ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
गौणश्चेन्नात्मशब्दात् ॥ ६ ॥
यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मिन्नौपचारिकमीक्षितृत्वम् अप्तेजसोरिवेति, तदसत्कस्मात् ? आत्मशब्दात्; ‘सदेव सोम्येदमग्र आसीत्इत्युपक्रम्य, तदैक्षत’ (छा. उ. ६ । २ । ३) तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति तेजोबन्नानां सृष्टिमुक्त्वा, तदेव प्रकृतं सदीक्षितृ तानि तेजोबन्नानि देवताशब्देन परामृश्याह — ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इतितत्र यदि प्रधानमचेतनं गुणवृत्त्येक्षितृ कल्प्येत, तदेव प्रकृतत्वात्सेयं देवताइति परामृश्येत; तदा देवता जीवमात्मशब्देनाभिदध्यात्जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता, तत्प्रसिद्धेर्निर्वचनाच्च कथमचेतनस्य प्रधानस्यात्मा भवेत्आत्मा हि नाम स्वरूपम्नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हतिअथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्येत, तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यतेतथा एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । १४ । ३) इत्यत्र आत्माइति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य, ‘तत्त्वमसि श्वेतकेतोइति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशतिअप्तेजसोस्तु विषयत्वादचेतनत्वम् , नामरूपव्याकरणादौ प्रयोज्यत्वेनैव निर्देशात् , चात्मशब्दवत्किञ्चिन्मुख्यत्वे कारणमस्तीति युक्तं कूलवद्गौणत्वमीक्षितृत्वस्यतयोरपि च सदधिष्ठितत्वापेक्षमेवेक्षितृत्वम्सतस्त्वात्मशब्दान्न गौणमीक्षितृत्वमित्युक्तम् ॥ ६ ॥

अनुवादभागं विभजते —

यदुक्तमिति ।

परिहारभागं व्याकर्तुं नञर्थमुक्त्वा प्रश्नद्वारा हेतुमाह —

तदसदिति ।

परमतं निरसितुं प्रकरणमनुसन्दधानो हेतुं व्याचष्टे —

सदेवेति ।

सेति प्रकृतसदात्मोक्तिः । इयमिति सन्निहितेक्षितृत्वनिर्देशः । देवतेत्यलौकिकत्वमुक्तम् ।

इक्षणमभिनयति —

हन्तेति ।

सूक्ष्मभूतसर्गानन्तरं तावता व्यवहारायोगात्तदपेक्षायामित्यर्थः ।

सृष्टिवाक्येनोक्तानि तेजोऽबन्नानि निर्दिशति —

इमा इति ।

सूक्ष्मभूतानां व्यवहाराङ्गत्वेनाप्रत्यक्षत्वात्तेषु देवताशब्दः । अनेन पूर्वसृष्ट्यनुभूतेन जीवेन प्राणधृतिहेतुनात्मना सद्रूपेण यथोक्ता देवताः सर्गानन्तरं प्रविश्य नाम रूपं चेति विस्पष्टमासमन्तात्कारवाणीति परा देवतेक्षितवतीत्यर्थः ।

ननु सा जीवमात्मशब्देनाभिधत्तां, तथापि प्रधानस्य गौणमीक्षितृत्वं किं न स्यात् , तत्राह —

तत्रेति ।

ईक्षणवाक्यं सप्तम्यर्थः । जीवस्य चेतनत्वादचेतनप्रधानस्य तदात्मत्वायोगादित्यर्थः ।

तस्यापि प्राणात्मना प्रधानकार्यत्वात्तस्य तस्मिन्नात्मशब्दः स्यादित्याशङ्क्य जीवस्वरूपमाह —

जीवो हीति ।

तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ ।

चेतनत्वे हेतुः —

शरीरेति ।

तत्र जीवशब्दप्रवृत्तौ निमित्तमाह —

जीवो हीति ।

तस्य तदीयचैतन्यस्य च प्रसिद्ध्यर्थौ निपातौ ।

चेतनत्वे हेतुः —

शरीरेति ।

तत्र जीवशब्दप्रवृत्तौ निमित्तमाह —

प्रणानामिति ।

उक्तचेतनस्य जीवत्वे मानमाह —

प्रसिद्धेति ।

प्राणविषयत्वेनापि लौकिकी प्रसिद्धिः स्यादित्यशङ्क्य ‘जीव प्राणधारणे’ इति धात्वर्थानुरोधादुक्तश्चेतनो जीव इत्याह —

निर्वचनाच्चेति ।

सिद्धे जीवस्य चैतन्ये फलितमाह —

स कथमिति ।

आत्मशब्दार्थं वदन्नसम्भवं साधयति —

आत्मा हीति ।

पूर्ववन्निपातौ ।

संसार्यसंसारिणोर्विरोधात्त्वन्मतेऽपि ब्रह्मणो जीवे कथमात्मपदं प्रत्युक्तमित्याशङ्क्याह —

अथ त्विति ।

तत्त्वतोऽविरोधाद्दृष्टितो विरोधस्य बिम्बप्रतिबिम्बयोर्व्यभिचाराज्जीवब्रह्मैक्याद्ब्रह्मणो जीवे युक्तमात्मपदमित्यर्थः ।