सिद्धान्तमुपपाद्य परोक्तमनुवदति —
यत्त्विति ।
प्रधाने गुणानां तुल्यतया सत्त्वकार्यस्य ज्ञानस्यैवासम्भवे सर्वज्ञत्वं दूरनिरस्तमित्याह —
तन्नेति ।
औपचारिकं सर्वज्ञत्वमुक्तं स्मारयति —
नन्विति ।
सत्त्वस्य सूक्ष्मरूपेण ज्ञानहेतुत्ववदितरयोरपि तेनात्मना तत्प्रतिबन्धकत्वान्न सर्वज्ञतेत्याह —
तदपीति ।
केवलसत्त्ववृत्तेर्ज्ञानत्वमुपेत्य सत्त्वधर्मेण तेन न सर्वज्ञतेत्युक्तम् । इदानीं न केवला सत्त्ववृत्तिर्ज्ञानं किन्तु तदभिव्यक्तश्चित्प्रकाशः, तथाविधज्ञानवत्त्वं च न प्रधानस्येत्याह —
अपिचेति ।
तर्हि प्रधानमेव चिदात्मना परिणतमवच्छेदकवृत्त्यात्मना विपरिणंस्यते, नेत्याह —
न चेति ।
हेतुरचेतनस्येत्युक्तः । प्रधानस्यासर्वज्ञत्वमुक्तं निगमयति —
तस्मादिति ।
अचेतनस्याज्ञातृत्वं तच्छब्दार्थः ।
परोक्तं दृष्टान्तं विघटयति —
योगिनां त्विति ।
सत्त्वोत्कर्षोऽपि चेतनस्योपकरोति नाचेतनस्य प्रधानस्य, अन्धस्येवादर्शोत्कर्ष इत्यर्थः ।
सेश्वरसाङ्ख्यमतमाह —
अथेति ।
यस्य स्वतो नेक्षितृत्वं तस्य कथं तदन्यकृतमपि स्यादित्याशङ्क्याह —
यथेति ।
लाघवेन सिद्धान्तयति —
तथेति ।
सिद्धान्ते परोक्तामनुपपत्तिमनुभाषते —
यत्पुनरिति ।
तस्य मुख्यं सर्वज्ञत्वं प्रतिजानीते —
अत्रेति ।
तत्र परोक्त्यनुपपत्तिं निरसितुं पृच्छति —
इदमिति ।
प्रकृत्यर्थाभावात्प्रत्यार्थाभावाद्वा ब्रह्मणोऽसर्वज्ञतेति प्रश्नमेव प्रकटयति —
कथमिति ।
प्रथमं प्रत्यह —
यस्येति ।
उक्तं व्यतिरेकद्वारा विवृणोति —
अनित्यत्वे हीति ।