सूत्रस्थं नञ्पदं व्याचष्टे —
नेति ।
तत्र सौत्रमेव हेतुमाह —
अशब्दं हीति ।
‘सदेव’ इत्यत्र सच्छब्दस्य सच्छब्दत्वान्नाशब्दत्वमित्याह —
कथमिति ।
सौत्रं पदमवतार्य व्याकरोति —
ईक्षतेरिति ।
अनुमेयं प्रधानं हित्वा तदनुवादिश्रुतिसिद्धस्य कथं कारणत्वमित्याह —
कथमिति ।
कार्येण कारणमात्रमनुमातुं शक्यं न तद्विशेषः । तत्र श्रुतिरेव मानमिति मत्वाह —
एवंहीति ।
श्रुतोपादानस्य चेतनार्थत्वमाह —
तदैक्षतेति ।
केचिदीक्षितारमीश्वरं सद्वितीयं सङ्गिरन्ते, तान्प्रत्याह —
एकमेवेति ।
तस्योपादानार्थत्वमाह —
बहु स्यामिति ।
ईक्षणफलमाह —
तदिति ।
तदाकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्यर्थः ।
श्रुतेरनुमितार्थानुवादित्वव्युदासार्थमर्थमाह —
तत्रेत्यादिना ।
उक्तश्रुतिः सप्तम्यर्थः ।
छन्दोगश्रुतिवदैतरेयश्रुतिरपि प्रधानवादविरोधिनीत्यह —
तथेति ।
मिषच्चलत् । सत्त्वाक्रान्तमिति यावत् ।
प्रश्नश्रुतिरपि प्रधानकारणतां वारयतीत्याह —
क्वचिच्चेति ।
'स प्राणमसृजत प्राणाच्छ्रद्धां खंवायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च’ इत्युक्ताः षोडशकलाः ।
‘इक्शितपौ धातुनिर्देशे’ इति स्मरणादीक्षतेरिति श्तिपा धातुस्वरूपकथनान्न तस्य चेतनोपादानत्वसाधनतेत्याशङ्क्याह —
ईक्षतेरितीति ।
विषयिणा विषयस्य लक्षणादित्यर्थः ।
प्रसिद्धा चेयं लक्षणेत्याह —
यजतेरितिवदिति ।
सप्तमे स्थितम् - ‘इतिकर्तव्यताविधेर्यजतेः पूर्ववत्त्वम् । ‘ इतिकर्तव्यतायाः सौर्यादिषु विकृतिष्वविधानादनितिकर्तव्यताकत्वे प्राप्ते प्रत्युच्यते - यथा लोके शाकादिषु सिद्धेषु वदन्त्योदनं पचेति, तथेह सिद्धवत्कृत्य सामान्येनेतिकर्तव्यताकरणं विहितं तस्याश्च विकृतिष्वविधेः सौर्यादीनां विकृतियागानां दर्शादिप्रकृतिविहितपूर्वेतिकर्तव्यतावत्त्वमिति । तत्र यथा यजतेरिति यागो गृहीतस्तथेहापीक्षतेरितीक्षणमित्यर्थः ।
ईक्षतेरित्युक्तेरर्थपरत्वे वाक्यान्तराण्यपि प्रधानपक्षप्रतिक्षेपायात्र सूचितानि भवन्तीत्याह —
तेनेति ।
सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः । ज्ञानमयं ज्ञानात्मकं तपो न त्वायासरूपम् । एतद्ब्रह्म जायमानं हिरण्यगर्भाख्यं कार्यम् । नाम देवदत्तादि । रूपं नीलपीतादि । अन्नं व्रीहियवादि । आदिपदेन ‘ज्ञःकालकालो गुणी सर्वविद्यः स कारणम्‘ इत्यादि गृहीतम् ।