ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
ईक्षतेर्नाशब्दम् ॥ ५ ॥
नासौ ज्ञाननित्यत्वे दोषोऽस्तिज्ञाननित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नोपपद्यते इति चेत् , प्रततौष्ण्यप्रकाशेऽपि सवितरिदहति’ ‘प्रकाशयतिइति स्वातन्त्र्यव्यपदेशदर्शनात्ननु सवितुर्दाह्यप्रकाश्यसंयोगे सतिदहति’ ‘प्रकाशयतिइति व्यपदेशः स्यात्; तु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगोऽस्तीति विषमो दृष्टान्तः; असत्यपि कर्मणिसविता प्रकाशतेइति कर्तृत्वव्यपदेशदर्शनात् , एवमसत्यपि ज्ञानकर्मणि ब्रह्मणःतदैक्षतइति कर्तृत्वव्यपदेशोपपत्तेर्न वैषम्यम्कर्मापेक्षायां तु ब्रह्मणि ईक्षितृत्वश्रुतयः सुतरामुपपन्नाःकिं पुनस्तत्कर्म, यत्प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीतितत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमःयत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः, किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवतीतियदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसम्बन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति, तच्चोद्यमवतरति; सवितृप्रकाशवद्ब्रह्मणो ज्ञानस्वरूपनित्यत्वेन ज्ञानसाधनापेक्षानुपपत्तेःअपि चाविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात्; ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्यमन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां दर्शयतः तस्य कार्यं करणं विद्यते तत्समश्चाभ्यधिकश्च दृश्यतेपरास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया ’ (श्वे. उ. ६ । ८) इतिअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः शृणोत्यकर्णः वेत्ति वेद्यं तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’ (श्वे. उ. ३ । १९) इति ननु नास्ति तव ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारीनान्योऽतोऽस्ति द्रष्टा ... नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) इतिश्रुतेः; तत्र किमिदमुच्यतेसंसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः, नेश्वरस्येति ? अत्रोच्यतेसत्यं नेश्वरादन्यः संसारी; तथापि देहादिसङ्घातोपाधिसम्बन्ध इष्यत एव, घटकरकगिरिगुहाद्युपाधिसम्बन्ध इव व्योम्नःतत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टः — ‘घटच्छिद्रम्’ ‘करकच्छिद्रम्इत्यादिः, आकाशाव्यतिरेकेऽपि; तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा; तथेहापि देहादिसङ्घातोपाधिसम्बन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिःदृश्यते चात्मन एव सतो देहादिसङ्घातेऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वेण पूर्वेणसति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणःयदप्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति, तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम्यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते, प्रधानादीनाम् , तथा प्रपञ्चयिष्यति विलक्षणत्वादस्य ...’ (ब्र. सू. २ । १ । ४) इत्येवमादिना ॥ ५ ॥

द्वितीयं शङ्कते —

ज्ञानेति ।

स्वतो नित्यस्यापि ज्ञानस्य तत्तदर्थावच्छिन्नस्य कार्यत्वात्तत्र स्वातन्त्र्यं प्रत्ययार्थो ब्रह्मणः सिध्यतीत्याह —

नेत्यादिना ।

वैषम्यं शङ्कते —

नन्विति ।

ब्रह्मणोऽपि विषयसम्बन्धे जानातीति स्यादित्याशङ्क्याह —

नत्विति ।

यत्र स्वातन्त्र्यं तत्र क्रियाश्रयत्वमेवाव्यभिचारादिति दूषयति —

न । असत्यपीति ।

प्रकाशतेरकर्मकत्वात्तथाव्यपदेशेऽपि जानातेः सकर्मकत्वात्कर्माभावे तथाव्यपदेशो न स्यादित्यशङ्क्याह —

कर्मेति ।

प्रकृत्यर्थवत्प्रत्ययार्थस्यापि बाधाभावात्सुतरामित्युक्तम् । यथा कुम्भकारस्य व्याचिकीर्षिताकारस्य स्वोपाध्यन्तःकरणपरिणतिरीक्षणं तथा ब्रह्मणोऽप्यविद्यायाः स्वोपाधेरनादिप्रवृत्तसर्गसंस्कारायाः प्रलयहेतुकर्मक्षयोत्थापितसंस्कारादिनिमित्तवशेन सर्गोन्मुखा परिणतिरीक्षणम् । ततोऽन्यस्य मुख्यस्यासम्भवादिदमेव मुख्यम् । तत्र चास्यादिकर्तुरस्ति कर्तृतेति भावः ।

नन्वपेक्षितं कर्म ब्रह्मणो भिन्नमभिन्नं वा । आद्ये तदद्वैतहानिः, द्वितीये सर्वज्ञत्वासिद्धिरित्याह —

किमिति ।

‘तन्नामरूपाभ्यामेव’ इत्यादिश्रुतेः सर्वस्य कार्यप्रपञ्चस्य नामरूपात्मकत्वात्तयोश्च ब्रह्मणो भेदाभेदाभ्यां दुर्भणत्वान्नैवमित्याह —

तत्त्वेति ।

प्रागेव तयोः सत्त्वे सर्गासिद्धिमाशङ्क्याह —

अव्याकृत इति ।

तयोस्तथास्वाभाव्ये कुतः सृष्टिरित्याशङ्क्योक्तम् —

व्याचिकीर्षिते इति ।

निरीश्वरवादिनं प्रति ब्रह्मणः सर्वज्ञत्वमुक्त्वा सेश्वरवादिनं प्रत्याह —

यत्प्रसादादिति ।

‘ततः प्रत्यक्चेतनाधिगमोऽन्तरायाभावश्च’ इति योगसूत्रस्य ‘भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैरग्यादिना ‘ इति तद्भाष्यस्य च दृष्टेर्योगशास्त्रविद इत्युक्तम् । अपिना सूचितं कैमुतिकं न्यायमाह —

किम्विति ।

तथा च सेश्वरवादे ब्रह्मणः सार्वज्ञ्यमनायासलभ्यमिति शेषः ।

जीवस्येवेश्वरस्यापि ज्ञानानुगुणहेत्वपेक्षामनुवदति —

यदपीति ।

वस्तुतो नित्यस्य स्वतो हेत्वनपेक्षत्वान्नैवमित्याह —

न तदिति ।

तदेव व्यतिरेकेण साधयति —

अपि चेति ।

अविद्या मिथ्याज्ञानम् । आदिशब्देनास्मितादिरुक्तः ।

ननु संसारिणोऽपि ज्ञानस्य नित्यत्वात्तत्र हेत्वपेक्षा स्याच्चेदीश्वरस्यापि स्यादभेदादित्याशङ्क्याविद्यं भेदमादाय विशेषमाह —

न ज्ञानेति ।

सोऽपि ज्ञानप्रतिबन्धकारणवानितरवच्चेतनत्वात् । अतस्तस्यापि देहाद्यपेक्षा ज्ञानोत्पत्तिरित्याशङ्क्य कालात्ययापदिष्टत्वमाह —

मन्त्रौ चेति ।

चकारः शङ्कानिरासार्थः । कार्यं शरीरं करणमिन्द्रियजातं, समः समानजातीयोऽभ्यधिको विजातीयो दृश्यत इति नञान्वितं द्वयं मानाभावपरम् । सत्त्वासत्त्वादिनानवगाह्यत्वं परत्वम् । शक्तिर्मूलकारणं माया तस्या विविधत्वमाकाशाद्यशेषाकारत्वम् । ऐतिह्यमात्रसिद्धा सा न प्रामाणिकीति वक्तुं श्रूयत इत्युक्तम् । उक्तमायानुसारित्वं स्वाभाविकत्वं, ज्ञानमेव बलं तेन क्रिया जगतः सर्गाद्या सा च स्वाभाविकीति । अपाणिरपि ग्रहीता, अपादोऽपि जवनो वेगवद्विहरणवान् , अचक्षुरपि पश्यति, अकर्णोऽपि शृणोति । किं बहुना सर्वमपि वेदनयोग्यं कार्यकरणानपेक्षो वेत्ति । पर्यवसितं तस्मिन्वेदितृत्वमतो न तस्यान्यो वेदितास्ति, नित्यस्फुरणत्वाच्च । तं चादिकर्तारं महान्तमाचक्षते ब्रह्मविदः । न च तन्महत्त्वमापेक्षिकमिति पुरुषपदम् ।

अविद्यादिमतः संसारिणो देहाद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येत्यत्रापसिद्धान्तं शङ्कते —

नन्विति ।

न केवलमपराद्धान्तादीश्वरादन्यो न संसारी किन्तु श्रुतिविरोधादपीत्यह —

नेति ।

व्यतिरिक्ते संसारिण्यसति विभागोक्तिरयुक्तेति फलितमाह —

तत्रेति ।

स्वाभाविकमौपाधिकं वान्यत्वं नास्तीति विकल्पयति —

अत्रेति ।

तत्राद्यमङ्गीकरोति —

सत्यमिति ।

द्वितीयं प्रत्याह —

तथापीति ।

तत्कृतमन्यत्वं चेष्टमेवेति शेषः ।

अपरिच्छिन्नस्य परिच्छिन्नोपाधिसम्बन्धे दृष्टान्तमाह —

घटेति ।

विमतौ तत्त्वतो भिन्नौ, अपुनरुक्तशब्दधीगम्यत्वात् , घटादिवदित्याशङ्क्य व्यभिचारमाह —

तत्कृतश्चेति ।

उपाधिसम्बन्धस्तच्छब्दार्थः ।

हेतुमदाकाशे साध्यं व्यावर्तयति —

आकाशेति ।

तस्य तत्त्वतो भेदाभावेऽपीति यावत् ।

परापरोस्तात्त्विकभेदाभावे कथं तत्प्रथेत्याशङ्क्याह —

तत्कृतेति ।

पूर्ववत्तच्छब्दः ।

दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति —

तथेति ।

चिदात्मा सप्तम्यर्थः । विशिष्टोपाधियोगादविवेकस्तेन कृतेत्येतत् ।

व्योमादावनात्मनि भ्रान्तिसम्भवेऽपि कथमात्मनि स्वप्रकाशे स्यादित्याशङ्क्याह —

दृश्यते चेति ।

तत्त्वतोऽतिरिक्तस्यैव सत आत्मन इति योजना ।

तत्र कारणमाह —

मिथ्येति

पूर्वभ्रान्तेरेव संस्कारद्वारोत्तरभ्रान्तिकारणत्वमवधारयितुं तन्मात्रग्रहणं न, किन्तु तद्धेतोर्विचारासहत्वं वक्तुम् , अतो हेत्वन्तरमविरुद्धम् ।

उपाधिद्वारा चिदात्मनि संसारित्वेऽपि प्रकृते किं जातं तदाह —

सति चेति ।

ईश्वरस्यासंसारिणो महाकाशस्थानीयस्य तदनपेक्षमीक्षितृत्वमिति शेषः ।

प्रधानस्य परोक्तं सर्वज्ञत्वं निरस्य ब्रह्मणस्तदुपपत्तिरुक्ता । सम्प्रति प्रधानस्यैव कारणत्वयोग्यतेत्युक्तमनुवदि —

यदपीति ।

तस्य कारणत्वं शब्दतस्तर्कतो वा । नाद्य इत्याह —

तदिति ।

द्वितीयं निरस्यति —

यथा त्विति ॥ ५ ॥