते —

नेति ।

तत्र हेतुं सूत्रं व्याचष्टे —

स इत्यादिना ।

साक्षित्वेनाहङ्काराद्यध्यासनिरासयोग्यतां वक्तुं चेतनस्येत्युक्तम् । ऐक्यापारोक्ष्यप्रमितिप्रतिबन्धनिवर्तकं सूचयति —

आचार्यवानिति ।

उक्तप्रमित्या सर्वबन्धननिवृत्त्या देहादिदृष्टेरपि निवृत्तिप्राप्तौ प्रारब्धकर्मणा तद्दृष्ट्यनुवृत्तिमाचष्टे —

तस्येति ।

कथं तर्हि प्रारब्धकर्मनिवृत्तिरित्याशङ्क्य भोगादिति मन्वानो ब्रूते —

यावदिति ।

आरब्धकर्मध्वस्तावपि कथं देहादिधीध्वस्तिरित्याशङ्क्याप्रतिबन्धादित्याह —

अथेति ।

उत्तमपुरुषस्तूभयत्र प्रथमपुरुषे छान्दसत्वात् ।

साङ्ख्यपक्षेऽपि मोक्षोपदेशोपपत्तिमाशङ्क्याह —

यदीति ।

तदा चेतनं सन्तं मुमुक्षुमचेतनोऽसीति ब्रुवच्छास्त्रं विपरीतवादि भूत्वा पुंसोऽनर्थायेति कृत्वा स्यादप्रमाणमिति योजना ।

अस्तु शास्त्राप्रामाण्यं, नेत्याह —

नत्विति ।

आत्मनो जडैक्यमपि सत्याद्यैक्यवदनवच्छिन्नतया शास्त्रप्रमेयमित्याशङ्क्याह —

यदि चेति ।

शास्त्रोक्ते विश्वासबुद्ध्यौ हेतुमाह —

श्रद्दधानतयेति ।

अनात्मन्यात्मदृष्टिं नासौ त्यजेदित्यत्र लौकिकं दृष्टान्तमाह —

अन्धेति ।

कश्चित्किल पश्चिमचेता गहनविपिनसमीपसञ्चारिपथि पतितमतिदुःखितं विनष्टदृष्टिद्वयमपि पुरुषापसदमवलोक्य तदन्तिकमुपसृत्य विप्रलब्धुमिच्छति, किमिति भवतातिबहुतरगोगवयादिसञ्चारसङ्कीर्णे दुर्गे मार्गे प्रचुरपरिणततरक्षुरोषणादिपरिवृतकान्तारपरिसरे परिहाय सहायसम्पदमास्यते । स च विवेकपरिचयविधुरो मधुरां गिरमुपश्रुत्य सहर्षं समभाषत । दैवोपहतः पिहितनयनयुगुलो बताहं कयापि विधया पन्थानमेनमासाद्य नानाविधबन्धुनिकरपरिपूरितमतिसविधमपि नगरं जिगमिषुरिहैवासमर्थो बहुतिथमत्यवाहयम् । सम्प्रति तु भवतो दिष्ट्या दृष्टस्य दृष्टिपथमवतीर्णं समासादितमनोरथं शोकसागरादुत्तीर्णमात्मानमालक्ष्य लब्धलक्ष्यो निर्वृतोऽस्मि । स च विप्रलप्सुः शिक्षाविपक्षमुक्षाणमभ्याशदेशनिवासिनमुलपादि चरन्तमाकलय्यास्य तु पुच्छं गृहीत्वा गच्छतु भवान् , एष त्वाभिमतं नगरं नेष्यतीत्याभाष्य तदनुमोदनपुरःसरं पुरुषं पशुमानीय तदीयलाङ्गूलं ग्राहयामास । स च गृहीततदीयवालधिर्विविधा वेदनास्तदाहिता इतस्ततो नीयमानोऽनुभवन्नपि नगरजिगमिषया तदाप्त्यादेष्टुराप्ततादृष्ट्या च स्वयमुपात्तं प्रबलबलीवर्दयूनश्चरममङ्गं परित्यक्तुं नैव धियं दधार । स च भूयो भूयो भूयसीर्यातनाः प्रतिलभ्य प्रेप्सितमप्रतिपद्यैव महति मोहसागरे निपतितः । तेनैव न्यायेनायमपि श्रद्धालुत्वादनात्मनि शास्त्राहितामात्मदृष्टिमत्यजन्ननर्थभागी भवेदित्यर्थः ।

आत्मा जडादर्थान्तरं, तत्साक्षित्वात् , घटसाक्षिवदित्यतिरिक्तात्मधिया पुरुषार्थभागी स्यादित्याशङ्क्यागमविरोधान्मैवमित्याह —

तद्व्यतिरिक्तं चेति ।

आत्मज्ञानाभावे दोषमाह —

तथेति ।

विहतिर्मुक्तिभाक्त्वाभावः ।

अनात्मनिष्ठत्वे दोषमाह —

अनर्थं चेति ।

‘तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः’ इति श्रुतेरित्यर्थः ।

परमते तन्निष्ठानुपपत्तेः सदात्मत्वोपदेशमिच्छता सतश्चेतनत्वमेष्टव्यमित्युपसंहरति —

तस्मादिति ।

नन्वारोपेणापि शास्त्रे ध्यानोपदेशात्कथं तद्यथाभूतमेवोपदिशतीति नियम्यतेऽत्राह —

एवं चेति ।

कस्यचिदारोपितचोरत्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टस्तेन दृष्टान्तेन सत्ये ब्रह्मण्यभिसन्धिमतो मोक्षः ‘तद्यथा परशुं तप्तं प्रतिगृह्णाति’ इत्यत्रोक्तः । स च तत्त्वतो वस्तूपदेशे सम्भवतीत्यर्थः ।

सदात्मत्वोक्तेरारोपितार्थत्वेऽपि सत्याभिसन्धिसिद्धिः, ‘यस्य स्यादद्धा’ इत्यादिध्यानवाक्ये तद्दृष्टेरित्याशङ्क्याह —

अन्यथेति ।

उक्थं प्राणः ।

महावाक्योत्थं ज्ञानमिदमुच्यते । तस्य सम्पन्मात्रत्वेनानित्यफलत्वे फलितमाह —

तत्रेति ।

मोक्षस्य तद्वादिभिर्नित्यत्वोपगमादित्यर्थः ।

मोक्षोपदेशस्य परपक्षेऽप्यनुपपत्तिमुक्त्वोपसंहरति —

तस्मादिति ।

दृष्टान्ते गौणत्वमङ्गीकरेति —

भृत्येति ।

इतश्चात्मशब्दस्य दृष्टान्तेन प्रधानविषयतया न गौणतेत्याह —

अपि चेति ।

मुख्यार्थायोगो गुणायोगश्च गौणत्वे हेतुः ।

तदभावेऽपि तत्कल्पनातिप्रसङ्गिनीति हेत्वन्तरमेव स्फोटयति —

क्वचिदिति ।

अग्न्यादिशब्दानां माणवकादिषु गौणत्वदृष्ट्या दहनादिष्वपि तत्प्रसक्तेरित्याह —

सर्वत्रेति ।

गौणत्वं निरस्य साधारण्यं निरसितुमनुवदति —

यत्त्विति ।

एकत्र मुख्यशब्दस्य तद्योगादन्यत्र वृत्तिसम्भवे तत्रापि शक्तिकल्पने गौरवानैवमित्याह —

तन्नेति ।

क्वचित्त्वगत्यानेकार्थतेत्यर्थः ।

प्रधानमात्मशब्दस्य मुख्योऽर्थस्तदविवेकादन्यत्र तच्छब्दतेत्याशङ्क्याप्त्यादिनिमित्तस्य चेतने मुख्यत्वात्तत्रैवात्मशब्दस्य मुख्यतेत्याह —

तस्मादिति ।

कथं तर्हि भूतात्मेत्यादिवाक्यमित्याशङ्क्य जीवैक्याध्यासात्पञ्चकोशात्मभूतानामिन्द्रियाणां चात्मशब्दत्वं, परमात्मैक्यारोपात्प्रधानस्य प्रकृतेरित्याह —

चेतनत्वेति ।

आप्त्याद्युपाधेरात्मशब्दस्य चेतने मुख्यत्वे प्रधानेऽपि तथैव तन्मुख्यत्वसिद्धेः साधारण्यमित्याशङ्क्याह —

साधारणत्वेऽपीति ।

परमसूक्ष्मशक्त्यात्मकप्रकृत्यर्थाणिमशब्दात्तज्जाड्यसिद्धेस्तद्विषयत्वमात्मशब्दस्य शक्यं निश्चेतुमित्याशङ्क्य शक्तेरप्यन्तस्थचिदात्मनि निरङ्कुशमणीयस्त्वमित्याह —

न चेति ।

अत्रेति प्रकरणोक्तिः । किञ्चित्प्रकरणमुपपदं वेत्यर्थः ।

कथं तर्हि चेतनविषयतेत्याशङ्क्य क्रमेण प्रकरणोपपदे दर्शयति —

प्रकृतं त्विति ।

चेतनसन्निधानेऽपि तस्य ‘तत्त्वमसि’ इत्यचेतनप्रधानतादात्म्योक्तेरहेतुः सन्निधिरित्याशङ्क्याह —

नहीति ।

चेतने प्रकरणादिभावे फलितमाह —

तस्मादिति ।

‘जीवेनात्मना’ ‘स आत्मा’ इति च वाक्यमिहेत्युक्तम् । आत्मशब्दसाधारण्ये दृष्टान्तितं ज्योतिःशब्दं विघटयति —

ज्योतिःशब्दोऽपीति ।

कथं तर्हि ‘वसन्ते वसन्ते ज्योतिषा यजेत ‘ इत्यत्र कालविधौ प्रकृतज्योतिष्टोमे ज्योतिःशब्दः, तत्राह —

अर्थवादेति ।

‘कतमानि ज्योतीषि’ इत्युक्त्वा ‘एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः’ इत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यं त्रिवृदादिस्तोमानां फलप्रकाशकत्वम् । ततो ज्योतिष्ट्वेन निरूपितत्रिवृदादिस्तुतिसमुदायत्वाज्ज्योतिष्टोमे ज्योतिःशब्दः । तस्मादेकस्यात्मशब्दस्यानेकसाधारण्ये नेदमुदाहरणमित्यर्थः ।

आत्मशब्दादिति पूर्वसूत्रोक्तहेतुसाधकतया तच्छेषत्वेन सूत्रं व्याख्यायाधुना स्वतन्त्रहेतुपरतया व्याकरोति —

अथवेति ।

निरस्ता गौणत्वस्य साधारणत्वस्य च शङ्का यस्मात्स तथा तस्य भावस्तत्ता, तयात्मशब्दं व्याख्यायेति सम्बन्धः । सतश्चेतनस्य च तादात्म्यवचनं पूर्वसूत्रोक्तो हेतुः ।

सदर्थनिष्ठस्य मुक्तिरूपपरानन्दैक्योक्तेश्च चितो न प्रधानैक्यमिति हेत्वन्तरमिहोच्यत इत्याह —

तत इति ।

चेतनाचेतनयोरैक्यायोगादचेतननिष्ठतया चेतनस्य मोक्षोपदेशासिद्धेः ।

सिद्धमुपसंहरति —

तस्मान्नेति ॥ ७ ॥