ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
अत्राभिधीयते; कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात्शारीरं वाचिकं मानसं कर्म श्रुतिस्मृतिसिद्धं धर्माख्यम् , यद्विषया जिज्ञासा अथातो धर्मजिज्ञासा’ (जै. सू. १ । १ । १) इति सूत्रिताअधर्मोऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परिहारायतयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धेमनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयतेततश्च तद्धेतोर्धर्मस्यापि तारतम्यं गम्यतेधर्मतारतम्यादधिकारितारतम्यम्प्रसिद्धं चार्थित्वसामर्थ्यादिकृतमधिकारितारतम्यम्तथा यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनम् , केवलैरिष्टापूर्तदत्तसाधनैर्धूमादिक्रमेण दक्षिणेन पथा गमनम् , तत्रापि सुखतारतम्यम् , तत्साधनतारतम्यं शास्त्रात् यावत्सम्पातमुषित्वा’ (छा. उ. ५ । १० । ५) इत्यस्माद्गम्यतेतथा मनुष्यादिषु स्थावरान्तेषु सुखलवश्चोदनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानःतथोर्ध्वगतेष्वधोगतेषु देहवत्सु दुःखतारतम्यदर्शनात्तद्धेतोरधर्मस्य प्रतिषेधचोदनालक्षणस्य तदनुष्ठायिनां तारतम्यं गम्यतेएवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यमनित्यं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम्तथा श्रुतिः वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तिइति यथावर्णितं संसाररूपमनुवदतिअशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यतेधर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्येतअशरीरत्वमेव धर्मकार्यमिति चेत् , तस्य स्वाभाविकत्वात्अशरीरꣳ शरीरेष्वनवस्थेष्ववस्थितम्महान्तं विभुमात्मानं मत्वा धीरो शोचति’ (क. उ. १ । २ । २२), अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २), असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इत्यादिश्रुतिभ्यःअत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम्तत्र किञ्चित्परिणामिनित्यं यस्मिन्विक्रियमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते; यथा पृथिव्यादि जगन्नित्यत्ववादिनाम् , यथा वा साङ्ख्यानां गुणाःइदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिःस्वभावम् , यत्र धर्माधर्मौ सह कार्येण कालत्रयं नोपावर्तेतेतदेतदशरीरत्वं मोक्षाख्यम्अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च’ (क. उ. १ । २ । १४) इत्यादिश्रुतिभ्यःअतस्तद्ब्रह्म, यस्येयं जिज्ञासा प्रस्तुतातद्यदि कर्तव्यशेषत्वेनोपदिश्येत, तेन कर्तव्येन साध्यश्चेन्मोक्षोऽभ्युपगम्येत, अनित्य एव स्यात्त्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येतनित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यतेअतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तःअपि ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९), क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९), आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १), अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४,) तदात्मानमेवावेदहं ब्रह्मास्मीति, तस्मात्तत्सर्वमभवत्’ (वाजसनेयि ब्रह्मण. उ. १ । ४ । १०), तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरमेव मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्तितथा तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ (बृ. उ. १ । ४ । १०) इति ब्रह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम्यथातिष्ठन्गायतिइति तिष्ठतिगायत्योर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यतेत्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’ (प्र. उ. ६ । ८), श्रुतं ह्ये मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति; सोऽहं भगवः शोचामि, तं मा भगवाञ्छोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्शयन्तितथा आचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः’ (न्या. सू. १ । १ । २) इतिमिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपम्यथा अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव तेन लोकं जयति’ (बृ. उ. ३ । १ । ९) इति चाध्यासरूपम्यथा मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इति मनआदित्यादिषु ब्रह्मदृष्ट्यध्यासःनापि विशिष्टक्रियायोगनिमित्तम् वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) इतिवत्नाप्याज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम्सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञानेऽभ्युपगम्यमाने, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येतभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः’ (मु. उ. २ । २ । ९) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन्ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति चैवमादीनि तद्भावापत्तिवचनानि सम्पदादिरूपत्वे सामञ्जस्येनोपपद्येरन्तस्मान्न सम्पदादिरूपं ब्रह्मात्मैकत्वविज्ञानम्अतो पुरुषव्यापारतन्त्रा ब्रह्मविद्याकिं तर्हि ? प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रैवएवंभूतस्य ब्रह्मणस्तज्ज्ञानस्य कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणःअन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति विदिक्रियाकर्मत्वप्रतिषेधात् , येनेदं सर्वं विजानाति तं केन विजानीयात्’ (बृ. उ. २ । ४ । १४) इति तथोपास्तिक्रियाकर्मत्वप्रतिषेधोऽपि भवति — ‘यद्वाचानभ्युदितं येन वागभ्युद्यतेइत्यविषयत्वं ब्रह्मण उपन्यस्य, तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते’ (के. उ. १ । ५) इतिअविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेत् , ; अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य हि शास्त्रमिदंतया विषयभूतं ब्रह्म प्रतिपिपादयिषतिकिं तर्हि ? प्रत्यगात्मत्वेनाविषयतया प्रतिपादयत् अविद्याकल्पितं वेद्यवेदितृवेदनादिभेदमपनयतितथा शास्त्रम्यस्यामतं तस्य मतं मतं यस्य वेद सःअविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इति चैवमादिअतोऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषःयस्य तूत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम्तथा विकार्यत्वे तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् हि दध्यादि विकार्यम् उत्पाद्यं वा घटादि नित्यं दृष्टं लोके आप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात्; स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वम् , सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मण आकाशस्येवनापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेतसंस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्यात् , दोषापनयनेन वा तावद्गुणाधानेन सम्भवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्यनापि दोषापनयनेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्यस्वात्मधर्म एव सन् तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यतेयथा आदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेत् , ; क्रियाश्रयत्वानुपपत्तेरात्मनःयदाश्रया हि क्रिया, तमविकुर्वती नैवात्मानं लभतेद्यात्मा क्रियया विक्रियेत, अनित्यत्वमात्मनः प्रसज्येत । ‘अविकार्योऽयमुच्यते’(भ. गी. २ । २५) इति चैवमादीनि वाक्यानि बाध्येरन्तच्चानिष्टम्तस्मान्न स्वाश्रया क्रिया आत्मनः सम्भवतिअन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियतेननु देहाश्रयया स्नानाचमनयज्ञोपवीतधारणादिना क्रियया देही संस्क्रियमाणो दृष्टः, ; देहादिसंहतस्यैवाविद्यागृहीतस्यात्मनः संस्क्रियमाणत्वात्प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायित्वम्तया देहाश्रयया तत्संहत एव कश्चिविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम्यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलम् , ‘अहमरोगःइति यत्र बुद्धिरुत्पद्यतेएवं स्नानाचमनयज्ञोपवीतधारणादिकयाअहं शुद्धः संस्कृतःइति यत्र बुद्धिरुत्पद्यते, संस्क्रियते देहेन संहत एवतेनैव ह्यहंकर्त्रा अहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्तेतत्फलं एवाश्नाति, तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णात्आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति तथा एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माकर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति, पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्’ (ई. उ. ८) इति, एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां ब्रह्मणो दर्शयतःब्रह्मभावश्च मोक्षःतस्मान्न संस्कार्योऽपि मोक्षःअतोऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं शक्यं केनचिद्दर्शयितुम्तस्माज्ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यतेननु ज्ञानं नाम मानसी क्रिया, ; वैलक्षण्यात्क्रिया हि नाम सा, यत्र वस्तुस्वरूपनिरपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना , यथायस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्’(ऐ॰ब्रा॰ ३-१-८) इति, सन्ध्यां मनसा ध्यायेत्’ (ऐ. ब्रा. ३ । ८ । १) इति चैवमादिषुध्यानं चिन्तनं यद्यपि मानसम् , तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यम् , पुरुषतन्त्रत्वात्ज्ञानं तु प्रमाणजन्यम्प्रमाणं यथाभूतवस्तुविषयम्अतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुमशक्यम्केवलं वस्तुतन्त्रमेव तत्; चोदनातन्त्रम् , नापि पुरुषतन्त्रम्तस्मान्मानसत्वेऽपि ज्ञानस्य महद्वैलक्षण्यम्यथा पुरुषो वाव गौतमाग्निः’ (छा. उ. ५ । ७ । १) योषा वाव गौतमाग्निः’ (छा. उ. ५ । ८ । १) इत्यत्र योषित्पुरुषयोरग्निबुद्धिर्मानसी भवतिकेवलचोदनाजन्यत्वात् क्रियैव सा पुरुषतन्त्रा या तु प्रसिद्धेऽग्नावग्निबुद्धिः, सा चोदनातन्त्रा; नापि पुरुषतन्त्राकिं तर्हि ? प्रत्यक्षविषयवस्तुतन्त्रैवेति ज्ञानमेवैतत्; क्रियाएवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम्त्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं चोदनातन्त्रम्तद्विषये लिङादयः श्रूयमाणा अपि अनियोज्यविषयत्वात्कुण्ठीभवन्ति उपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत् , अहेयानुपादेयवस्तुविषयत्वात्किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ. उ. २ । ४ । ५) इत्यादीनि विधिच्छायानि वचनानि ? स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमःयो हि बहिर्मुखः प्रवर्तते पुरुषःइष्टं मे भूयादनिष्टं मा भूत्इति, तत्रात्यन्तिकं पुरुषार्थं लभते, मात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविकात्कार्यकरणसङ्घातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्तिआत्मा वा अरे द्रष्टव्यःइत्यादीनि; तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्यतेइदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ... केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्यादिभिःयदप्यकर्तव्यप्रधानमात्मज्ञानं हानायोपादानाय वा भवतीति, त्तथैवेत्यभ्युपगम्यतेअलङ्कारो ह्ययमस्माकम्यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेतितथा श्रुतिःआत्मानं चेद्विजानीयादयमस्मीति पूरुषःकिमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्’ (बृ. उ. ४ । ४ । १२) इति, एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत’ (भ. गी. १५ । २०) इति स्मृतिःतस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम्

अत्रेति ; नेति ; कर्मेति ; शारीरमिति ; श्रुतीति ; धर्माख्यमिति ; यद्विषयेति ; अधर्मोऽपीति ; प्रतिषेधेति ; परिहारायेति ; तयोरिति ; प्रत्यक्ष इति ; सुखेत्यादिना ; शरीरेति ; विषयेति ; ब्रह्मादिष्विति ; मनुष्यत्वादिति ; ततश्चेति ; धर्मेति ; प्रसिद्धं चेति ; तथा चेति ; केवलैरिति ; तत्रापीति ; तथेति ; तयोर्ध्वेति ; एवमिति ; शरीरेति ; संसारेति ; श्रुतीति ; तथा चेति ; यथेति ; अनुवदतीति ; अशरीरमिति ; चोदनेति ; प्रियेति ; धर्मेति ; अशरीरत्वमिति ; नेति ; अशरीरमिति ; शरीरेष्विति ; महान्तमिति ; विभुमिति ; आत्मानमिति ; अप्राण इति ; असङ्गो हीति ; अत इति ; नित्यमिति ; तत्रेति ; यस्मिन्निति ; यथेति ; यथा चेति ; इदं त्विति ; पारमार्थिकमिति ; कूटस्थेति ; व्योमवदिति ; नित्येति ; निरवयवमिति ; स्वयमिति ; यत्रेति ; कालेति ; अन्यत्रेति ; तदिति ; तद्यदीति ; तत्रेति ; यथोक्तेति ; नित्यश्चेति ; अत इति ; अपिचेति ; ब्रह्मेति ; तथेति ; ब्रह्मेति ; यथेति ; त्वं हीति ; श्रुतं हीति ; मोक्षेति ; तथा चेति ; मिथ्येति ; न चेति ; यथेति ; न चेति ; यथेति ; नापीति ; नापीति ; सम्पदादीति ; भिद्यत इति ; अविद्येति ; ब्रह्मेति ; तद्भावेति ; तस्मादिति ; अत इति ; किं तर्हीति ; एवमिति ; न चेति ; तथेति ; अविषयत्व इति ; नेति ; नहीति ; किं तर्हीति ; वेद्येति ; तथा चेति ; अविज्ञातमिति ; न दृष्टेरिति ; अत इति ; यस्येति ; तयोरिति ; नहीति ; न चेति ; स्वात्मेति ; स्वरूपेति ; नापीति ; संस्कारो हीति ; नेति ; नापीति ; स्वात्मेति ; यथेति ; नेति ; यदाश्रयेति ; यदीति ; अविकार्य इति ; तच्चेति ; तस्मान्नेति ; अन्येति ; नन्विति ; न देहेति ; अविद्यागृहीतस्येति ; प्रत्यक्षं हीति ; तयेति ; यथेत्यादिना ; अहमिति ; स चेति ; तेनेति ; अहंप्रत्ययेति ; प्रत्ययिनेति ; तत्फलं चेति ; तयोरिति ; अनश्नन्निति ; आत्मेति ; तथाचेति ; एक इति ; देव इति ; सर्वेति ; गूढ इति ; सर्वव्यापीति ; सर्वभूतेति ; कर्मेति ; सर्वेति ; साक्षीति ; चेतेति ; स इति ; एताविति ; ब्रह्मेति ; तस्मादिति ; अत इति ; तस्मादिति ; नन्विति ; नेति ; क्रिया हीति ; पुरुषेति ; यथेति ; ध्यानमिति ; ज्ञानं त्विति ; प्रमाणं चेति ; अत इति ; केवलेति ; नेति ; नापीति ; तस्मादिति ; यथा चेति ; केवलेति ; पुरुषेति ; या त्विति ; किं तर्हिति ; इति ज्ञानमिति ; एवमिति ; तत्रेति ; तद्विषय इति ; उपलादिष्विति ; अहेयेति ; किमर्थानीति ; विधीति ; स्वाभाविकेति ; यो हीति ; न चेति ; तमिति ; कार्येति ; प्रत्यगिति ; तस्येति ; इदमिति ; यत्रेति ; विज्ञातारमिति ; अयमिति ; यदपीति ; तथेति ; अलङ्कारो हीति ; तथा चेति ; एतदिति ; तस्मादिति ;

प्राप्तं पक्षमनूद्य सिद्धान्तयति —

अत्रेति ।

परमतनिरासं प्रतिजानीते —

नेति ।

न कर्मवद्विधेया धीरित्युक्तनिषेधे हेतुमाह —

कर्मेति ।

तदेव वक्तुं कर्म भिनत्ति —

शारीरमिति ।

तत्तत्कर्मभेदे देहादेः सर्वस्योपयोगेऽपि क्वचित्कस्यचित्प्राधान्यात्त्रैविध्यम् । तत्र प्रमाणमाह —

श्रुतीति ।

'अग्निहोत्रं जुहुयात् ‘ ‘ब्रह्मयज्ञेन यक्ष्यमाणः’ ‘सन्ध्यां मनसा ध्यायेत् ‘ इत्याद्या श्रुतिः । ‘शरीरवाङ्भनोभिर्यत्कर्म प्रारभते नरः’ इत्याद्या स्मृतिः ।

लोकेऽपि तत्प्रसिद्धं मत्वोक्तम् —

धर्माख्यमिति ।

न्यायसिद्धं चैतदित्याह —

यद्विषयेति ।

स्वाध्यायाध्ययनानन्तरं तस्य धर्मजिज्ञासाफलहेतुत्वात्तन्निर्णयार्थं वेदवाक्यानि विचारयितव्यानीति वदता धर्मस्यैव विचारितत्वात्तस्य न्यायसिद्धत्वेऽपि कथमधर्मस्य तद्विषयतेत्याशङ्क्य धर्मशब्दस्योपलक्षणत्वमाह —

अधर्मोऽपीति ।

हिंसादिरित्यादिपदमभक्ष्यभक्षणादिसङ्ग्रहार्थम् ।

चोदनालक्षणत्वाद्धर्मस्य जिज्ञास्यत्वेऽपि कुतोऽधर्मस्य तथेत्यशङ्क्याह —

प्रतिषेधेति ।

धर्मो हि पुरुषं निःश्रेयसेन संयुनक्तीति तज्जिज्ञासा स्यात् , अधर्मजिज्ञासा तु विफलेत्याशङ्क्याह —

परिहारायेति ।

उक्तं कर्मरूपमनूद्य तत्फलरूपमाह —

तयोरिति ।

सर्वलोकप्रसिद्धत्वेन विद्वन्मात्रसिद्धविद्याफलाद्भेदं सूचयति —

प्रत्यक्ष इति ।

सुखमात्रं विद्याफलं, इदं दुःखमपीति भेदान्तरमाह —

सुखेत्यादिना ।

अकार्यकरणस्य विद्याफलं लभ्यं, कर्मफलं त्वन्यथेति विशेषान्तरमाह —

शरीरेति ।

नित्यसिद्धं विद्याफलमविद्यापिधानमङ्गमात्रापेक्षं, कर्मफलमन्यथेत्यपरं विशेषमाह —

विषयेति ।

अज्ञेष्वपि सत्त्वाच्च कर्मफलं विद्याफलविलक्षणमित्याह —

ब्रह्मादिष्विति ।

तारतम्यभाक्त्वादपि कर्मफलस्य विद्याफलादनतिशयाद्भिन्नतेत्याह —

मनुष्यत्वादिति ।

श्रुतेरुक्तार्थानुसारित्वमनुशब्दार्थः । 'स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः’ इत्याद्या श्रुतिः ।

फलवैलक्षण्यमुपलक्षणं कृत्वा साधनवैलक्षण्यमाह —

ततश्चेति ।

फले तारतम्यस्य श्रुतत्वादिति यावत् । हेतुवैचित्र्यं विना कार्यवैचित्र्यस्याकस्मिकत्वापत्तेर्मोक्षे विद्यारूपं साधनमेकरूपमिति व्यक्तं विद्याकर्मणोः स्वरूपवैचित्र्यम् ।

किञ्च विद्यायामेकरूपः साधनचतुष्टयविशिष्टोऽधिकारी, नानारूपस्तु कर्मणीत्यधिकारभेदमाह —

धर्मेति ।

कर्माधिकारितारतम्ये हेत्वन्तरमाह —

प्रसिद्धं चेति ।

आदिपदमपर्युदाससङ्ग्रहार्थम् ।

न केवलं प्रसिद्धत्वादधिकारितारतम्यं किन्तु दक्षिणोत्तरगतिश्रुतेरपीत्यधिकारितारतम्ये श्रुतार्थापत्तिमाह —

तथा चेति ।

विद्येत्युपासनोक्ता, समाधिरुपास्येऽर्थे मनसः स्थिरीभावः, तयोर्विशेषो नाम प्रकर्षः ।

समुच्चयानुष्ठायिनामर्चिराद्युपलक्षितं देवयानं पन्थानमुक्त्वा कर्ममात्रनिष्ठानां पथ्यन्तरमाह —

केवलैरिति ।

इष्टम् - ‘अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवम् - ‘ इत्येवंविधं कर्म । पूर्तं वापीकूपतडागादिदेवतायतनान्नप्रदानारामादिरूपं स्मार्तं कर्म । दत्तं शरणागतत्राणमहिंसा बहिर्वेदिदानं च ।

धूमाद्युपलक्षितेन दक्षिणेन पथा चन्द्रलोकं गतेषु सुखैकरूप्यात्तद्धेतोरपि तथात्वादन्यत्रापि तत्तारतम्यासिद्धिरित्याशङ्क्याह —

तत्रापीति ।

सम्पतति येनास्माल्लोकादमुं लोकमिति कर्माशयः सम्पातः । तत्र यावद्भोक्तव्यं स्थित्वा ‘अथैतमेवाध्वानं पुनर्निवर्तन्ते' इतीयत्ताकरणात्सातिशयत्वं सुखतद्धेत्वोर्भातीत्यर्थः ।

मनुष्यत्वादारभ्योर्ध्वगतेषु सुखतद्धेत्वोरुत्कर्षमुक्त्वा तद्दृष्टान्तेन तस्मादारभ्याधोगतेषु तयोरपकर्षतारतम्यमाह —

तथेति ।

सुखतद्धेतुतदनुष्ठायिनामुत्कर्षापकर्षतारतम्यवद्दुःखतद्धेतुतदनुष्ठायिनामपि तदुभयमस्तीत्याह —

तयोर्ध्वेति ।

मनुष्यत्वादूर्ध्वगतेषु दुःखापकर्षतारतम्यं, तस्मादधोगतेषु च तदुत्कर्षतारतम्यमिति भेदः ।

कर्मफलं विद्याफलाद्भेत्तुं प्रपञ्चितमुपसंहरति —

एवमिति ।

अविद्यादीत्यादिपदेनास्मितारागद्वेषाभिनिवेशा गृह्यन्ते ।

सुखदुःखपरिणामद्वारं दर्शयति —

शरीरेति ।

तस्योपादानं तस्मिन्द्विविधोऽभिमानः । तस्यानर्थतया हेयत्वत्माह —

संसारेति ।

अनित्यमित्यपि तदर्थमेव ।

मेयमुपसंहृत्य मानमुपसंहरति -

श्रुतीति ।

‘शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥‘ इत्याद्या स्मृतिः । दृष्टहेतुसाम्येऽपि दृष्टं सुखादिवैचित्र्यं तथाभूतमेवालौकिकं हेतु कल्पयितीति न्यायः ।

श्रुतिमाह —

तथा चेति ।

निपाताववधारणे ।

श्रुतेस्तात्पर्यमाह —

यथेति ।

नास्याः संसाररूपावेदने तात्पर्य, तदनुवादेन मुक्तिपरत्वादित्याह —

अनुवदतीति ।

विद्याफलमाह —

अशरीरमिति ।

तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखेनैव स्पृशतो वावेत्यवधारणादित्यर्थः ।

श्रुतितात्पर्यमाह —

चोदनेति ।

तत्र गमकमाह —

प्रियेति ।

गमकत्वमस्य व्यतिरेकेण स्फोरयति —

धर्मेति ।

तत्कार्ये तद्दृष्टेरित्यर्थः ।

धर्मस्य विचित्रफलत्वाददेहत्वमपि तत्कार्यमेवेति शङ्कते —

अशरीरत्वमिति ।

वस्तुतो देहासम्बन्धोऽशरीरत्वं, तस्य नित्यत्वात्तिरोधायकाज्ञानस्य ज्ञानमात्रापोह्यत्वान्न धर्मकार्यतेत्याह —

नेति ।

तत्र मानमाह —

अशरीरमिति ।

शरीरं स्थूलं वस्तुतो नास्यास्तीति यावत् ।

तत्र हेतुः —

शरीरेष्विति ।

अनवस्थेष्वनित्येष्ववस्थितम् । नित्यमित्यर्थः ।

तत्रैव हेत्वन्तरमाह —

महान्तमिति ।

सापेक्षिकत्वं वारयति —

विभुमिति ।

मन्तृमन्तव्यभेदं प्रत्याह —

आत्मानमिति ।

ईदृशमात्मानं मत्वा धीरो भवति । नहि तन्मतिं विना धीरत्वं सम्भवति । स च धीरः शोकोपलक्षितं संसारं नानुभवतीत्यर्थः ।

सूक्ष्मदेहाभावे मानान्तरमाह —

अप्राण इति ।

क्रियाशक्तिमान्प्राणोऽस्य वस्तुतो नास्तीति तन्निषेधात्तत्प्रधानानि सार्थानि कर्मेन्द्रियाणि निषिद्धानि । तदभिप्रायेण हिशब्दः । ज्ञानशक्तिमन्मनोऽस्य वस्तुतो नेति तन्निषेधात्तत्प्रधानज्ञानेन्द्रियाणि सार्थानि निषिद्धानि । अत एव शुभ्रः । शुद्ध इत्यर्थः ।

देहद्वयाभावे श्रुत्यन्तरमाह —

असङ्गो हीति ।

‘स यत्तत्र’ इत्यादौ स्वप्नादिकृतकर्मस्वकर्तात्मेत्युक्तेऽर्थे हेतुरनेनोच्यते । मूर्तं मूर्तान्तरेण युज्यमानं स्पन्दते, आत्मा तु पूर्णत्वादमूर्तो न केनचिद्युज्यते । तेनाकर्तेत्यर्थः । ‘अकायमव्रणम् ‘ इत्यादिसङ्ग्रहार्थमादिपदम् ।

अशरीरत्वस्य स्वाभाविकत्वे फलितमाह —

अत इति ।

तद्वैलक्षण्ये किं स्यात्तदाह —

नित्यमिति ।

तथापि परिणामित्वाद्विधेयक्रियानुप्रवेशमाशङ्क्यापरिणामिनित्यतां वक्तुं परिणामिनित्यं पृथक्करोति —

तत्रेति ।

प्रकृतं नित्यं सप्तम्यर्थः ।

परिणामित्वनित्यत्वयोर्विरोधं प्रत्यभिज्ञया प्रत्याह —

यस्मिन्निति ।

तत्र मीमांसकादिसंमतं दृष्टान्तमाह —

यथेति ।

तथान्यदपि विक्रियमाणं प्रत्यभिज्ञातो नित्यं स्यादिति शेषः ।

साङ्ख्यीयदृष्टान्तमाह —

यथा चेति ।

तन्मते सत्त्वरजस्तमांसि गुणा विक्रियमाणा एव प्रत्यभिज्ञया नित्यास्तथान्यदपि परिणामि नित्यमित्यर्थः ।

तादृङ्नित्याददेहत्वे मोक्षे विशेषमाह —

इदं त्विति ।

तत्खल्वतात्त्विकं, परिणामस्य कार्त्स्न्यैकदेशाभ्यां भेदाभेदाभ्यां च दुर्वचनत्वात् । मोक्षाख्यमदेहत्वं स्वाभाविकमकल्पितमिति विशेषमाह —

पारमार्थिकमिति ।

तत्र हेतुमाह —

कूटस्थेति ।

तदर्थं सर्वगतत्वेन परिस्पन्दपरिणामराहित्यमाह —

व्योमवदिति ।

फलार्थापि क्रिया तत्र न कल्प्या, तृप्तेः सदातनत्वादित्याह —

नित्येति ।

परिणामाभावे हेत्वन्तरम् —

निरवयवमिति ।

प्रकाशार्था विक्रिया न तत्रेत्याह —

स्वयमिति ।

उक्तविशेषणवशान्न सा कर्मकार्येत्युक्तम् , इदानीं धर्माधर्मयोः सकार्ययोर्ब्रह्मसम्बन्धनिषेधादपि तत्प्राप्तिर्मुक्तिर्न कर्मकार्येत्याह —

यत्रेति ।

कालानवच्छिन्नत्वाच्च मुक्तिरकर्मसाध्येत्याह —

कालेति ।

ब्रह्मणो धर्माद्यनवच्छेदत्वे मानमाह —

अन्यत्रेति ।

धर्मात्तत्फलाच्च सुखात् , अधर्मात्तत्फलाच्च दुःखात् , कृतात्कार्यात् , अकृताच्च कारणात् , भूतादिकालत्रयाच्च पृथग्भूतं तेनानवच्छेद्यं यत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतसो वचनम् । आदिशब्देन ‘नैनं सेतुम्‘ इत्याद्या श्रुतिर्गृह्यते ।

पृथग्जिज्ञासाविषयत्वाच्च धर्माद्यस्पृष्टत्वं ब्रह्मणो युक्तमित्याह —

तदिति ।

अतःशब्दपाठे धर्माद्यस्पर्शे कर्मफलवैलक्षण्यं हेतुकृतम् ।

कर्तव्यधीशेषत्वेन ब्रह्मोपदेशात्तत्प्राप्तेर्मुक्तेर्वैधधीफलत्वमित्याशङ्क्याह —

तद्यदीति ।

अनित्यत्वेऽपि स्वर्गादिवत्पुमर्थतेत्याशङ्क्याह —

तत्रेति ।

तस्मिन्मोक्षे विधेयक्रियासाध्यत्वेनानित्ये सतीत्यर्थः ।

यथोक्तेति ।

तयोश्चोदनालक्षणयोरित्यादाविति शेषः । स्वर्गादिदृष्टान्तादित्यर्थः ।

इष्टापत्तिं प्रत्याह —

नित्यश्चेति ।

ब्रह्माप्तेर्मुक्तेरवैधफलत्वे फलितमाह —

अत इति ।

मुक्तेरवैधफलत्वे हेत्वन्तरमाह —

अपिचेति ।

यो ब्रह्म प्रत्यक्त्वेन साक्षात्करोति स तदेव वेद्यं ब्रह्म भवति, तत्क्रतुन्यायात् । तस्मिन्परात्मनि परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने प्रत्यक्त्वेन साक्षात्कृते सत्यस्य विदुषोऽनारब्धानि कर्माणि क्षीणानि भवन्ति । ब्रह्मणो रूपमानन्दं विद्वान्भयहेत्वभावान्निर्भयो भवति । श्रुतावितिशब्दः श्लोकसामाप्त्यर्थः । हे जनक, त्वमभयं ब्रह्म प्राप्तोऽसि, तत्साक्षात्कारवत्त्वात् , यदस्मिन्देहे जलसूर्यवत्प्रविष्टं ब्रह्म जीवाख्यं तदाचार्येण बोधितमात्मानमेव सर्वकल्पनातीतमवेद्विदितवत् कथमहं ब्रह्मद्वितीयमस्मीति, तस्मादेव ज्ञानादज्ञानकृतासर्वत्वनिवृत्त्या तद्ब्रह्म पूर्णात्मना स्थितमासीत् । ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः’ इति यः सर्वात्मभावो विद्याव्यङ्ग्यत्वेनोक्तस्तत्रात्मनि तद्धीकाले वा तदात्मैक्यमुपदेशेन पश्यतः शोकाद्युपलक्षितः संसारो नेति श्रूतीनामर्थः । आदिशब्देन ‘ब्रह्मविदाप्नोति’ इत्याद्या गृह्यन्ते ।

तासां तात्पर्यमाह —

ब्रह्मेति ।

विद्यातत्फलयोरेककालत्वश्रुतेर्वैधज्ञानापूर्वजन्यत्वे मुक्तेस्तदयोगात् , वैधफलस्य कालान्तरभावित्वात् , ब्रह्मधीर्न विधेया । तत्फलं च दृष्टमेवेति भावः ।

इतश्च मोक्षो वैधो नेत्याह —

तथेति ।

तत्पदलक्ष्यं ब्रह्मैतदात्मत्वेन स्थितमस्मीति पश्यन्नस्मादेव दर्शनादृषिर्वामदेवनामा परं ब्रह्माविद्याध्वस्त्या प्रतिपन्नवान्किलेति । हशब्दो व्यवधानेन सम्बध्यते । स चास्मिन्दर्शने स्थितः सर्वात्मप्रकाशकान्मन्त्रानहमित्यादीन्दृष्टवानिति श्रुत्यर्थः ।

तस्यास्तात्पर्यमाह —

ब्रह्मेति ।

'लक्षणहेत्वोः क्रियायाः’ इत्यत्र येन लक्ष्यते तल्लक्षणं जनको हेतुस्तौ लक्षणहेतू क्रियाविषयौ चेद्भवतस्तदा क्रियात्मके तस्या लक्षणे तस्या हेतौ चार्थे वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत इत्युक्तम् । यथा तिष्ठन्मूत्रयति, शयानो भुङ्क्तेऽधीयानो वसतीति । तथात्रापि प्रतिपत्तिक्रियाहेतौ क्रियायां दर्शने पश्यन्निति शतुर्दर्शनात् , अव्यवहिते च हेतुमति क्रियाया हेतुत्वात् , एष शतृप्रत्ययः सर्वात्मत्वस्य कालान्तरत्वं वारयति । अतोऽस्य न वैधतेत्यर्थः ।

यद्यपि न स्थितिक्रियासामर्थ्याद्ग्ीतिक्रिया किन्तु यत्नान्तरात् , तथापि तयोर्मध्ये क्रियान्तरं शब्दतो न भातीत्येतावतोदाहरति —

यथेति ।

इतश्च ब्रह्मधीर्न विधेया, तत्फलं च न वैधमित्याह —

त्वं हीति ।

भरद्वाजादयः षड्ऋषयः परविद्याप्रदं पिप्पलादं गुरुं विद्यानिष्क्रयार्थमन्यदनुरूपमपश्यन्तः पादयोः प्रणम्योचिरे । त्वं खल्वस्माकं पिता, ब्रह्मदेहस्याजरामरस्य विद्यया जनयितृत्वात् , इतरौ पितरौ देहमेव जनयतः जनयितृत्वमपि सिद्धस्यैवाविद्यानिरासादित्याह - यस्त्वमस्मानविद्यामहोदधेः परमपुनरावृत्तिरूपं पारं तारयसि प्रापयसि विद्याप्लवेनेति ।

प्रश्नोपनिषदमुक्त्वा सनत्कुमारनारदसंवादात्मिकां छान्दोग्योपनिषदं पठति —

श्रुतं हीति ।

तत्र ‘तारयतु’ इत्यन्तमुपक्रमस्थं शेषमुपसंहारस्थमिति भेदः । मम भगवत्तुल्येभ्यः श्रुतमेवेदं यत्तरति शोकं मनस्तापमकृतार्थबुद्धिमात्मविदिति । सोऽहमनात्मवित्त्वाच्छोचामि अतस्तं मां शोचन्तं शोकसागरस्य पारमन्तं तारयतु भगवानात्मज्ञानोडुपेनेति नारदेन प्रेरितः सनत्कुमारस्तस्मै वैराग्यादिना निरस्तसमस्तदोषाय योग्याय तमसोऽविद्याख्यस्य पारं परमार्थतत्त्वं दर्शितवानित्यर्थः ।

आदिशब्देन ‘यो वेद निहितं गुहायाम् ‘ इत्याद्याः श्रुतयो गृहीतास्तासां तात्पर्यमाह —

मोक्षेति ।

विद्याफलमविद्याध्वस्तिः श्रुता न चामानात्तद्ध्वस्तिः तथा चोपास्तेरन्या मानमेव ब्रह्मधीर्न विधेया तत्फलं च मुक्तिर्न वैधीत्यर्थः ।

श्रुत्यनुसारेणाविद्याध्वस्तिफलत्वाद्ब्रह्मधीस्तत्त्वधीरित्युक्तम् । इदानीं तर्कशास्त्रानुसारेणापि तथैवेत्याह —

तथा चेति ।

दुःखं प्रतिकूलवेदनीयं, बाधा, पीडा, ताप इत्यनेकविधम् । जन्म देहेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः । हिंसास्तेयादिरूपा पापिका प्रवृत्तिरधर्मं प्रसूते । दानत्राणादिरूपा प्रवृत्तिर्धर्मं जनयति । तावेतौ धर्माधर्मौ प्रवृत्तिसाध्यौ तच्छब्दौ । रागद्वेषेर्ष्यासूयामानलोभादयो दोषाः । मिथ्याज्ञानमतस्मिंस्तज्ज्ञानं, आत्मा नास्तीत्यादि । तेषां पाठक्रमादुत्तरोत्तरस्यापाये तदनन्तरस्य पूर्वपूर्वस्यापायादपवर्गो निःश्रेयसम् । मिथ्याज्ञानादयो दुःखान्ता धर्मा विच्छेदादृते वर्तमानाः संसारः । तथाच यदा तत्त्वज्ञानान्मिथ्याज्ञानमपैति तदा हेत्वभावे फलाभावाद्दोषापायः, तदपाये च प्रवृत्तिसाध्यधर्माधर्मापायाज्जन्मापायद्वारा दुःखमपगच्छति, ततश्चात्यन्तिकं निःश्रेयसं सिध्यति । तदेवं तत्त्वज्ञानान्मिथ्याज्ञानध्वस्त्या मोक्ष इत्यक्षपादस्यापि विवक्षितमित्यर्थः ।

ननु भेदधीरेव मिथ्याधीविरुद्धा तत्त्वधीस्तर्कशास्त्रेऽभीष्टा, ‘तत्त्वज्ञानं तु मिथ्याज्ञानविपर्ययेण व्याख्यातम्‘ इत्युपक्रम्य ‘आत्मनि तावदस्तीत्यनात्मन्यात्मेति दुःखेऽनित्येऽत्राणे सभये जुगुप्सिते हातव्ये यथाविषयं वेदितव्यम्‘ इत्यादिन्यायभाष्यदर्शनात् । तत्कथं ब्रह्मात्मैक्यज्ञानान्मिथ्याधीध्वस्तिरित्यत्र न्यायशास्त्रानुगुण्यं, तत्राह —

मिथ्येति ।

भेददृष्टेरज्ञानविलासत्वान्मिथ्याज्ञानाप्रतिपक्षत्वात् , अद्वयब्रह्मात्मधीरेव तन्निवर्तिकेत्यावश्यकमित्यर्थः ।

अथैक्यज्ञानमपि सम्पदादिरूपत्वाद्भेदधीतुल्यं न मिथ्याधीविरुद्धं, नेत्याह —

न चेति ।

सम्पन्नामाल्पे वस्तुन्यालम्बने सामान्येन केनचिन्महतो वस्तुनः सम्पादनम् । तत्रोदाहरणम् —

यथेति ।

मनस्यनन्तवृत्तिमत्यालम्बनेऽल्पपरिमाणे विश्वेषां देवानामनन्तानां महतामनन्तत्वसामान्येन सम्पादनं तेनानन्तफलाप्तिर्यथा श्रुता, तथा जीवस्यापि चैतन्यसामान्याद्ब्रह्मतासम्पादनममृतफलं विधेयमित्ययुक्तमित्यर्थः ।

अध्यासपक्षं निषेधति —

न चेति ।

अध्यासः शास्त्रतोऽतस्मिंस्तद्धीः । सम्पदि सम्पाद्यमानस्य प्राधान्येनानुध्यानं, अध्यासे त्वालम्बनस्येति विशेषं मत्वा दृष्टान्तमाह —

यथेति ।

आदिशब्दादाकाशाद्युक्तम् । आदित्यादौ यथा ब्रह्मधीरारोप्यते तथा जीवे तद्धीरारोप्येत्यध्यासरूपमिदमैक्यज्ञानमित्यपि नेत्यर्थः ।

पक्षान्तरं दूषयति —

नापीति ।

संवर्गविद्यायां श्रुतम् - ‘वायुर्वाव संवर्गो यदा वा अग्निरुद्वायत्युपशाम्यति वायुमेवाप्येेति विलीयते यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येंवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतमथाध्यात्मं प्राणो वाव संवर्गो यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः’ इति । तत्र यथा संहरणक्रियायोगाद्वायोः प्राणस्य च संवर्गत्वं, तथा जीवब्रह्मणोर्बृंहणक्रियायोगादैक्यज्ञानमित्यपि नेत्यर्थः । आदिशब्दात् ‘प्राणो वा उक्थम् ‘ इत्यादि गृहीतम् ।

मतान्तरं प्रत्याह —

नापीति ।

यथा दर्शपूर्णमासाधिकारे - ‘पत्न्यवेक्षितमाज्यं भवति’ इत्याम्नातमवेक्षणमुपांशुयाजाङ्गभूताज्यसंस्कारो गुणकर्म विधीयते तथा कर्तृत्वेनाङ्गे क्रतावात्मनि द्रष्टव्यादिवाक्येन दृष्टेर्गुणकर्मणो विधानात्कर्माङ्गात्मसंस्काररूपमैक्यज्ञानमित्यपि नेत्यर्थः । आदिशब्देन प्रोक्षणादि गृह्यते ।

सम्पदध्यासक्रियायोगसंस्काराणां न प्रतिज्ञामात्रादयोगः, अतिप्रसङ्गादित्याशङ्क्य वेदान्तानां स्वार्थे मानान्तरविरोधाद्वा तात्पर्याभावाद्वा सम्पदादिपरतेति विकल्प्य जीवब्रह्मणोर्मानान्तरागोचरत्वात्तद्भेदस्यापि तथात्वात् , भेददृष्टेश्च बिम्बप्रतिबिम्बवदविरोधादाद्यो नेति मत्वा द्वितीयं प्रत्याह —

सम्पदादीति ।

'सदेव सोम्येदम् ‘ ‘एकमेव‘ इत्युपक्रमात् ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा’ इत्युपसंहारात् ‘तत्त्वमसि’ इत्यभ्यासाद्ब्रह्मात्मनो मानान्तरावेद्यत्वेनापूर्वत्वात् तज्ज्ञानस्य ‘आचार्यवान् ‘ इत्यादिना फलश्रुतेः ‘अनेन जीवेन’ इत्यर्थवादात् ‘अथ येऽन्यथा’ इत्यादिभेददर्शननिन्दनात् , उपपत्तेश्च मृदादिदृष्टान्तस्य दृष्टत्वात् । बृहदारण्यकेऽपि ‘ब्रह्म वा इदम् ‘ इत्युपक्रमात् ‘अयमात्मा ब्रह्म’ इति परामर्शात् ‘पूर्णमदः पूर्णमिदम् ‘ इत्युपसंहारात् ‘स एष नेति नेत्यात्मा’ इत्यभ्यासादप्रपञ्चब्रह्मात्मनोऽपूर्वत्वात् ‘तस्मात्तत्सर्वमभवत् इत्यादि’ फलश्रुतेः ‘स एष इह प्रविष्टोऽथ योऽन्यां देवताम् ‘ इत्याद्यर्थवादाद्दुन्दुभ्यादिदृष्टान्तोपपत्तेः । ऐतरेयके च ‘आत्मा वा इदमेक एव’ इत्युपक्रम्य ‘स एतमेव पुरुषं ब्रह्म ततमपश्यत्’ इति परामृश्य ‘प्रज्ञानं ब्रह्म’ इत्युपसंहारात् । आथर्वणे च ‘कस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातम् ‘ इत्युपक्रम्य ‘ब्रह्मैवेदम् ‘ इति निगमनात् । तैत्तिरीयके च ‘ब्रह्मविदाप्नोति परम् ‘ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘यो वेद निहितं गुहायाम् ‘ इत्युपक्रम्य ‘सयश्चायं पुरुषे । यश्चासावादित्ये । स एकः’ इति परामृश्य ‘आनन्दो ब्रह्मेति व्यजानात् ‘ इत्यादिनोपसंहारात् , तस्यैव ब्रह्मात्मनोऽभ्यासात् , तदपूर्वता स्यात् । ‘सोऽश्नुते सर्वान्कामान् ‘ ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति’ इत्यादिना फलाभिलापात् ‘तदात्मानं स्वयमकुरुत’ इत्यर्थवादात् ‘को ह्येवान्यात् ‘ इत्याद्युपपत्तेः । एकत्वे वेदान्तानामेकान्तेन तात्पर्यमवधार्यते । तथा चायुक्ता तेषां स्वार्थे तात्पर्याभावकृता सम्पदादिपरतेति भावः ।

किञ्च ज्ञानस्याज्ञानध्वस्तिफलत्वश्रुतेर्न सम्पदादिरूपमैक्यज्ञानमित्याह —

भिद्यत इति ।

हृदयमन्तःकरणं तस्य ग्रन्थी रागादिः स तस्मिन्दृष्टे भिद्यते विदीर्यते । सर्वे च संशयाः संसारहेतवश्छिद्यन्ते छिन्ना भवन्तीत्यर्थः । आदिशब्दात् ‘तरति शोकमात्मवित् ‘ इत्यादि गृह्यते ।

तेषां तात्पर्यमाह —

अविद्येति ।

सम्पदादिज्ञानस्याप्रमात्वादज्ञानानिवर्तकत्वादित्यर्थः ।

ब्रह्मविद्याया ब्रह्मभावफलश्रुतेरपि न सम्पदादिरूपतेत्याह —

ब्रह्मेति ।

आदिपदं ‘ब्रह्मविदाप्रोति’ इत्यादि ग्रहीतुम् ।

तेषां तात्पर्यमाह —

तद्भावेति ।

आत्मनो वस्तुतो भिन्नस्याब्रह्मत्वादन्यस्य स्थितस्य नष्टस्य वान्यत्वासिद्धेः सम्पदादिपक्षे तद्भाववाक्यानां न मुख्यार्थतेत्यर्थः ।

उक्तहेतुभ्यः सिद्धं निगमयति —

तस्मादिति ।

प्रमितित्वं, तमोध्वस्तितद्भावापत्तिफलत्वं च तच्छब्दार्थः ।

सम्पदादिरूपत्वाभावेऽपि कथमविधेयत्वं तदाह —

अत इति ।

तदतन्त्रत्वे नित्यत्वमाशङ्क्याह —

किं तर्हीति ।

तस्या वस्तुतन्त्रत्वे फलितमाह —

एवमिति ।

एवंभूतस्याद्वयप्रत्यङ्मात्रतया स्थितस्येत्यर्थः । कृतिसाध्यस्यैव नियोगविषयत्वाद्ब्रह्मणस्तज्ज्ञानस्य वा तदसाध्यत्वादित्यर्थः ।

कथमवैधं ब्रह्म, वैफल्यादकारकत्वाद्वा । नाद्यः, मुक्तिश्रुतेः । नेतरः, कर्मत्वादित्याशङ्क्य विदिक्रियायामुपास्तिक्रियायां वा तस्य कर्मतेति विकल्प्याद्यं दूषयति —

न चेति ।

तद्ब्रह्म विदितात्कार्यादन्यदेवाथो कारणादप्यविदितादध्युपरिष्टादन्यदित्यर्थः । येन प्रमात्रेदं सर्वं वस्तु लोको जानाति तं केन करणेन जानीयात् , करणस्य ज्ञेयविषयत्वाज्ज्ञातर्यप्रवृत्तेः । तन्न ज्ञाता ज्ञेयः किन्तु साक्षीत्यर्थः ।

द्वितीयं प्रत्याह —

तथेति ।

'यद्वाचानभ्युदितं येन वागभ्युद्यते’ इत्यविषयत्वमुक्तवा ‘तदेव’ इति मातृत्वादिकल्पनामपोह्यात्मभूतं ब्रह्म महत्तममिति त्वं विद्धि । यदुपाधिविशिष्टं देवतादीदमित्युपासते जना नेदं त्वं ब्रह्म विद्धीत्यर्थः ।

शास्त्रोत्थशानाविषयत्वे ब्रह्मणि तत्‌प्रामाण्यप्रतिज्ञाहानिरिति चोदयति —

अविषयत्व इति ।

शास्त्रीयज्ञानाधीनस्फुरणवत्त्वरूपकर्मत्वाभावेऽप्यविद्याध्वस्त्यतिशयवत्त्वाद्ब्रह्मणः शास्त्रीयत्वान्न प्रतिज्ञाहानिरित्याह —

नेति ।

शास्त्रीयधीकृताविद्याध्वस्तिमत्त्वेन तत्कृतस्फुरणवत्त्वमपि घटादिवदित्याशङ्क्य तथैवेदन्धीविषयत्वापत्तेर्मैवमित्याह —

नहीति ।

तर्हीदंप्रत्ययाविषयत्वादविद्याध्वस्तिमत्त्वमपि शून्यवन्नास्तीति नास्य शास्त्रीयतेत्याशङ्क्य अहमादिसाक्षिमात्रत्वेन ब्रह्मास्मीति बुद्धावाविर्भावयदविद्यामपनयति शास्त्रमिति तत्प्रामाण्यमित्याह —

किं तर्हीति ।

तथापि कथमद्वयं ब्रह्म प्रतिपाद्यं वेद्यादिभेदादित्याशङ्क्याह —

वेद्येति ।

तत्र श्रुतीरुदाहरति —

तथा चेति ।

यस्य ब्रह्मामतमविषय इति निश्चयस्तस्य तन्मतं सम्यग्ज्ञातम् । यस्य तु मतं विषयतया ज्ञातं ब्रह्मेति धीर्नासौ तद्वेद, भेदधीमत्त्वादेवमेवेति नियमार्थमुक्तौ विद्वदविद्वत्पक्षावनुवदति —

अविज्ञातमिति ।

विषयत्वेनाज्ञातमेव ब्रह्म सम्यग्जानतां ज्ञातमेव विषयतया यथावदजानतामित्यर्थः ।

दृष्टेश्चक्षुर्जन्यायाः कर्मभूताया द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्यया तया दृष्ट्या न पश्येः, विज्ञातेर्बुद्धिधर्मस्य निश्चयस्य विज्ञातारं साक्षिणं तथैव वेद्यया विज्ञात्या न विजानीया इति श्रुत्यन्तरमाह —

न दृष्टेरिति ।

आदिपदेन ‘अदृश्येऽनात्म्ये’ ‘यत्तदद्रेश्यम्’ इत्यादि गृहीतम् ।

ननु यद्यैक्यधीः शास्त्रोत्था स्फूर्तिमनुत्पाद्याविद्याबाधया तज्जं ज्ञात्राद्यपि बाधित्वा ब्रह्मात्मन्यमेये स्वाभाविकापरोक्षव्यञ्जनेन निवर्तकतया स्थितेति ब्रह्मणि शास्त्रं प्रमाणन्तर्हि ध्वस्ताविद्यातज्जब्रह्मरूपस्यागन्तुकत्वान्न तदाप्तेर्मुक्तेर्नित्यतेत्याशङ्क्याह —

अत इति ।

शास्त्रोत्थज्ञानादिति यावत् ।

स्वपक्षे ब्रह्मणः शास्त्रीयत्वं मोक्षस्य नित्यत्वं चोक्त्वा परपक्षे तदनित्यत्वं वक्तुं तस्योत्पाद्यत्वं, विकार्यत्वं प्राप्यत्वं संस्कार्यत्वं वेति विकल्प्य कल्पद्वये कार्यानुप्रवेशमङ्गीकरोति —

यस्येति ।

तथेति मुक्तेर्विकार्यत्वे सत्युत्पाद्यत्ववत्कार्यापेक्षा युक्तेत्यर्थः ।

तर्हि कार्यानुप्रवेशायान्यतरपरिग्रहः स्यादित्याशङ्क्याह —

तयोरिति ।

तदेव व्यतिरेकेण व्यनक्ति —

नहीति ।

अनित्यत्वनिवृत्तये पूर्वसिद्धस्यैव ब्रह्मणो ग्रामादिवदाप्यतेति तृतीयमाशङ्क्याह —

न चेति ।

ब्रह्म प्रत्यगन्यद्वा । प्रथमं प्रत्याह —

स्वात्मेति ।

द्वितीयेऽपि ब्रह्म सर्वगतं परिच्छिन्नं वा । सर्वगतत्वेऽपि तत्प्राप्तिः संयोगस्तादात्म्यं वा । तत्राद्यं दूषयति —

स्वरूपेति ।

तादात्म्यपक्षस्तु स्थितस्य नष्टस्य वान्यस्यान्यत्वायोगादुपेक्षितः । अविकृतदेशतया परिच्छिन्नत्वेऽपि ब्रह्मणः संयोगाख्या तत्प्राप्तिरनित्यत्वादयुक्ता । तादात्म्यं तूक्तन्यायनिरस्तम् ।

पक्षान्तरं निराह —

नापीति ।

तदभावं वक्तुं संस्कारद्वैविध्यमाह —

संस्कारो हीति ।

प्रकारप्रकारिप्रसिद्ध्यर्थौ निपातौ ।

गुणाधानेन मुक्तेर्न संस्कार्यतेत्याह —

नेति ।

दोषनिरासेनापि न तस्याः संस्कार्यतेत्याह —

नापीति ।

आगन्तुकगुणदोषयोरभावेऽपि नैसर्गिकाविद्यादोषात्तन्निवृत्त्या मुक्तेः संस्कार्यतेति शङ्कते —

स्वात्मेति ।

वस्तुतः स्वात्मैव प्रतीत्या धर्मः सन्निति यावत् ।

स्वाभाविकस्यापि तिरस्कृतस्य क्रियातोऽभिव्यक्तौ दृष्टान्तमाह —

यथेति ।

किमात्मा स्वाश्रयक्रियया दोषापनुत्त्या संस्क्रियते किं वान्याश्रयक्रिययेति विकल्प्याद्यं निरस्यति —

नेति ।

आत्मनोऽसङ्गत्वान्न क्रियाश्रयत्वयोग्यतेत्ययुक्तं, क्रियावत्त्वमिच्छतां तद्योग्यत्वादित्याशङ्क्याह —

यदाश्रयेति ।

आत्मनोऽपि विकारित्वमाशङ्क्याह —

यदीति ।

न केवलमात्मनो विकारित्वे युक्तिविरोधः, अपित्वागमविरोधोऽपीत्याह —

अविकार्य इति ।

‘निष्कलं निष्क्रियम् ‘ इत्यादिश्रुतिसमुच्चयार्थश्चकारः । ‘न जायते म्रियते वा ‘ इत्यादिश्रुतिस्मृतिसङ्ग्रहार्थमादिपदम् ।

तच्चेति ।

आगमबाधनमनिष्टम् । वैदिकानामिति शेषः ।

आद्यपक्षायोगं निगमयति —

तस्मान्नेति ।

द्वितीयं निराह —

अन्येति ।

क्रियायाः स्वाश्रये तद्युक्ते वातिशयहेतुत्वात् , असङ्गस्यात्मनस्तदाश्रयबुद्ध्याद्यसम्बन्धात् , तन्निष्ठा क्रिया संस्कारमात्मन्याधातुमलमित्यर्थः ।

नान्याश्रया क्रियान्यं संस्करोतीत्यत्र व्यभिचारं शङ्कते —

नन्विति ।

आदिपदं सन्ध्यावन्दनादिसङ्ग्रहार्थम् ।

आत्मनो देहाद्यतिरिक्तस्यापि देहादिष्वविद्याध्यासात्तदभिन्नस्यैव तत्क्रियया संस्कार्यत्वान्न व्यभिचार इत्याह —

न । देहेति ।

अविद्यागृहीतस्येति ।

अविद्यया मनुष्योऽहमिति मिथ्याज्ञानदृष्टस्येत्यर्थः ।

देहाश्रयक्रियया देहसंहतस्य तदभिन्नस्यात्मनः संस्क्रियमाणत्वमुक्त्वा स्नानाचमनादिक्रियाया देहाश्रयत्वे मानमाह —

प्रत्यक्षं हीति ।

असंहतात्मस्थक्रियया तस्यैव संस्कार्यत्वं किं न स्यादित्याशङ्क्याध्यक्षविरोधमाह —

तयेति ।

कश्चिदित्यनिर्धारितविशेषमामुष्मिकफलोपभोगशक्तमस्तीत्येवं प्रतिपन्नं निर्दिशति ।

दृष्टान्तेनोक्तं स्पष्टयति —

यथेत्यादिना ।

देहसंहतिफलं तदभिमानिन इत्युक्तं, आरोग्यमपि कस्मादसंहतात्मगं न स्यादित्याशङ्क्यानुभवविरोधादित्याह —

अहमिति ।

संस्कारफलं शुद्ध इत्युक्तम् । आत्मनो यथोक्तबुद्धिमतोऽसंहतत्वमनुभवेन वारयति —

स चेति ।

कथं तर्हि स्नानादीनां कर्तृसंस्कारत्वप्रसिद्धिरित्याशङ्क्य संहतस्यैव कर्तृत्वादित्याह —

तेनेति ।

प्रयतेऽहमिति कर्तृत्वमनुभवितुरपि तुल्यमित्याशङ्क्याह —

अहंप्रत्ययेति ।

अनुभवितुर्नित्यप्रकाशस्य न तद्विषयतेत्यर्थः ।

न केवलमस्याहन्धीमात्रे कर्तृत्वं किन्तु धीमात्र इत्याह —

प्रत्ययिनेति ।

आत्मनो भोक्तुरेव कर्तृत्वमकर्तुर्भोगाभावादित्याशङ्क्याह —

तत्फलं चेति ।

संहतस्य भोक्तृत्वे मानमाह —

तयोरिति ।

जीवपरयोर्मध्ये जीवो नानारसं कर्मफलं भुङ्क्ते ।

असंहतस्याभोक्तृत्वे मानम् —

अनश्नन्निति ।

परमात्मा स्वयमभुञ्जान एव पश्यन्वर्तते ।

संहतस्य भोक्तृत्वे वाक्यान्तरमाह —

आत्मेति ।

आत्मीयं शरीरमात्मा । देहादिसंयुक्तमात्मानमित्यर्थः । यद्वात्मा भोक्तेत्याहुरिति सम्बन्धः । इन्द्रियेत्यादि क्रियाविशेषणम् ।

निर्गुणत्वान्निर्दोषत्वाच्च ब्रह्मात्मनि द्विधापि संस्कारो नेत्युक्तम् । इदानीं तस्मिन्गुणदोषयोरभावे मानमाह —

तथाचेति ।

मूर्तित्रयात्मना भेदं प्रत्याह —

एक इति ।

यथाहुः - ‘हरिर्ब्रह्मा पिनाकीति बहुधैकोऽपि गीयते ‘ इति अखण्डजाड्यं व्यावर्तयति —

देव इति ।

आदित्यादिवैषम्यमाह —

सर्वेति ।

तर्हि किमिति सर्वेषां न भाति, तत्राह —

गूढ इति ।

तर्हि तत्तद्भूतावच्छिन्नत्वेन परिच्छिन्नत्वं, नेत्याह —

सर्वव्यापीति ।

नभोवत्ताटस्थ्यं वारयति —

सर्वभूतेति ।

सर्वेषु भूतेष्वन्तःस्थितस्य तत्तत्क्रियाकर्तृत्वं शङ्कित्वोक्तम् —

कर्मेति ।

सर्वभूतेष्वित्यादिना भूतानां पृथगुक्तेः सद्वितीयत्वं, तत्राह —

सर्वेति ।

सर्वेषां भूतानामधिवासोऽधिष्ठानम् । न च कल्पितमधिष्ठानादर्थान्तरमित्यर्थः ।

न परं कर्मणामेवाध्यक्षोऽपि तु तद्वतामपीत्याह —

साक्षीति ।

तत्र चैतन्यस्वाभाव्यं हेतुमाह —

चेतेति ।

केवलो दृश्यवर्जितोऽद्वितीयः । निर्गुणो ज्ञानादिगुणरहितः । चकारो दोषाभावसमुच्चयार्थः ।

ब्रह्मात्मनि गुणदोषाभावे मन्त्रान्तरमाह —

स इति ।

स प्रकृतः ‘यस्य सर्वाणि भूतानि’ इत्यादावात्मा परितः समन्तादगात्सर्वगतः । शुक्रमित्यादिशब्दाः पुंलिङ्गत्वेन नेयाः ‘स’ इत्युपक्रमात् , ‘कविर्मनीषी’ इत्यादिना च पुंलिङ्गत्वेनोपसंहारात् । शुक्रो दीप्तिमानकायो लिङ्गदेहहीनः । अव्रणोऽक्षतोऽस्नाविरः शिरारहितस्ताभ्यां स्थूलदेहासत्त्वमुक्तम् । शुद्धो रागादिशून्यः । अपापविद्धो धर्माधर्मविधुरः ।

मन्त्रयोस्तात्पर्यमाह —

एताविति ।

तथापि मोक्षस्य किमायातं, तदाह —

ब्रह्मेति ।

मुक्तिब्रह्मणोरैक्यात्तत्र दोषाद्यभावान्न तस्याः संस्कार्यतेत्युपसंहरति —

तस्मादिति ।

उत्पाद्यादिदृष्टान्तार्थोऽपिशब्दः ।

मुक्तेरुत्पत्त्यादिचतुष्टयं क्रियानुप्रवेशद्वारं मा भूत्पञ्चमं तु किञ्चिद्भविष्यति नियमाभावात् , नेत्याह —

अत इति ।

उत्पत्त्यादिचतुष्टयमतःशब्दार्थः । तस्या लोकवेदप्रसिद्धत्वादित्यर्थः ।

मोक्षे क्रियाया अननुप्रवेशे तदर्थप्रवृत्त्यानर्थक्यमित्याशङ्क्य ज्ञानार्थत्वान्मैवमित्याह —

तस्मादिति ।

क्रियानुप्रवेशद्वाराभावस्तच्छब्दार्थः । उपास्तेरपि मोक्षे साक्षात्प्रवेशो नेति वक्तुं गन्धमात्रस्येत्युक्तम् । बाह्यक्रियायास्तत्राप्रवेशे कैमुतिकन्यायार्थोऽपिशब्दः ।

मोक्षेज्ञानप्रवेशे तस्य क्रियात्वादस्त्येव तत्प्रवेशस्तत्रेति शङ्कते —

नन्विति ।

तस्य मानसव्यापारत्वेऽपि न वैधक्रियात्वम् ।

ततो जन्यफलादजन्यफलत्वेन विशेषादित्याह —

नेति ।

वैधक्रियात्वम् ।

वैधक्रिया यत्नेच्छासाध्या ज्ञानं न तथेत्यपरं विशेषमाह —

क्रिया हीति ।

यत्र विषये या वस्त्वनपेक्षा चोद्यते तत्र सा क्रिया हि नामेति योजना । क्रियातद्धर्मप्रसिद्धार्थौ निपातौ ।

वस्तु चेन्न कारणं किं तर्हि तथा तदाह —

पुरुषेति ।

वस्त्वनपेक्षा पुन्तन्त्रा च क्रियेत्यत्र दृष्टान्तद्वयमाह —

यथेति ।

गृहीतमध्वर्युणेति शेषः । वषट्करिष्यन्निति होतोक्तः । सन्ध्यां तदभिमानिनीं देवतामित्यर्थः । ‘नाम ब्रह्मेत्युपासीत’ इत्यादिग्रहीतुमादिपदम् । एवमादिषु वाक्येषु वस्त्वनपेक्षं पुन्तत्त्रं च ध्यानं विधीयते तथा क्रियान्तरमपीत्यर्थः ।

ननु मानसत्वाविशेषाविशेषाद्ध्यानमपि ज्ञानमेवेति नास्य क्रियादृष्टान्तत्वम् , तत्राह —

ध्यानमिति ।

ज्ञानस्यापि तुल्यं पुन्त्न्त्रत्वं तदाश्रयत्वात्तत्राह —

ज्ञानं त्विति ।

प्रमाणद्वारा तस्य पुन्तन्त्रत्वमाशङ्क्याह —

प्रमाणं चेति ।

ज्ञानस्यापुन्तन्त्रत्वे फलितमाह —

अत इति ।

तर्हि ज्ञानस्य नित्यत्वं, नेत्याह —

केवलेति ।

विशेषणकृत्यमाह —

नेति ।

एवकारव्यावर्त्यमाह —

नापीति ।

ज्ञानध्यानयोर्मानसक्रियात्वेऽपि गोबलीवर्दवद्भेदं मत्वा वैशेष्यं निगमयति —

तस्मादिति ।

तच्छब्दार्थोऽपुन्तन्त्रत्वम् ।

ध्यानस्य वस्त्वनपेक्षत्वे दृष्टान्तावुक्त्वा तस्य तद्विरोधित्वे दृष्टान्तावाचष्टे —

यथा चेति ।

सापि धीर्मानसत्वाज्ज्ञानमेवेत्याशङ्क्याह —

केवलेति ।

न ज्ञानमिति तुशब्दार्थः । वस्त्वनधीनत्वं कैवल्यम् । एवकारोऽयोगव्यवच्छेदकः ।

उक्तबुद्धेरुक्तक्रियात्वनियमे हेत्वन्तरमाह —

पुरुषेति ।

यथैतौ दृष्टान्तौ तथा क्रियान्तरमपीति यथाशब्दो नेयः ।

ज्ञानमपि योषिदादावग्निधीतुल्यमिति, नेत्याह —

या त्विति ।

तस्यास्तर्हि किं कारणं, तदाह —

किं तर्हिति ।

प्रकृतदृष्टान्तमपेक्ष्य प्रत्यक्षविषयपदम् । तेन युक्तमेव वैषम्यं वैधक्रियाधियोरित्याह —

इति ज्ञानमिति ।

अध्यक्षधियोऽर्थजन्यतया तत्तन्त्रत्वेऽपि शब्दाद्यर्थधियस्तदभावाच्चोदनादिजन्यतेत्याशङ्क्याह —

एवमिति ।

अनुमानादावर्थाजन्यत्वेऽपि लिङ्गादिजन्यत्वान्न चोदनाद्यपेक्षेति भावः ।

लौकिकधियश्चोदनाद्यनपेक्षत्वेऽपि ब्रह्मधीरलौकिकत्वात्तदपेक्षत इत्याशङ्क्य दार्ष्टान्तिकं निगमयति —

तत्रेति ।

पूर्वोक्तरीत्या सम्यग्ज्ञाने वस्तुमात्रतन्त्रे सतीति यावत् । यथाभूतत्वं सदैकरूप्यम् ।

वैधक्रियातो वैशेष्योक्त्या ज्ञानस्याविधेयत्वमुक्तम् । तत्र ज्ञाने लिङादिश्रुत्या दृष्टविधेस्तर्कानिरस्यत्वादित्याशङ्क्याह —

तद्विषय इति ।

तदेव ज्ञानं विषयः । तत्र यद्यपि लिङादयः श्रुतास्तथापि स्तुत्यर्थवादतया ‘विष्णुरुपांशु यष्टव्यः’ इत्यादिवदवतिष्ठन्ते । अनियोज्यमपुन्तन्त्रतया नियोगानर्हं नियोज्येन वा हीनं ज्ञानं तद्विषयत्वात्तेषामविधायकत्वादित्यर्थः ।

कुण्ठीभावे दृष्टान्तमाह —

उपलादिष्विति ।

बिधेयज्ञानस्य कर्मणि ब्रह्मण्यतिशयाजनकत्वाच्च न विधेयतेत्याह —

अहेयेति ।

अनुष्ठेयानुष्ठात्रोरभावाद्विध्यभावे श्रुतेरपि तदपेक्षत्वेनासम्भवाद्विधिशब्दवैयर्थ्यमिति शङ्कते —

किमर्थानीति ।

यो द्रष्टव्यः स आत्मैवेति तत्त्वप्रतिपादकानि तानीत्यशङ्क्याह —

विधीति ।

तेषामर्थवत्त्वं ब्रुवाणः समाधत्ते —

स्वाभाविकेति ।

सङ्गृहीतं विभजते —

यो हीति ।

बाहिर्मुख्यं शब्दादिप्रवणत्वम् ।

पुमर्थमुद्दिश्य प्रवृत्तेः श्रुत्या किमिति परावर्त्यते, श्रुतेरनर्थकरत्वापातात्तत्राह —

न चेति ।

बाह्योऽर्थः सप्तम्यर्थः ।

किमिति तर्हि श्रुतिः सर्वानपि पुरुषान्नानुसरति, तत्राह —

तमिति ।

अग्नेर्दाहप्रवृत्तिवदात्मनो विषयप्रवृत्तिरपि निरोद्धुमशक्येत्याशङ्क्याह —

कार्येति ।

आत्मधियोऽनात्मदर्शने सत्यपि सम्भवात्किमिति ततो विमुखीकरणं, तत्राह —

प्रत्यगिति ।

तत्र चेतसः स्रोतस्तदाभिमुख्यं तद्भावेनेति यावत् । सत्यनात्मदर्शने तत्प्रवणस्य चेतसो न प्रत्यगाभिमुख्यमित्यनात्मधीनिरासेन फलभूतात्मदृष्टिस्तावकतया तदाभिमुख्यायान्वयव्यतिरेकसिद्धा एवं श्रवणादयो विधिसरूपैर्वाक्यैरनूद्यन्ते । तेन विधिकार्यलेशलाभाद्विधिच्छायान्येतानि न विधय इत्यर्थः ।

अस्तु वा मुमुक्षुप्रवृत्तेर्वैधत्वाद्वाक्यभेदेन श्रवणादिविधिः तथापि वस्तुनो विध्ययोग्यत्वान्न तज्ज्ञाने विधिरित्याह —

तस्येति ।

यदिदं ब्रह्मक्षत्रादि तत्सर्वमात्मैवेति बाधायां सामानाधिकरण्याद्द्वैताभावोक्त्यात्मनोऽद्वितीयत्वेन पूर्णत्वोक्तेर्न तत्र हेयत्वमादेयत्वं चेत्याह —

इदमिति ।

अविद्यादशायामात्मनः सद्वितीयतया हेयत्वादिसिद्धिमाशङ्क्याङ्गीकुर्वन्विद्यावस्थायामात्मातिरिक्तक्रियाद्यभावान्न हेयत्वादीत्याह —

यत्रेति ।

न केवलं विद्यावस्थायामेवात्मनि ज्ञात्रादिविभागाभावः किन्त्ववस्थान्तरेऽपीत्याह —

विज्ञातारमिति ।

आत्मनः स्वविषये ज्ञेयत्वाभावेऽपि ब्रह्मणि तद्भावादादेयता तत्र स्यादित्याशङ्क्याह —

अयमिति ।

आदिशब्द आत्मतत्त्ववादिसर्ववाक्यसङ्ग्रहार्थः ।

प्रतिपत्तिविधिशेषतयैव ब्रह्म शास्त्रीयमित्येतन्निराकृत्य तत्रैवसूचितं पूर्वपक्षमनुवदति —

यदपीति ।

आत्मधियो हानाद्यनुपायत्वं, विफलत्वं वा । तत्राद्यमङ्गीकरोति —

तथेति ।

द्वितीयं दूषयति —

अलङ्कारो हीति ।

ब्रह्मात्मावगतेरुक्तफलत्वे मानं हिशब्दसूचितमाह —

तथा चेति ।

अयं परमात्माहमस्मीत्यपरोक्षतया यदि कश्चित्पुरुषो जानीयात् । आत्मसाक्षात्कारदौर्लभ्यद्योती चेच्छब्दः । स स्वातिरिक्तमात्मनः किं फलमिच्छन्कस्य वा पुत्रादेः फलाय तदलाभेन शरीरं तप्यमानमनु तदुपाधिः सञ्ज्वरेत्तप्येत । निरूपाध्यात्मविदो नान्यदस्ति फलं नाप्यन्यः पुत्रादिरित्याक्षेपः ।

तत्रैव स्मृतिमाह —

एतदिति ।

गुह्यतमं शास्त्रमेतत्तस्य बुद्धिः अर्थतः विधिशेषत्वेन ब्रह्मणो न शास्त्रगम्यतेत्युक्तमुपसंहरति —

तस्मादिति ।

ज्ञानस्य विधेयत्वाभावस्तथाविधफलत्वं च तच्छब्दार्थः । प्रमाप्रमारूपधीमात्रविषयः प्रतिपत्तिशब्दः । तद्विधिविषयतयेति पूर्ववत् ।