ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
यदपि केचिदाहुःप्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीति, तन्नऔपनिषदस्य पुरुषस्यानन्यशेषत्वात्योऽसावुपनिषत्स्वेवाधिगतः पुरुषोऽसंसारी ब्रह्मस्वरूपः उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थोऽनन्यशेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम् एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यात्मशब्दात् आत्मनश्च प्रत्याख्यातुमशक्यत्वात् , एव निराकर्ता तस्यैवात्मत्वात्न्वात्मा अहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपपन्नम्, तत्साक्षित्वेन प्रत्युक्तत्वात् ह्यहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्माअतः केनचित्प्रत्याख्यातुं शक्यः, विधिशेषत्वं वा नेतुम्; आत्मत्वादे सर्वेषाम् हेयो नाप्युपादेयःसर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यतिपुरुषो हि विनाशहेत्वभावादविनाशीविक्रियाहेत्वभावाच्च कूटस्थनित्यःअत एव नित्यशुद्धबुद्धमुक्तस्वभावः; तस्मात् पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १ । ३ । ११) तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्वे उपपद्यतेअतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम्

यूपादिदृष्टान्तेन विधिशेषतया ब्रह्मणः शास्त्रगम्यत्वमुक्तं निरस्य प्रवृत्तिनिवृत्तीत्यादावुक्तमनुभाषते —

यदपीति ।

किं वस्त्वेव नास्ति वेदान्तवेद्यं, तस्याप्रसिद्धत्वात्तदुद्दिश्य प्रतिपादनायोगात् , आहोस्वित्तस्य क्रियाशेषतेति विकल्प्याद्यं दूषयति —

तन्नेति ।

औपनिषदस्य पुरुषस्येत्याद्यनिरासं सूचितं प्रपञ्चयति —

योऽसाविति ।

तस्यापि चैतन्यात्कर्तृत्वेन क्रियाशेषत्वमाशङ्क्यानन्यशेषत्वादिति द्वितीयं निरासमुक्तं विवृणोति —

असंसारीति ।

तत्र पूर्णत्वं हेतुमाह —

ब्रह्मेति ।

कर्तृत्वेनानन्वयेऽपि क्रियायामात्मा कर्मत्वेनान्वेष्यतीत्याशङ्क्याह —

उत्पाद्यादीति ।

विनियोजकमानाभावादपि नान्वयः ।

तद्धि प्रकरणं, वाक्यं वा । नाद्य इत्याह —

स्वप्रकरणस्थ इति ।

पर्णतावद्वाक्यं विनियोजकमिति ।

द्वितीयं दूषयति —

अनन्येति ।

आत्मनो जुह्वादिवदव्यभिचरितक्रतुसंबन्धाभावादित्यर्थः ।

पक्षद्वयनिरासं निगमयति —

नासाविति ।

तस्य न क्रियाशेषत्वमपीति विवक्षितम् ।

वेदान्तवेद्यवस्तुनो निरासायोगे हेत्वन्तरमाह —

स एष इति ।

यः खल्वात्मा ‘अथात आदेशः’ ‘नेति नेति’ इति विश्वदृश्यनिषेधेनोक्तः स एष पञ्चमेऽपि निरूप्यत इत्यत्र वस्तुन्यात्मशब्दात् , तस्य चात्मत्वादेवानिराकार्यत्वात् , तत्कर्तुरेवात्मत्वात्तत एव तस्योद्दिश्य प्रतिपाद्यत्वमपि सिध्यतीत्यर्थः ।

औपनिषदत्वं पुरुषस्यामृष्यन्नाशङ्कते —

नन्विति ।

अहन्धीविषयत्वं दूषयन्विशेषणं समर्थयते —

नेत्यादिना ।

संस्कार्यत्वनिरासे ‘साक्षी चेता’ इतिमन्त्रेणात्मनः सर्वसाक्षित्वमुक्तम् । तेनाहन्धीविषयत्वस्य प्रत्युक्तत्वादविरुद्धमौपनिषदत्वमित्यर्थः ।

तथापि कर्मकाण्डे तर्कशास्त्रे च सिद्धत्वान्न तस्यौपनिषदत्वम् , तत्राह —

नहीति ।

तत्साक्षीति विधिकाण्डागम्यत्वोक्तिः ।

बौद्धसिद्धान्तेऽनधिगतिमाह —

सर्वेति ।

सर्वेषु नश्यत्सु भूतेषु स्थितो न नश्यतीत्यर्थः ।

नैयायिकादिमते तदनधिगतिमाह —

सम इति ।

निर्विशेष इत्यर्थः ।

साङ्ख्यसमयसिद्धत्वं निरस्यति —

एक इति ।

चैतन्यान्तरशून्यत्वमैक्यम् ।

भर्तृप्रपञ्चादिमते प्रसिद्धिं प्रत्याह —

कूटस्थेति ।

कौटस्थ्ये कथं कारणत्वम् , तत्राह —

सर्वस्येति ।

सर्पाधिष्ठानरज्जोरिव ब्रह्मणोऽपि द्वैताधिष्ठानत्वात्कारणत्वमाविद्यकमिति भावः ।

अन्यतोऽनधिगतौ फलितमाह —

अत इति ।

ज्ञाते हि बाधो नान्यथेत्यर्थः ।

विधिकाण्डानधिगतिफलमाह —

विधीति ।

तत्र हेत्वन्तरमाह —

आत्मत्वादिति ।

आत्मा सर्वशेषित्वान्नान्यशेषः स कथं विधिशेषः स्यादित्यर्थः । विधिकाण्डाज्ञातत्वमुक्तं समुच्चेतुं चशब्दः ।

किं च हेयोपादेयविषयौ विधिनिषेधौ नात्मनि विपरीते स्यातामित्याह —

नेति ।

तस्यापि संसारिणोऽनाशितया हेयत्वमाशङ्क्योक्तम् —

सर्वं हीति ।

निरवधिकनाशासिद्धेरित्यर्थः ।

संसारस्यैव नाशो न पुरुषस्येति वक्तुं विकारजातमित्युक्तम् । घटादेर्मृदादौ नाशात्कथं पुरुषावधिः सर्वस्य नाशस्तत्राह —

पुरुष इति ।

कल्पितस्यानधिष्ठानत्वात्पुरुषो नित्यसत्स्वभावस्तदधिष्ठानत्वेन विश्वोदयव्यहेतुरित्यर्थः ।

पुरुषस्य परिणामिनित्यत्वात् , परिणामोदयव्ययाभ्यां हानादाने स्यातामित्याशङ्क्याह —

विक्रियेति ।

सावयवत्वादिस्तद्धेतुः ।

अशुद्धत्वादित्यागेन शुद्धत्वादेरादेयत्वं शङ्कित्वाह —

अत इति ।

आत्मनि स्वतो धर्मतश्चानन्यथात्वमतःशब्दार्थः ।

पुरुषावधिर्नाशः सर्वस्येत्यत्र श्रुतिमाह —

तस्मादिति ।

कल्पितस्याकल्पितमधिष्ठानमित्युक्तयुक्तिपरामर्शी तच्छब्दः । यथेन्द्रियादिभ्यो नैवं पुरुषादस्ति किञ्चित्परं सा पुरुषाख्या काष्ठा सूक्ष्मत्वमहत्त्वादेरवधिः सैव परा गतिः परमपुरुषार्थ इत्यर्थः ।

निरतिशयस्वतन्त्रतया विध्यशेषत्वे श्रुतिरुक्ता । मानान्तरागम्यतया वेदान्तैकवेद्यत्वे श्रुतिमाह —

तं त्विति ।

यस्त्वदुक्तसविशेषब्रह्मणः ‘पृथिव्येव यस्यायतनम् ‘ इत्युपक्रम्योक्तमधिष्ठानं तमौपनिषद्भिरेव ज्ञेयं पुरुषं त्वा त्वां पृच्छामि । हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः ।

विशेषणाभिप्रायं विवृणोति —

औपनिषदत्वेति ।

औपनिषदत्वेऽनन्यशेषत्वे चात्मनः सिद्धे परस्य प्रतिज्ञा निर्मूलेत्याह —

अत इति ।