ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
यदप्युक्तम्कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमनर्थकं स्यात्सप्तद्वीपा वसुमतीइत्यादिवदिति, त्परिहृतम् । ‘रज्जुरियम् , नायं सर्पःइति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात्ननु श्रुतब्रह्मणोऽपि यथापूर्वं संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमित्युक्तम्अत्रोच्यतेनावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुम् , वेदप्रमाणजनितब्रह्मात्मभावविरोधात् हि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति, तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति, तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तं दुःखं भवति कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमानरहितस्य तदेव कुण्डलित्वाभिमाननिमित्तं सुखं भवतितदुक्तं श्रुत्याअशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इतिशरीरे पतितेऽशरीरत्वं स्यात् , जीवत इति चेत् , ; सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्वात् ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्पयितुम्नित्यशरीरत्वमकर्मनिमित्तत्वादित्यवोचामतत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् , शरीरसम्बन्धस्यासिद्धत्वात् धर्माधर्मयोरात्मकृतत्वासिद्धेः, शरीरसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात्अन्धपरम्परैषा अनादित्वकल्पनाक्रियासमवायाभावाच्चात्मनः कर्तृत्वानुपपत्तेःसन्निधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेत् , धनदानाद्युपार्जितभृत्यसम्बन्धित्वात्तेषां कर्तृत्वोपपत्तेः त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामिभावसम्बन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम्मिथ्याभिमानस्तु प्रत्यक्षः सम्बन्धहेतुःएतेन यजमानत्वमात्मनो व्याख्यातम्अत्राहुःदेहादिव्यतिरिक्तस्यात्मनः आत्मीये देहादावभिमानो गौणः, मिथ्येति चेत् , प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेःयस्य हि प्रसिद्धो वस्तुभेदःयथा केसरादिमानाकृतिविशेषोऽन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्योऽन्यः प्रसिद्धः, ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः सम्पन्नः सिद्धः, तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतःनाप्रसिद्धवस्तुभेदस्यतस्य त्वन्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतः, गौणौयथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, यथा वा शुक्तिकायामकस्माद्रजतमिदमिति निश्चितौ शब्दप्रत्ययौ, तद्वद्देहादिसङ्घाते अहम् इति निरुपचारेण शब्दप्रत्ययावात्मानात्माविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम्आत्मानात्मविवेकिनामपि पण्डितानामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ भवतःतस्माद्देहादिव्यतिरिक्तात्मास्तित्ववादिनां देहादावहंप्रत्ययो मिथ्यैव, गौणःतस्मान्मिथ्याप्रत्ययनिमित्तत्वात्सशरीरत्वस्य, सिद्धं जीवतोऽपि विदुषोऽशरीरत्वम्तथा ब्रह्मविद्विषया श्रुतिःतद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव’ (बृ. उ. ४ । ४ । ७) इति; ‘सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव सवागवागिव समना अमना इव सप्राणोऽप्राण इवइति स्मृतिरपिस्थितप्रज्ञस्य का भाषा’ (भ. गी. २ । ५४) इत्याद्या स्थितप्रज्ञस्य लक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसम्बन्धं दर्शयतितस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम्यस्य तु यथापूर्वं संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम्

आम्नायस्य क्रियार्थत्वादितिहेतोस्तद्बलेनाक्रिायर्थानामप्रामाण्यपूर्वपक्षस्य विध्येकवाक्यत्वेन प्रामाण्यसिद्धान्तस्य चोपलक्षणार्थमानर्थक्याभिधानमित्युक्तम् । सर्वेषामेषामुक्तविषयत्वाविशेषादुपनिषदामपि पुरुषार्थानवसायित्वादर्थवादाधिकरणविषयतेत्याशङ्क्य पूर्वपक्षोक्तमनुवनदि —

यदपीति ।

तत्रोक्तं परिहारं स्मारयति —

तदिति ।

उक्तं वैषम्यं शङ्कते —

नन्विति ।

ज्ञानमात्रादूर्ध्वं वा संसारित्वं, तत्त्वसाक्षात्काराद्वा । तत्राद्यमङ्गीकुर्वन्नाह —

अत्रेति ।

द्वितीयं निरस्यति —

नेत्यादिना ।

तत्प्रपञ्चयति —

नहीति ।

शाब्दज्ञानाभ्याससंस्कृतं चेतो ब्रह्मात्मसाक्षात्कारहेतुरिति पक्षं प्रतिक्षेप्तुं वेदेत्यादिपदम् ।

तत्त्वसाक्षात्कारवतो दुःखानुदये दृष्टान्तमाह —

नहीति ।

तस्यैव सांसारिकसुखानुत्पादे दृष्टान्तमाह —

नचेति ।

तत्त्वविदो देहाद्यभिमानहीनस्य सांसारिकसर्वधर्मास्पर्शे मानमाह —

तदुक्तमिति ।

जीवतोऽशरीरत्वं मम माता वन्ध्येतिवद्विरुद्धमिति शङ्कते —

शरीर इति ।

आत्मनो देहसङ्गतेराविद्यकत्वात्तत्त्वज्ञानेन तद्ध्वस्तेर्जीवतोऽपि युक्तमशरीरत्वमित्याह —

नेत्यादिना ।

तस्याविद्यकत्वमन्वयव्यतिरेकाभ्यां साधयति —

न हीति ।

अशरीरत्वस्य स्वतस्त्वादपि जीवतस्तदविरुद्धमित्याह —

नित्यमिति ।

आत्मनः सशरीरत्वमज्ञानादित्युक्तममृष्यन्नाशङ्कते —

तत्कृतेति ।

न ह्यात्मन इत्यत्र प्रकृतात्मा तच्छब्दार्थः ।

आत्मनो देहसम्बन्धाद्धर्मादिकर्तृत्वं, स्वतो वा । आद्ये तस्य तद्योगः स्वतोऽन्यतो वा । नाद्यः, तत्कृतधर्मादिनिमित्तं सशरीरत्वमित्युक्तिविरोधात् । न द्वितीयः, तस्याविद्यामनिच्छतो वस्तुत्वोपगमाद्धर्मादिकर्तृकत्वादृते तस्यातन्निमित्तत्वाद्देहे धर्मादिकार्यदृष्टेस्तदसिद्धौ तद्द्वारा धर्मादेरात्मकृतत्वासिद्धेरित्याह —

नेत्यादिना ।

स्यादात्मकृतधर्माद्यपेक्षया तस्य देहयोगे तद्द्वारा तयोरात्मकृतत्वमित्याह —

शरीरेति ।

ननु प्राक्तनकर्मनिमित्तं सम्प्रतितनं शरीरं, तच्च कर्म प्राक्तनदेहयोगाधीनं, सोऽपि प्राचीनकर्मणेति नेतरेतराश्रयत्वम् । न चानवस्था, बीजाङ्कुरवत्कर्मदेहयोगयोरनादित्वात् , तत्राह —

अन्धेति ।

आत्मनि कर्मयोगस्य देहयोगस्य वाऽविद्यमानत्वादित्यर्थः ।

आत्मनः स्वतो धर्मादिकर्तृतेतिपक्षं प्रत्याह —

क्रियेति ।

कूटस्थानन्तचिद्धातोरक्रियत्वात्तस्य स्वतो धर्माद्यकर्तृत्वान्न तत्कृतकर्मकृतमात्मनः सशरीरत्वमित्यर्थः ।

स्वगतक्रियाभावेऽपि कारकेषु संनिधिमात्रेणास्य कर्तृतेति दृष्टान्तेन शङ्कते —

संनिधीति ।

वैषम्योक्त्या प्रत्याह —

नेति ।

उपार्जनं स्वीकरणम् ।

अस्तु प्रस्तुतेऽपि किञ्चिद्धनदानादितुल्यं सम्बन्धनिमित्तमित्याशङ्क्यासङ्गत्वादात्मनो वस्तुतस्तस्यायोगादवस्तुत्वे त्वन्मतहानिरिति मत्वाह —

नत्विति ।

स्वकृतधर्मादिकृतात्मनः सदेहतेत्येतदप्रामाणिकमित्युक्त्वा स्वपक्षे मानमाह —

मिथ्येति ।

ननु ममेतिधीसक्तमधिकारिणं कर्तारं चोद्दिश्य यागादिविधेश्चेतनस्यैव कर्तृत्वम् । यथाहुः - ‘यजमानत्वमप्यात्मा सक्रियत्वात्प्रपद्यते । न परिस्पन्द एकैका क्रिया नः कणभोजिवत् ॥ ‘ इति, तत्राह —

एतेनेति ।

क्रियाधारत्वनिरासेनेत्यर्थः ।

देहादावात्मधीर्मिथ्येत्यत्र मीमांसकश्चोदयति —

अत्रेति ।

आत्मनः स्वकीये देहादावात्मधी राज्ञो भृत्यादाविव गौणी ततः स्वीयदेहादिनिमित्तं तस्य कर्तृत्वादि वास्तवमित्यर्थः ।

नात्मनो देहादावात्मधीर्गौणी, तद्व्यापकाभावादित्याह —

नेति ।

प्रसिद्धो वस्तुभेदो यस्य पुंसस्तस्येति यावत् ।

उक्तमेव व्यनक्ति —

यस्येति ।

तस्यान्यत्रान्यशब्दप्रत्ययौ गौणाविति सम्बन्धः ।

तत्रोदाहरणम् —

यथेति ।

तत्रैव सिंहशब्दस्तद्धीश्च, नान्यत्रेत्यन्वयव्यतिरेकौ । अन्यः पुरुषादिति शेषः । ततश्च । सिंहादित्येतत् । यः सिंहपुरुषयोरुक्तरीत्या भेदं वेत्ति तस्येति षष्ठी नेया । यथा सिंहः पुमानित्युदाहरणं तथाग्निर्माणवक इत्यादि ग्राह्यमिति यथाशब्दो योज्यः ।

शब्दधियोरगौणत्वविषयमाह —

नेति ।

न प्रसिद्धो भेदो यस्य तस्य पुंसोऽन्यत्रान्यशब्दप्रत्ययौ न गौणौ चेत्कथं तर्हि तस्यान्यत्रान्यशब्दप्रत्ययावित्याशङ्क्याह —

तस्य त्विति ।

तत्र संशये समारोपितांशगतौ शब्दप्रत्ययावुदाहरति —

यथेति ।

पुरोवर्तिनः स्थाणुत्वेऽपि स्थाणुरयमित्यगृह्यमाणविशेषत्वे हेतुमाह —

मन्देति ।

तत्र पुरुषशब्दप्रत्ययौ पाक्षिकाविति शेषः । वस्तुतः स्थाणुविषयत्वं, न प्रतीतितः । प्रतीतितस्त्वारोपितविषयत्वम् ।

संशये समारोपितगतौ पाक्षिकौ शब्दप्रत्ययावुदाहृत्य विपर्यये तथाविधौ निश्चितावुदाहरति —

यथा वेति ।

शुक्तिकायामिति वस्तुप्रवृत्त्योक्तम् ।

संशये विपर्यये च दृष्टहेतुसाधारणधर्मदर्शनादेः समत्वाद्विपर्ययस्यैवोत्पत्तौ को हेतुरित्याशङ्क्याह —

अकस्मादिति ।

दृष्टहेत्वविशेषेऽप्यदृष्टवशादित्यर्थः ।

दृष्टान्तमिथुनस्य दार्ष्टान्तिकमाह —

तद्वदिति ।

अविवेकिनां देहादावहन्धीशब्दयोर्मिथ्यात्वेऽपि विवेकिनां तत्र तौ गौणावित्याशङ्क्याह —

आत्मेति ।

अविविक्तावविवेकोत्थभ्रान्तिकृताविति यावत् । आत्मीयेऽपि देहादावात्मबुद्धावात्मीयत्वं तिरोहितं सर्पबुद्धाविव रज्जुत्वमिति मत्वा परमतनिरासमुपसंहरति —

तस्मादिति ।

तत्राहन्धियो मिथ्यात्वेऽपि किं सिध्यति, तदाह —

तस्मान्मिथ्येति ।

न केवलं विदुषो जीवतोऽप्यशरीरत्वं यौक्तिकं किन्तु श्रौतं चेत्याह —

तथा चेति ।

‘अत्र ब्रह्म समश्नुते’ इति पूर्ववाक्ये जीवन्मुक्तिरुक्ता स जीवन्मुक्तो देहस्थोऽपि पूर्ववन्न संसारीत्यत्र दृष्टान्तमाह —

तद्यथेति ।

तत्तत्र जीवन्मुक्तदेहे जीवन्मुक्ते च दृष्टान्तः । यथा लोकेऽहिनिर्ल्वयनी सर्पनिर्मोकस्तदीया देहत्वग्वल्मीकादौ प्रत्यस्ता प्रक्षिप्ता मृता पूर्वमिवाहिनात्मत्वेनानिष्टा वर्तेत तथैवेदं विदुषः शरीरं मुक्तेन प्रागिवात्मत्वेनानिष्टं तिष्ठतीत्यर्थः ।

सर्पदृष्टान्तस्य दार्ष्टान्तिकमाह —

अथेति ।

तथार्थोऽथशब्दः । यथा प्रत्यस्तया त्वचा मुक्तोऽपि तामहमिति नाहिरभिमन्यते, तथायं जीवन्मुक्तो देहस्थोऽपि न तत्राहन्धियमादधाति । अत एवामृतः । देहाभिमानवतो हि मृतिः । निरुपाधिः सन्प्राणिति जीवतीति प्राणः साक्षीः । स च ब्रह्मैव । तच्च तेजो विज्ञानं ज्योतिरेवेत्यर्थः ।

तत्रैव श्रुत्यन्तरमाह —

सचक्षुरिति ।

वस्तुतोऽचक्षुरपि बाधितानुवृत्त्या सचक्षुरिवेत्यादि योज्यम् ।

श्रौतेऽर्ये स्मृतिमपि संवादयति —

स्मृतिरपीति ।

विदुषो जीवन्मुक्तौ प्रमितायां फलितमाह —

तस्मान्नेति ।

प्रमितं जीवन्मुक्तिसत्वं तच्छब्दार्थः ।

प्रतीतिमात्रशरीरं संसारित्वमनुजानाति —

यथेति ।

ननु ब्रह्मविदामेवास्माकं संसारित्वमबाधितमनुभूयते, नेत्याह —

यस्येति ।

साक्षात्कृतसत्तत्त्वस्य पूर्वमिव संसारित्वायोगाद्युक्ता वस्तुमात्रोक्ते रज्जुस्वरूपोक्तिवदर्थवत्तेत्युपसंहरति —

अनवद्यमिति ।