ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
ईक्षतेर्नाशब्दम् ॥ ५ ॥
यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते । न हि प्रधानावस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं सम्भवति । ननूक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भविष्यतीति; तदपि नोपपद्यते । यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत, कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किञ्चिज्ज्ञमुच्येत । अपि च नासाक्षिका सत्त्ववृत्तिर्जानातिना अभिधीयते । न चाचेतनस्य प्रधानस्य साक्षित्वमस्ति । तस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम् । योगिनां तु चेतनत्वात्सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमित्यनुदाहरणम् । अथ पुनः साक्षिनिमित्तमीक्षितृत्वं प्रधानस्य कल्प्येत, यथाग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम् । तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य, तदेव सर्वज्ञं ब्रह्म मुख्यं जगतः कारणमिति युक्तम् । यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यासम्भवादिति । अत्रोच्यते — इदं तावद्भवान्प्रष्टव्यः — कथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिरिति । यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति, सोऽसर्वज्ञ इति विप्रतिषिद्धम् । अनित्यत्वे हि ज्ञानस्य, कदाचिज्जानाति कदाचिन्न जानातीत्यसर्वज्ञत्वमपि स्यात् ।

सिद्धान्तमुपपाद्य परोक्तमनुवदति —

यत्त्विति ।

प्रधाने गुणानां तुल्यतया सत्त्वकार्यस्य ज्ञानस्यैवासम्भवे सर्वज्ञत्वं दूरनिरस्तमित्याह —

तन्नेति ।

औपचारिकं सर्वज्ञत्वमुक्तं स्मारयति —

नन्विति ।

सत्त्वस्य सूक्ष्मरूपेण ज्ञानहेतुत्ववदितरयोरपि तेनात्मना तत्प्रतिबन्धकत्वान्न सर्वज्ञतेत्याह —

तदपीति ।

केवलसत्त्ववृत्तेर्ज्ञानत्वमुपेत्य सत्त्वधर्मेण तेन न सर्वज्ञतेत्युक्तम् । इदानीं न केवला सत्त्ववृत्तिर्ज्ञानं किन्तु तदभिव्यक्तश्चित्प्रकाशः, तथाविधज्ञानवत्त्वं च न प्रधानस्येत्याह —

अपिचेति ।

तर्हि प्रधानमेव चिदात्मना परिणतमवच्छेदकवृत्त्यात्मना विपरिणंस्यते, नेत्याह —

न चेति ।

हेतुरचेतनस्येत्युक्तः । प्रधानस्यासर्वज्ञत्वमुक्तं निगमयति —

तस्मादिति ।

अचेतनस्याज्ञातृत्वं तच्छब्दार्थः ।

परोक्तं दृष्टान्तं विघटयति —

योगिनां त्विति ।

सत्त्वोत्कर्षोऽपि चेतनस्योपकरोति नाचेतनस्य प्रधानस्य, अन्धस्येवादर्शोत्कर्ष इत्यर्थः ।

सेश्वरसाङ्ख्यमतमाह —

अथेति ।

यस्य स्वतो नेक्षितृत्वं तस्य कथं तदन्यकृतमपि स्यादित्याशङ्क्याह —

यथेति ।

लाघवेन सिद्धान्तयति —

तथेति ।

सिद्धान्ते परोक्तामनुपपत्तिमनुभाषते —

यत्पुनरिति ।

तस्य मुख्यं सर्वज्ञत्वं प्रतिजानीते —

अत्रेति ।

तत्र परोक्त्यनुपपत्तिं निरसितुं पृच्छति —

इदमिति ।

प्रकृत्यर्थाभावात्प्रत्यार्थाभावाद्वा ब्रह्मणोऽसर्वज्ञतेति प्रश्नमेव प्रकटयति —

कथमिति ।

प्रथमं प्रत्यह —

यस्येति ।

उक्तं व्यतिरेकद्वारा विवृणोति —

अनित्यत्वे हीति ।