ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अथोच्येतअचेतनेऽपि प्रधाने भवत्यात्मशब्दः, आत्मनः सर्वार्थकारित्वात्; यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दःममात्मा भद्रसेनःइतिप्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्वदुपकरोति, राज्ञ इव भृत्यः सन्धिविग्रहादिषु वर्तमानःअथवै एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति, ‘भूतात्मा’ ‘इन्द्रियात्माइति प्रयोगदर्शनात्; थै एव ज्योतिःशब्दः क्रतुज्वलनविषयःतत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति
अथोच्येतअचेतनेऽपि प्रधाने भवत्यात्मशब्दः, आत्मनः सर्वार्थकारित्वात्; यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दःममात्मा भद्रसेनःइतिप्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्वदुपकरोति, राज्ञ इव भृत्यः सन्धिविग्रहादिषु वर्तमानःअथवै एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति, ‘भूतात्मा’ ‘इन्द्रियात्माइति प्रयोगदर्शनात्; थै एव ज्योतिःशब्दः क्रतुज्वलनविषयःतत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति

जीवे सत आत्मशब्दान्न तत्प्रधानमित्युक्त्वा विधान्तरेण हेतुं व्याचष्टे —

तथेति ।

यः सदाख्यः स एषोऽणिमाऽणोर्भावो भावभवित्रोरभेदादणुरिति । ऐतदात्म्यमेतदात्मनो भावः । अयमपि प्रयोगो भवितृपरः । सर्वमिदं जगदेतदात्मकमिति यावत् । परमसूक्ष्मं सर्वात्मकं सदेव सत्यं पारमार्थिकं तत्त्वं, ‘मृत्तिकेत्येव सत्यम्’ इति दृष्टान्तस्थावधारणस्यात्रापि सम्बन्धात् । यच्च सत्यं स सर्वस्यात्मा निरुपचरितं रूपम् । हे श्वेतकेतो, त्वं च नासि संसारी, किन्तु तदेव ब्रह्मेत्यक्षरयोजना ।

तत्रापेक्षितं प्रतीकमादाय विवक्षितमाह —

इत्यत्रेति ।

तथाच चेतनस्यात्मशब्दान्न तस्य प्रधानतेत्यर्थः ।

यत्पुनरुपचारप्रायपाठादीक्षितृत्वं सतोऽपि गौणत्वमिति, तत्राह —

अप्तेजसोस्त्विति ।

युक्तमीक्षितृत्वस्य गौणत्वमिति सम्बन्धः । तत्र हेतुरितिशब्दः, स च प्रत्येकं सम्बध्यते । यतश्चेतनव्यापारं प्रति विषयत्वेन निर्देशात्तयोरचेतनत्वम् । आदिपदेन प्रवेशनियमनादिसङ्ग्रहः । यतश्च तत्र तत्र प्रयोज्यत्वेनैव तयोरुक्तिः, यस्माच्च सदीक्षितृत्वस्य मुख्यत्वहेत्वात्मशब्दवत्तयोरीक्षितृत्वस्य मुख्यत्वे हेतुर्न दृष्टः, तस्मात्कूलस्य गुणवृत्त्या पिपतिषावद्युक्तमप्तेजसोर्गौणमीक्षितृत्वमित्यर्थः ।

तर्हि प्रायपाठस्य का गतिरित्याशङ्क्य मुख्यत्वस्यौत्सर्गिकत्वाद्गौणेनातुल्यत्वाद्विशयानुदये प्रायवचनमकिञ्चित्करमित्यभिप्रेत्याप्तेजसोरपि मुख्यमेवेक्षणमाश्रयणीयं न गौणमित्याह —

तयोरपीति ।

कारणेक्षणं कार्ये लक्षणयोच्यते चेत्तत्रापि कथं मुख्यतेत्याशङ्क्याह —

सतस्त्विति ॥ ६ ॥

आत्मशब्दोऽपि प्रधाने गौणः स्यादिति चोदयति —

अथेति ।

गौणे प्रयोगे गुणयोगं दर्शयति —

आत्मन इति ।

स्वर्गार्थस्यापि कर्मणः स्वर्गशब्दानर्हत्ववदात्मार्थमपि प्रधानं नात्मशब्दार्हमित्याशङ्क्याह —

यथेति ।

प्रधानस्य भृत्यवच्चैतन्याभावादात्मार्थप्रवृत्त्ययोगान्नात्मार्थकारितेत्याशङ्क्याह —

प्रधानं हीति ।

भृत्यस्य राज्ञि विवेकाविवेकाभ्यामभ्युदयाद्यहेतुत्वान्न दृष्टान्ततेत्याशङ्क्योपकारित्वमात्रं तुल्यमित्याह —

राज्ञ इति ।

गौणत्वं निरसितुमुक्तात्मशब्दस्य न गौणतेत्यपरितुष्यन्नाह —

अथवेति ।

प्रधानेऽपि शक्तिकल्पने गौरवमाशङ्क्य वृद्धप्रयोगादनेकत्र शक्तिसिद्धेर्नैवमित्याह —

भूतात्मेति ।

प्रधानात्मा चेति परमात्मा चकारार्थः ।

तत्रात्मशब्दस्यात्मन्येव मुख्या वृत्तिः, प्रधानादौ गौणीत्याशङ्क्य भिन्नजातीययोरेकशब्दप्रयोगे शक्तिद्वयमेव कल्प्यमित्याह —

यथेति ।

आत्मशब्दसाधारण्ये फलितमाह —

तत्रेति ।

शङ्कोत्तरत्वेन सूत्रं पातयति —

अत इति ।