ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
ईक्षतेर्नाशब्दम् ॥ ५ ॥
एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानामन्तरेणापि कार्यानुप्रवेशं ब्रह्मणि पर्यवसानमुक्तम् । ब्रह्म च सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिनाशकारणमित्युक्तम् । साङ्ख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति । सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम् । प्रधानपुरुषसंयोगा नित्यानुमेया इति साङ्ख्या मन्यन्ते । काणादास्त्वेतेभ्य एव वाक्येभ्य ईश्वरं निमित्तकारणमनुमिमते, अणूंश्च समवायिकारणम् । एवमन्येऽपि तार्किका वाक्याभासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्ठन्ते । तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्तवाक्यानां ब्रह्मात्मावगतिपरत्वप्रदर्शनाय वाक्याभासयुक्त्याभासप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते ॥

शास्त्रार्थं चतुर्भिः सूत्रैः सङ्क्षिप्य वक्ष्यमाणाधिकरणानामपुनरुक्तमर्थं वक्तुं वृत्तं सङ्कीर्तयति —

एवमिति ।

तेषां तत्फलत्वे हेतुः —

तात्पर्येणेति ।

कार्यान्विते ब्रह्मणि तात्पर्यं तेषामित्याशङ्क्याह —

अन्तरेणेति ।

समन्वयसूत्रार्थमनूद्यातीतसूत्रत्रयार्थमनुवदति —

ब्रह्म चेति ।

उक्ते लक्षणे तदतिव्याप्तिशङ्कायां निरासस्य सावकाशत्वाद्ब्रह्मणो जिज्ञास्यस्य लक्षणमपि शास्त्रीयस्योक्तमित्यर्थः ।

तस्मिन्ब्रह्मणि सिद्धे समन्वये समन्वयाध्यायसमाप्तेरुत्तरसन्दर्भानर्थक्यमित्याह —

साङ्ख्यादयस्त्विति ।

सिद्धेऽर्थे मानत्वविरोधिकार्यानुप्रवेशे प्रत्युक्तेऽपि ब्रह्मण्येव समन्वयो नान्यत्रेत्यनिर्धारणाद्ब्रह्मकारणताविरोधिप्रधानादिवादनिरासायोत्तरसन्दर्भ इत्यर्थः ।

परिनिष्ठितस्य मानान्तरगम्यत्वे तत्संवादादिना तत्र वेदान्ताप्रामाण्यान्न ततो जगद्धेतुर्ब्रह्म सिध्यतीति चेत्तर्हि केन मानेन तद्धेतुधीरित्याशङ्क्योक्तम् —

प्रधानादीनीति ।

का तर्हि वेदान्तानां गतिः, परार्थानुमानतेत्याह —

तत्परतयेति ।

हेत्वाद्यनुक्तेस्तेषां न परार्थानुमानतेत्याशङ्क्याह —

सर्वेष्विति ।

‘तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ इत्यादिष्वनुमानता भातीत्यर्थः ।

कार्यलिङ्गकमनुमानं ब्रह्मैव गमयिष्यतीत्याशङ्क्य सुखदुःखमोहात्मकं कार्यं तादृगेव कारणमनुमापयतीत्याह —

प्रधानेति ।

तस्याचेतनस्य स्वार्थाभावात्पुमर्थप्रवृत्तौ पुंसि मानं वाच्यमिति मत्वाह —

पुरुषेति ।

बुद्धौ यः प्रतिबिम्बः, स तादृशबिम्बपूर्वकः, प्रतिबिम्बत्वात् , दर्पणे मुखाभासवदित्यर्थः । सम्बन्धाभावे तादर्थ्यायोगात्तत्रापि मानाकाङ्क्षायां, विमतं चेतनसंयुक्तम् , अचेतनत्वात् , द्रव्यादिवदिति बुद्ध्या संयोगग्रहणम् ।

मतान्तरमाह —

काणादास्त्विति ।

‘यतो वा इमानि’ इत्यादिवाक्येभ्यो यच्छब्दोपबन्धेन सिद्धवज्जगद्धेतुपरामर्शात् , यत्कार्यं तद्बुद्धिमत्कर्तृकमिति सामान्यतोदृष्टादीश्वरं कल्पयन्तीत्यर्थः ।

स्वपरिमाणादल्पपरिमाणारब्धं पटादि दृष्ट्वाद्यमपि कार्यं तथेति समवायित्वेन चतुर्विधानणून्कल्पयन्तीत्याह —

अणूंश्चेति ।

'असद्वा इदमग्र आसीत् ‘ इत्यादिवाक्याभासाद्दीपादेर्निरन्वयनाशदृष्ट्या पृथिव्यादेरपि तथा नष्टस्यासत एवोत्पत्तिरित्यादियुक्त्याभासाच्चाद्वैतवादे माध्यमिकादयो विरोधिनो भवन्तीत्याह —

एवमिति ।

वादिविप्रतिपत्तीरुक्त्वा तन्निरासायोत्तरग्रन्थमवतारयति —

तत्रेति ।

तत्र वादिषु भिन्नप्रस्थानेषु सत्स्विति यावत् । वाक्याभासेषु युक्त्याभासेषु च प्रतिपत्तिर्येषां ते तथा ।