ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अत्राहयदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वश्रवणादिति, तदन्यथाप्युपपद्यतेअचेतनेऽपि चेतनवदुपचारदर्शनात्यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्यकूलं पिपतिषतिइत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्टः, तद्वदचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यतितदैक्षतइतियथा लोके कश्चिच्चेतनःस्नात्वा भुक्त्वा चापराह्णे ग्रामं रथेन गमिष्यामिइतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्ततेतस्माच्चेतनवदुपचर्यतेकस्मात्पुनः कारणात् विहाय मुख्यमीक्षितृत्वम् औपचारिकं तत्कल्प्यते ? तत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३) ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात्; तस्मात्सत्कर्तृकमपीक्षणमौपचारिकमिति गम्यते, उपचारप्राये वचनात्इत्येवं प्राप्ते, इदं सूत्रमारभ्यते

प्रधानस्य न कारणतेत्युक्ते सतीक्षितृत्वस्य चेतनकारणत्वहेतोर्व्यभिचारं चोदयति —

अत्रेति ।

उक्तमनूद्य व्यभिचारं स्फोटयति —

यदुक्तमिति ।

हेतुश्रवणं तदा परामृष्टम् । अन्यथापि जगत्कारणस्याचेतनत्वेऽपीत्यर्थः ।

कथमुपपत्तिर्नहि तत्र मुख्यमीक्षितृत्वं, तत्राह —

अचेतनेऽपीति ।

तदेव दृष्टान्तेन व्याचष्टे —

प्रत्यासन्नेति ।

तथापि कथं प्रधाने 'तदैक्षत' इति व्यपदेशः, तत्राह —

तद्वदिति ।

उपचारे निमित्तम् —

प्रत्यासन्नेत्यादि ।

तथाविधेऽपि प्रधाने सिसृक्षतीति स्यात्कथमैक्षतेति तत्र —

चेतनवदिति ।

विरुद्धमुक्तं दृष्टान्तं व्याकुर्वाणो लौकिकेक्षितृसाम्यान्नियतक्रियाकारित्वादिरित्याह —

यथेति ।

तस्मादिति नियतप्रवृत्तिमत्त्वं हेतूकृतम् ।

मुख्यगौणयोर्मुख्यग्रहणं न्याय्यमिति सिद्धान्ती शङ्कते —

कस्मादिति ।

गौणेक्षणसन्निधिना समाधत्ते —

तत्तेज इति ।

दर्शनादौपचारिकं सतोऽपीक्षितृत्वमिति सम्बन्धः ।

सन्निधिफलमाह —

तस्मादिति ।

तच्छब्दार्थं व्याकरोति —

उपचारेति ।

तत्प्राये तत्प्रकरणे । इतिशब्दः शङ्कोपक्रमस्थक्रियापदसम्बन्धी ।

व्यभिचारशङ्कामनूद्य सूत्रमुत्तरत्वेनावतारयति —

एवमिति ।