वेदान्तेषु नास्ति वस्तुमात्रोक्तिः, मननादिविधिशेषत्वेन ब्रह्मोक्तेरित्याशङ्क्योक्तमनुवदति —
यत्पुनरिति ।
श्रुतमात्रस्य मननादियोगो नावगतस्येत्याह —
नेत्यादिना ।
वेदान्तानामेकरसे ब्रह्मणि शक्तितात्पर्यनिश्चयः श्रवणम् । तस्मिन्नेव श्रुत्यनुसारिण्या युक्त्या सम्भावनाधानं मननम् । श्रुते मते च बुद्धेः स्थैर्यं निदिध्यासनम् । तेषामैक्यापरोक्षप्रतीतिव्यञ्जकत्वे तच्छेषत्वान्नावगतमन्यत्र विनियुक्तमित्यर्थः ।
अवगतस्यान्यत्राविनियोगेऽपि ब्रह्मणो विधिशेषत्वं किं न स्यात् , तत्राह —
यदीति ।
ब्रह्मणि मितेऽमिते वा तद्धियो विध्यसिद्धेरापातदृष्टेः साक्षात्कारार्थं श्रवणादिषु विहितेषु तेभ्यस्तद्भावान्न तस्य विधिशेषतेत्युपसंहरति —
तस्मान्नेति ।
न च वस्तुप्रकरणे श्रवणादिविध्ययोगः, वाक्यभेदोपगमात् । न च ‘तद्विषये लिङादयः’ इत्यादिभाष्यविरोधः, तस्य ज्ञानविधिनिरासार्थत्वात् । अत एवात्र प्रतिपत्तिशब्दः । न चैवं वेदान्तानां श्रवणादिविधिपरत्वं, वाक्यभेदस्योक्तत्वात् । न चान्वयादिसिद्धहेतुभावेषु तेषु न विधिः, अवघातेऽपि तदभावापातात् । नियमादृष्टस्योभयत्र तुल्यत्वात्सर्वापेक्षाधिकरणात्तस्य ज्ञानोत्पत्त्युपयोगादिति भावः ।
उक्तेऽर्थे सूत्रं संयोजयति —
अत इति ।
विधिशेषत्वेन शास्त्रप्रमाणकत्वासिद्धिरित्यतःशब्दार्थः ।
वेदान्तानां विध्यनपेक्षसिद्धबोधित्वे शास्त्रारम्भभेदं प्रमाणयति —
एवं चेति ।
विधिशेषत्वेन ब्रह्मार्पणेऽपि शास्त्रं पृथगारभ्येतेत्याशङ्क्याह —
प्रतिपत्तीति ।
नन्वाद्ये काण्डे बाह्यक्रियाविधिरधिगतः, मानसज्ञानविधिविचाराय काण्डान्तरमारभ्यते, नेत्याह —
आरभ्यमाणं चेति ।
देहादिसाध्यकर्मविचारानन्तर्यमथेत्युक्तम् । तस्यैव चित्तशुद्धिद्वारा ज्ञानविधिविचारोपयोगितातःशब्दार्थः ।
तत्र चातुर्थिकमुदाहरणमाह —
अथात इति ।
तृतीये श्रुत्यादिभिः शेषशेषित्वे सिद्धे सत्यनन्तरं शेषिणैव शेषस्य प्रयुक्तिसम्भवात्को नाम क्रतवे प्रकुरुते को वा पुरुषार्थायेति क्रत्वर्थपुरुषार्थयोर्जिज्ञासा ज्ञातुमिच्छा प्रवृत्तेति चतुर्थादौ प्रतिज्ञासूत्रवदिदमपि ब्रूयात् । न चैवं ब्रवीति । तस्मान्नोक्तविभागधीरित्यर्थः ।
त्वन्मतेऽपि कथं पृथगारम्भः शास्त्रस्येत्याशङ्क्य मेयफलभेदादित्याह —
ब्रह्मेति ।
स्वातन्त्र्येण ब्रह्मात्मैक्यनिष्ठत्वे वेदान्तानां तदेव तात्त्विकमिति कथं द्वैतालम्बनस्य विधिकाण्डस्याध्यक्षादेश्च मानतेत्याशङ्क्योपसंहरन्परिहरति —
तस्मादिति ।
अद्वैतधियो भेदाधिष्ठानमानविरोधित्वं तच्छब्दार्थः । इतिना ज्ञानं परामृष्टम् ।
तस्मादित्युक्तं हेतु व्यनक्ति —
नहीति ।
तत्त्वसाक्षात्कारे तदज्ञानध्वस्तौ तदुत्थमात्रादिसर्वभेदध्वस्तेरविद्यावस्थायामेवाशेषो व्यवहार इत्यर्थः । कार्यास्पृष्टे सिद्धे ब्रह्मण्यद्वये सिद्धा वेदान्तमानतेत्युपसंहर्तुमितिशब्दः ।
न केवलमस्माभिरयमर्थोऽभ्युपगतः किं त्वन्यैरपि ब्रह्मविद्भिरित्याह —
अपि चेति ।
सत्पारमार्थिकमबाधितं ब्रह्माहमित्येवं बोधे जाते पुत्रदेहादेः सक्ताबाधनान्मायामात्रत्वावगमादयमहमेवेति पुत्रादावहमभिमानस्य गौणात्मनो मनुष्योऽहमिति देहादावहमभिमानस्य च मिथ्यात्मनोऽसत्त्वे कार्यं कथं भवेत् । तन्निमित्ताभावाद्विधिविधेयादिव्यवहारो न कथञ्चिदित्यर्थः ।
यद्यात्मा सद्ब्रह्मैव कस्तर्हि प्रमाता । यद्ययमेव कथं तर्हि ब्रह्मतास्येत्याशङ्क्याह —
अन्वेष्टव्येति ।
‘य आत्मापहतपाप्मा’ इत्यादिश्रुतिसिद्ध आत्मान्वेष्टव्यः, ‘सोऽन्वेष्टव्यः’ इति श्रुतेः । तद्विज्ञानात्पूर्वमात्मनो मातृत्वं, प्रमातैवान्विष्टः सन्निर्दोषः परमात्मा स्यात् । अतोऽन्वयव्यतिरेकाभ्यामात्मनो मातृत्वमाविद्यकमित्यर्थः ।
तस्याविद्यकत्वे कथमध्यक्षादीनां श्रुतेश्च मानता, कारणदोषादित्याशङ्क्याह —
देहेति ।
यथा देहातिरिक्तात्मवादे कल्पितापि देहात्मत्वधीर्व्यवहाराङ्गतया मानमिष्यते तथा तत्त्वसाक्षात्कारपर्यन्तं व्यवहाराङ्गत्वाद्व्यवहारे बाधाभावाच्चाध्यक्षाद्यतत्त्वावेदकमपि व्यावहारिकं मानम् । श्रुतेस्तु वर्णदैर्घ्यादिवदात्मधीहेतोस्तात्त्विक्येव मानतेत्यर्थः ॥ ४ ॥