ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
गौणश्चेन्नात्मशब्दात् ॥ ६ ॥
अत्राह — यदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वश्रवणादिति, तदन्यथाप्युपपद्यते । अचेतनेऽपि चेतनवदुपचारदर्शनात् । यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्य ‘कूलं पिपतिषति’ इत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्टः, तद्वदचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यति ‘तदैक्षत’ इति । यथा लोके कश्चिच्चेतनः ‘स्नात्वा भुक्त्वा चापराह्णे ग्रामं रथेन गमिष्यामि’ इतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते । तस्माच्चेतनवदुपचर्यते । कस्मात्पुनः कारणात् विहाय मुख्यमीक्षितृत्वम् औपचारिकं तत्कल्प्यते ? ‘तत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३) ‘ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात्; तस्मात्सत्कर्तृकमपीक्षणमौपचारिकमिति गम्यते, उपचारप्राये वचनात् । इत्येवं प्राप्ते, इदं सूत्रमारभ्यते —

प्रधानस्य न कारणतेत्युक्ते सतीक्षितृत्वस्य चेतनकारणत्वहेतोर्व्यभिचारं चोदयति —

अत्रेति ।

उक्तमनूद्य व्यभिचारं स्फोटयति —

यदुक्तमिति ।

हेतुश्रवणं तदा परामृष्टम् । अन्यथापि जगत्कारणस्याचेतनत्वेऽपीत्यर्थः ।

कथमुपपत्तिर्नहि तत्र मुख्यमीक्षितृत्वं, तत्राह —

अचेतनेऽपीति ।

तदेव दृष्टान्तेन व्याचष्टे —

प्रत्यासन्नेति ।

तथापि कथं प्रधाने 'तदैक्षत' इति व्यपदेशः, तत्राह —

तद्वदिति ।

उपचारे निमित्तम् —

प्रत्यासन्नेत्यादि ।

तथाविधेऽपि प्रधाने सिसृक्षतीति स्यात्कथमैक्षतेति तत्र —

चेतनवदिति ।

विरुद्धमुक्तं दृष्टान्तं व्याकुर्वाणो लौकिकेक्षितृसाम्यान्नियतक्रियाकारित्वादिरित्याह —

यथेति ।

तस्मादिति नियतप्रवृत्तिमत्त्वं हेतूकृतम् ।

मुख्यगौणयोर्मुख्यग्रहणं न्याय्यमिति सिद्धान्ती शङ्कते —

कस्मादिति ।

गौणेक्षणसन्निधिना समाधत्ते —

तत्तेज इति ।

दर्शनादौपचारिकं सतोऽपीक्षितृत्वमिति सम्बन्धः ।

सन्निधिफलमाह —

तस्मादिति ।

तच्छब्दार्थं व्याकरोति —

उपचारेति ।

तत्प्राये तत्प्रकरणे । इतिशब्दः शङ्कोपक्रमस्थक्रियापदसम्बन्धी ।

व्यभिचारशङ्कामनूद्य सूत्रमुत्तरत्वेनावतारयति —

एवमिति ।