ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
यदपि शास्त्रतात्पर्यविदामनुक्रमणम् — ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्इत्येवमादि, तत् धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्टव्यम्अपि आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशानर्थक्यप्रसङ्गःप्रवृत्तिनिवृत्तिविधिव्यतिरेकेण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः हि भूतमुपदिश्यमानं क्रिया भवतिअक्रियात्वेऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थ एव भूतोपदेश इति चेत् , नैष दोषःक्रियार्थत्वेऽपि क्रियानिर्वर्तनशक्तिमद्वस्तूपदिष्टमेवक्रियार्थत्वं तु प्रयोजनं तस्य चैतावता वस्त्वनुपदिष्टं भवतियदि नामोपदिष्टं किं तव तेन स्यादिति, उच्यतेअनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्हतितदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेनअपि ब्राह्मणो हन्तव्यःइति चैवमाद्या निवृत्तिरुपदिश्यते सा क्रियानापि क्रियासाधनम्अक्रियार्थानामुपदेशोऽनर्थकश्चेत् , ‘ब्राह्मणो हन्तव्यःइत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम्तच्चानिष्टम् स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेणनञश्चै स्वभावः, यत्स्वसम्बन्धिनोऽभावं बोधयतीतिअभावबुद्धिश्चौदासीन्यकारणम्सा दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यतितस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवब्राह्मणो हन्तव्यःइत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतिव्रतादिभ्यःतस्मात्पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम्
तत्तु समन्वयात् ॥ ४ ॥
यदपि शास्त्रतात्पर्यविदामनुक्रमणम् — ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्इत्येवमादि, तत् धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्टव्यम्अपि आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशानर्थक्यप्रसङ्गःप्रवृत्तिनिवृत्तिविधिव्यतिरेकेण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः हि भूतमुपदिश्यमानं क्रिया भवतिअक्रियात्वेऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थ एव भूतोपदेश इति चेत् , नैष दोषःक्रियार्थत्वेऽपि क्रियानिर्वर्तनशक्तिमद्वस्तूपदिष्टमेवक्रियार्थत्वं तु प्रयोजनं तस्य चैतावता वस्त्वनुपदिष्टं भवतियदि नामोपदिष्टं किं तव तेन स्यादिति, उच्यतेअनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्हतितदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेनअपि ब्राह्मणो हन्तव्यःइति चैवमाद्या निवृत्तिरुपदिश्यते सा क्रियानापि क्रियासाधनम्अक्रियार्थानामुपदेशोऽनर्थकश्चेत् , ‘ब्राह्मणो हन्तव्यःइत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम्तच्चानिष्टम् स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेणनञश्चै स्वभावः, यत्स्वसम्बन्धिनोऽभावं बोधयतीतिअभावबुद्धिश्चौदासीन्यकारणम्सा दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यतितस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवब्राह्मणो हन्तव्यःइत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतिव्रतादिभ्यःतस्मात्पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम्

तथा हीत्यादौ वेदान्तानामर्थवत्त्वमभियुक्तोक्तिविरुद्धमित्युक्तमनुवदति —

यदपीति ।

तस्यान्यविषयत्वं वदन्प्रकृताविरोधित्वमाह —

तद्धर्मेति ।

'दृष्टो हि तस्यार्थः फलवदर्थबोधनम् ‘ इति वक्तव्ये धर्मजिज्ञासाप्रक्रमाद्धर्मकर्मणोश्चैक्याद्यदुक्तं कर्माबोधनं तद्विधिनिषेधविवक्षयोक्तम् । यत्तु चोदनासूत्रे चोदनापदव्याख्यानं तदप्रतिकूलं, पदार्थमात्रकथनात् । परीष्टिसूत्रप्रमुखमपि सूत्रजातं पूर्वसूत्राभ्यां तत्तद्भाष्यैश्च सह प्रकमवशात्कर्मकाण्डार्थमेवातो ब्रह्मबोधनमिति वेदैकदेशस्य फलमित्युपनिषदर्थवत्तेत्यर्थः ।

अर्थवादाधिकरणविरोधं विधान्तरेण निरस्यति —

अपि चेति ।

तत्र खल्वक्रियार्थत्वे सत्यानर्थक्यं भूतोपदेशविशेषस्य वा । तन्मात्रस्य वा । तत्राद्यमुपेत्य द्वितीयं प्रत्याह —

आम्नायस्येति ।

'वषट्कर्तुः प्रथमभक्षः’ देवदत्तो भुक्त्वा निर्गत इत्यादिभूतोपदेशस्य सम्बन्धयोग्यतावाचिविभक्तियुक्तस्य द्रव्यादिवाचिनः साक्षात्कार्यार्थत्वाभावात्फलवदर्थराहित्यम् । अतोऽविशेषात्कार्योपदेशस्यापि तत्प्रसक्तिरित्यर्थः ।

उक्तभूतोपदेशेऽपि कर्तव्यादिपदाध्याहारात्कार्यशेषद्रव्याद्यर्थतया फलवदर्थसिद्धिरिति शङ्कते —

प्रवृत्तीति ।

तत्साध्यातिरेकेण भूतमपि द्रव्यादिवस्तु वषट्कर्तुरित्यादिवाक्यमध्याहृतकार्यशेषत्वेनाभिदधाति, भूतभव्यन्यायात् । अतो भूतोपदेशस्यार्थवत्त्वान्नातिप्रसक्तिरित्यर्थः ।

कार्यान्वितस्वार्थाभिधानेऽपि योग्यान्विताभिधानात्तेनैव कार्यास्पृष्टवस्तूपदेशोऽपि स्यादित्याह —

कूटस्थेति ।

ननु न तादृगस्ति वस्तु, सर्वस्योपदिश्यमानभूतस्य कार्यस्पर्शितया कार्यत्वात् , तत्राह —

नहीति ।

क्रिया कार्यम् । भूतस्य तत्संसर्गस्तादात्म्यं फलफलिभावो वा । नाद्यः, क्रीयाद्वारा हेतुहेतुमद्भावाभ्युपगमात् । द्वितीयेऽपि न तयोरैक्यं फलफलित्वस्य भेदकत्वादित्यर्थः ।

भूतस्याकार्यत्वेऽपि तद्धेतुत्वात्तच्छेषत्वात्तदुपदेशोऽपि तच्छेष एव, गामानयेत्यादावाद्यव्युत्पत्तेः कार्यान्वितविषयत्वात् , अतो न कूटस्थोपदेशोऽस्तीति चोदयति —

अक्रियात्वेऽपीति ।

कार्यस्याकार्यान्तरात्कार्यपदस्य तदन्वितार्थावाचित्वाद्योग्येतरान्वयस्यैव सर्वपदशक्तिविषयत्वात्पुत्रजन्मादिवाक्ये वाद्यव्युत्पत्तेरकार्यार्थेऽपि दृष्टेर्भूतोक्तेरकार्यार्थत्वात्कूटस्थोक्तिः स्यादित्याह —

नैष इति ।

उक्तरीत्या भूतोक्तेर्न कार्यार्थत्वम् । अस्तु वा तत्सापेक्षत्वाद्द्रव्यादेस्तदुक्तेस्तादर्थ्यं तथापि यत्कार्यनिवर्तनशक्तिमद्भूतं तदुक्तमेव । न च तत्कार्यं, तद्धेतुत्वात् । तस्य कार्यान्वयेऽपि न तदन्वयित्वं वाच्यत्वनिमित्तं, कार्यस्य तदभावेऽपि वाच्यत्वात् । अतो योग्यान्वितद्रव्यादेस्तच्छब्दवाच्यत्ववत्कार्यानन्वितस्यापि वस्तुनो वेदान्तार्थतेत्यर्थः ।

तथापि कार्यशेषत्वेनैवान्यत्र भूतोक्तेर्न स्वतन्त्रभूतोक्तिरित्याशङ्क्याह —

क्रियार्थत्वमिति ।

भूतोपदेशस्य कार्यशेषत्वं फलवत्त्वायेष्टम् । न च कार्यस्य वाच्यकोटिनिवेशोऽस्तीत्यर्थः ।

कार्यार्थत्वेन भूतोक्तौ कार्यशेषेऽपि कथं सिद्धे शब्दप्रामाण्यं, तत्राह —

न चेति ।

भूतोपदेशस्य कार्यशेषत्वमात्रेण तदशेषभूतं भूतं नैवानुपदिष्टं, तदुपदेशस्याज्ञातार्थगन्तृत्वेनाध्यक्षादिवन्मानत्वादित्यर्थः ।

अज्ञातार्थोपदेशित्वेऽपि वेदान्तानामकार्यशेषत्वेन वैफल्यान्न प्रामाण्यं, वाक्यप्रामाण्यस्य फलाधीनत्वादिति शङ्कते —

यदीति ।

भूतं यद्युपदिष्टमुपदिश्यतां नाम तथापि किं तेनोपदिष्टेन तव श्रोतुर्वक्तुर्वा स्यादिति योजना ।

कार्योपदेशवदज्ञातात्मोपदेशात्मकं वेदान्तवाक्यमनन्यशेषत्वेऽपि फलवत्त्वेन मानमित्याह —

उच्यत इति ।

कार्यशेषोपदेशस्य कार्यफलेन फलवत्त्वात्प्रामाण्येऽपि कथमात्मोपदेशस्य फलवत्त्वेन तथात्वमित्याशङ्क्याह —

तदवगत्येति ।

मिथ्या च तदज्ञानं चेति विग्रहः तस्य भ्रान्तित्वं व्यवच्छिनत्ति —

संसारेति ।

वेदान्तप्रामाण्यं फलवत्त्वेन सदृष्टान्तमुक्तं निगमयति —

इत्यविशिष्टमिति ।

विधिवाक्यस्थद्रव्यादिशब्दानां शुद्धसिद्धार्थतामित्थमापाद्य तथैव ब्रह्म शाब्दमित्युक्तम् । इदानीं निषेधवाक्यवद्वेदान्तानां सिद्धार्थतेत्याह —

अपि चेति ।

कृतेर्भावार्थविषयत्वान्निषेधेषु भावार्थाभावात्कृतिनिवृत्तौ तदविनाभूतं कार्यमपि निवर्तत इति मत्वाह —

ब्रह्मण इति

निवृत्तिरेव कार्यं तद्धेतुर्वेति कुतो निषेधानामकार्यार्थतेत्याशङ्क्याह —

न चेति ।

प्राप्तक्रियानिवृत्तित्वात्तस्या नोभयार्थत्वम् । विमतं, न कार्यं, तद्धेतुर्वा, निवृत्तित्वात् , घटनिवृत्तिवदित्यर्थः ।

निवृत्तेरुभयभावाभावेऽपि किमायातं तदुपदेशानां, तदाह —

अक्रियेति ।

अकार्यार्थानमिति यावत् ।

ननु ‘न हन्तव्यः’ इत्यत्र हननं न कुर्यादिति न वाक्यार्थः किं त्वहननं कुर्यादिति । ततो हननविरोधिनी सङ्कल्पक्रिया हननं न कुर्यामित्येवंरूपा कार्यतया विधीयते, तेन निषेधवाक्यमपि नियोगनिष्ठमेव, नेत्याह —

न चेति ।

स्वभावतः शास्त्रादृते रागादेव प्राप्तो यो हन्तेर्धातोरर्थो हननं तेन नञोऽनुरागः सम्बन्धो यदा तदा भवत्यहननमिति । तत्कार्यमित्युक्ते हननविरोधिनी सङ्कल्पक्रिया, हननप्रवृत्तेर्विधारको यत्नो वा कार्यत्वेन विधीयते विना विधिमप्राप्तत्वात् । तथा च तथाविधक्रियाविधिनिष्ठं निषेधवाक्यमिति कल्पयितुं नैव शक्यमित्यर्थः ।

क्क तर्हीदं वाक्यं त्वन्मते पर्यवसितं, तदाह —

हननेति ।

औदासीन्यं स्वास्थ्यादप्रच्युतिः स्वतोऽपि स्यादिति प्रसक्तक्रियानिवृत्त्योपलक्ष्यं विशिनष्टि —

हननेत्यादिना ।

तस्मिन्पर्यवसितमस्मन्मते निषेधवाक्यम् । तद्व्यतिरेकेणार्थान्तरं तस्याशक्यं वक्तुमित्यर्थः ।

तत्र हेतुमाह —

नञश्चेति ।

चकारोऽवधारणे । एष एव च नञः स्वभावो यत्प्रतियोगिनोऽभावबोधनम् । न च तदन्यतद्विरोधिनोरपि तदर्थत्वं, अभावार्थस्यैव तस्य स्वार्थसम्बन्धिन्यर्थान्तरे लाक्षणिकत्वे तत्रापि शक्तिकल्पनायां गौरवात् । ‘नामधात्वर्थयोगी तु नैव नञ् प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ‘ इत्यपि लक्षणयैवार्थान्तरे नञः प्रवृत्तिरुक्तेति भावः ।

तर्हि नञर्थे हननाभावे नियोगात्तन्निष्ठं वाक्यमित्याशङ्क्याह —

अभावेति ।

भावार्थो दध्यादिर्वा नियोगविषयतया तन्निष्पत्तिहेतुर्नाभावः, तस्यानादित्वात्तद्विषयत्वे नियोगस्याननुष्ठेयत्वापातात् । न चैतत्प्रागभावपालनं कार्यं, स्वास्थ्यादप्रच्युतिरूपौदासीन्यादेव तत्सिद्धेः । नञोऽर्थो दृष्टः सन्नौदासीन्यं पुंसः स्थापयत्यतोऽनुष्ठेयाभावान्न नियोगनिष्ठं वाक्यमित्यर्थः ।

यद्वा न निषेधवाक्ये प्रकृत्यर्थेन नञः सम्बन्धोऽपि तु प्रत्ययार्थेन, तस्य प्राधान्यात्प्रकृत्यर्थस्यान्योपसर्जनत्वात् । अतो हननस्य यदिष्टोपायत्वं प्रवर्तकं तदेव प्रत्ययेनानूद्य नञा निषिध्यते, ब्रह्महननमिष्टोपायो नेति । तथा चौदासीन्ये पुरुषः स्थास्यति, तदाह —

अभावेति ।

प्रत्ययार्थेन नञः सम्बन्धे कथं प्रकृत्यर्थस्य हननक्रियाया निवृत्तिः, तत्राह —

सा चेति ।

प्रत्ययार्थेष्टोपायतानिषेधे प्रकृत्यर्थः स्वयमेव निवर्तते आपाततो हितोपायत्वबुद्ध्या प्रवृत्तस्व ततोऽधिकतरानर्थहेतुत्वबुद्धौ प्रवृत्त्ययोगादित्यर्थः ।

निषेधवाक्यानामित्थमर्थमुक्त्वा सिद्धार्थत्वमुपसंहरति —

तस्मादिति ।

भावार्थाभावे कृत्यभावात्तदविनाभूतकार्याभावस्तच्छब्दार्थः । प्रकृत्यर्थस्य हननादेरिष्टोपायत्वं भ्रान्तिप्राप्तं प्रत्ययेनानूद्य नञा तन्निषेधे तस्यानर्थहेतुत्वबोधिनिषेधवाक्यं तन्निवृत्त्युपलक्षितौदासीन्ये पर्यवस्यतीत्यर्थः ।

ननु ‘नेेक्षेतोद्यन्तमादित्यम् ‘ इत्यादावीक्षणविरुद्धा सङ्कल्पक्रिया नेक्ष इत्येवंलक्षणा विधीयते, तथात्रापि हननविरूद्धा न हन्यामिति सङ्कल्पक्रिया विधीयतां, तत्कथं निषेधवाक्यस्योक्तार्थत्वं, तत्राह —

अन्यत्रेति ।

तत्र हि ‘तस्य ब्रह्मचारिणो व्रतम् ‘ इत्यनुष्ठेयवाचिव्रतशब्दोपक्रमादेकस्मिन्वाक्ये प्रक्रमाधीनत्वादुपसंहारस्याख्यातान्वितेन नञा दृष्टोऽपि निषेधोऽननुष्ठेयत्वादुपेक्ष्यते । धात्वर्थयोगेन च पर्युदासो लक्ष्यते । तथा चेक्षणविरुद्धा क्रिया सामान्येन प्राप्ता, तद्विशेषबुभुत्सायां सर्वक्रियाप्रत्यासन्नः सङ्कल्प इत्यवगतम् । ईक्ष इति तु सङ्कल्पो नाद्रियते, तत्पर्युदासविरोधात् । अतोऽनीक्षणसङ्कल्पलक्षणया तद्विधिपरत्वं युक्तम् । नैवं निषेधेष्वपवादकमस्तीति विरोधिक्रियालक्षणया नानुष्ठाननिष्ठतेत्यर्थः । आदिपदं समस्तपर्युदासविषयसङ्ग्रहार्थम् । हननादावुद्युक्तपरश्वादिपरावर्तनस्य तन्निवृत्तित्वात्तद्भावे हननादिप्रागभावपालनसम्भवादुक्तनिवृत्तेश्च नञर्थधीफलत्वात्तदर्थो हननादिगतेष्टोपायत्वाभाव एवेति द्रष्टव्यम् ।

ननु निषेधवाक्यवदकार्यार्थत्वेऽपि वेदान्तानामर्थवत्त्वं चेदर्थवादाधिकरणं कथमित्याशङ्क्य क्रियासंनिहितार्थवादादिविषयं तदित्याह —

तस्मादिति ।

उपनिषदामुक्तरीत्यार्थवत्त्वं तच्छब्दार्थः । उपाख्यानशब्दः समान्यार्थः । आदिशब्दस्तद्विशेषार्थः ।