ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
ईक्षतेर्नाशब्दम् ॥ ५ ॥
तत्र साङ्ख्याः प्रधानं त्रिगुणमचेतनं स्वतन्त्रं जगतः कारणमिति मन्यमाना आहुः — यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं प्रदर्शयन्तीत्यवोचः, तानि प्रधानकारणपक्षेऽपि योजयितुं शक्यन्ते । सर्वशक्तिमत्वं तावत्प्रधानस्यापि स्वविकारविषयमुपपद्यते । एवं सर्वज्ञत्वमप्युपपद्यते । कथम् ? यत्त्वं ज्ञानं मन्यसे, स सत्त्वधर्मः, ‘सत्त्वात्संजायते ज्ञानम्’ (भ. गी. १४ । १७) इति स्मृतेः । तेन च सत्त्वधर्मेण ज्ञानेन कार्यकरणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः । सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् । न केवलस्य अकार्यकरणस्य पुरुषस्योपलब्धिमात्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम् । त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते वेदान्तवाक्येषु । अवश्यं च त्वयापि सर्वज्ञं ब्रह्माभ्युपगच्छता सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमभ्युपगन्तव्यम् । न हि सर्वदा सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्तते । तथाहि — ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत; अथानित्यं तदिति ज्ञानक्रियाया उपरमे उपरमेतापि ब्रह्म, तदा सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमापतति । अपि च प्रागुत्पत्तेः सर्वकारकशून्यं ब्रह्मेष्यते त्वया । न च ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्यचिदुपपन्ना । अपि च प्रधानस्यानेकात्मकस्य परिणामसम्भवात्कारणत्वोपपत्तिर्मृदादिवत् , नासंहतस्यैकात्मकस्य ब्रह्मणः — इत्येवं प्राप्ते, इदं सूत्रमारभ्यते —

उत्तरग्रन्थतात्पर्यमुक्त्वा ‘सदेव’ इत्यादौ सच्छब्दितमीक्षितृ सर्वज्ञं जगदुपादानं प्रधानं ब्रह्मैवेति वादिविवादाज्ज्ञातृत्वज्ञानाभ्यां संशय्यानन्तराधिकरणपूर्वपक्षमाह —

तत्रेति ।

स्थितं समुदायतात्पर्यं सप्तम्यर्थः । सर्वज्ञे जगद्धेतौ समन्वयोक्त्या तच्चैतन्यमाक्षिप्य समर्थ्यत इत्यधिकरणसङ्गतिः । नानाशाखास्थस्फुटब्रह्मलिङ्गवाक्यानां ब्रह्मण्येव समन्वयोक्तेः श्रुत्यादिसङ्गतयः । ‘तत्त्वमसि’ इति तच्छब्दितप्रधानैक्यसम्पत्तिः पूर्वपक्षे । सिद्धान्ते चिदात्मनो ब्रह्मैक्यं फलम् ।

प्रकर्षेण धीयते सर्वं जगदस्मिन्निति ब्रह्मापि प्रधानं, ततो विशिनष्टि —

त्रिगुणमिति ।

परिणामयोग्यत्वमाह —

अचेतनमिति ।

साङ्ख्यीयमतं श्रुतिविरोधात्त्याज्यमित्याशङ्क्याह —

यानीति ।

जीवाख्यचित्प्रतिबिम्बानां स्वतो विभजननियमेनैकीकरणशक्तयो न प्रधानस्याचेतनस्येत्यन्यदेव सर्वशक्तिमदेष्टव्यमित्याशङ्क्य चित्प्रतिबिम्बानामनुत्पाद्यत्वादुत्पाद्यार्थशक्तिरस्यापि स्यादित्याह —

सर्वेति ।

तथापि कुतोऽस्याचेतनत्वे सर्वज्ञता, तत्राह —

एवमिति ।

यस्य न ज्ञत्वमेव तस्य कुतः सर्वज्ञतेत्याह —

कथमिति ।

प्रधाने ज्ञानकर्तृत्वं सम्भावयितुं ज्ञानस्वरूपमाह —

यदिति ।

ननूक्तज्ञानेन चेतनानामेव योगिनां सर्वज्ञात्वात्तदचेतनं प्रधानं कथं तेन सर्वज्ञमुच्यते, तत्राह —

तेनेति ।

कार्यकरणवन्त इत्यचैतन्यमुक्तम् । तत्रापि चेतनांशस्यैव सर्वज्ञत्वं, सत्त्वस्य सहायतया तदुत्कर्षान्वयव्यतिरेकयोरन्यथासिद्धेरित्याशङ्क्याह —

सत्त्वस्येति ।

केवलव्यतिरेकाभावान्न चेतनांशस्यैव सर्वज्ञतेत्यर्थः ।

किञ्च तस्य सर्वज्ञत्वं दुर्ज्ञानं, चिन्मात्रस्य ज्ञानकर्तृत्वायोगादित्याह —

नेति ।

कार्यकरणविरहितत्वाच्च नास्य ज्ञानकर्तृतेत्याह —

अकार्येति ।

पूर्णत्वाच्च तथेत्याह —

पुरुषस्येति ।

प्रधानावस्थायां गुणसाम्ये सत्त्वोत्कर्षायोगान्न तस्य ज्ञानकर्तृतेत्याह —

त्रिगुणत्वादिति ।

नच ज्ञानप्रतिबन्धकरजस्तमसोरपि तत्र भावान्न सार्वज्ञ्यं, वस्तुतस्तद्भावेऽपि, माणवकस्याग्नित्ववत्तदुपचारात् , तदाह —

उपचर्यत इति ।

गौणमुख्ययोर्मुख्ये संप्रत्ययान्मुख्यग्रहणमाशङ्क्याह —

अवश्यमिति ।

तत्र हेतुमाह —

नहीति ।

तथात्वे कानुपपत्तिरित्याशङ्क्य तज्ज्ञानं नित्यमनित्यं वेति विकल्पयति —

तथाहीति ।

तत्राद्यं दूषयति —

ज्ञानेति ।

द्वितीयमनूद्य स्वमतसिद्धान्तमाह —

अथेत्यादना ।

अनित्यज्ञानपक्षे ब्रह्मणः सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञतेत्यत्र हेत्वन्तरमाह —

अपि चेति ।

तथापि तस्य सर्वविषयं ज्ञानं किमिति नोत्पद्यते, तत्राह —

न चेति ।

आदिपदेन ज्ञेयज्ञात्रादिसङ्ग्रहः ।

उभयत्राप्यनुपपत्तिसाम्ये कथं पक्षिविशेषपक्षपात इत्याशङ्क्य प्रधानपक्षे विशेषमाह —

अपि चेति ।

एकस्यापि ब्रह्मणः सामग्रीसन्निधानात्कारणत्वमाशङ्क्य तस्यासङ्गत्वादद्वयत्वाच्च नैवमित्याह —

नेति ।

जगदुपादानवादिवेदान्तानां प्रधानपरतेति पूर्वपक्षमनूद्य सूत्रेण सिद्धान्तयति —

एवमिति ।