ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
अत्रापरे प्रत्यवतिष्ठन्तेयद्यपि शास्त्रप्रमाणकं ब्रह्म, तथापि प्रतिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यतेयथा यूपाहवनीयादीन्यलौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते, तद्वत्कुत एतत् ? प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्यतथा हि शास्त्रतात्पर्यविद आहुः — ‘दृष्टो हि तस्यार्थः कर्मावबोधनं नामइति; ‘चोदनेति क्रियायाः प्रवर्तकं वचनम्तस्य ज्ञानमुपदेशः’ (जै. सू. १ । १ । ५), तद्भूतानां क्रियार्थेन समाम्नायः’ (जै. सू. १ । १ । २५) आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति अतः पुरुषं क्वचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम्तच्छेषतया चान्यदुपयुक्तम्तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात्सति विधिपरत्वे यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं विधीयते, एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम्न्विह जिज्ञास्यवैलक्षण्यमुक्तम्कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः, इह तु भूतं नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति; तत्र धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हतिनार्हत्येवं भवितुम् , कार्यविधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात्आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) आत्मापहतपाप्मा ... सोऽन्वेष्टव्यः विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिषु विधानेषु सत्सु, ‘कोऽसावात्मा ?’ ‘किं तद्ब्रह्म ?’ इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताःनित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयःतदुपासनाच्च शास्त्रदृष्टोऽदृष्टो मोक्षः फलं भविष्यतिकर्तव्यविध्यननुप्रवेशे तु वस्तुमात्रकथने हानोपादानासम्भवात्सप्तद्वीपा वसुमती’ ‘राजासौ गच्छतिइत्यादिवाक्यवद्वेदान्तवाक्यानामानर्थक्यमेव स्यात्ननु वस्तुमात्रकथनेऽपिरज्जुरियम् , नायं सर्पःइत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टम्तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात्स्यादेतदेवम् , यदि रज्जुस्वरूपश्रवणमात्रेणेव सर्पभ्रान्तिः, संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत; तु निवर्ततेश्रुतब्रह्मणोऽपि यथापूर्वं सुखदुःखादिसंसारिधर्मदर्शनात्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इति श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्विधिदर्शनात्तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमिति

तत्र ‘सदेव’ इत्यादिवेदान्ता विधेयधीविषयत्वेन ब्रह्मार्पयन्ति उत साक्षादिति सिद्धे व्युत्पत्त्यभावभावाभ्यां संशये पूर्वपक्षयति —

अत्रेति ।

ब्रह्म कार्यस्पृष्टमेव शास्त्रगम्यं, केवलमपीत्युभयत्र फलभेदः । सप्तम्या ब्रह्मणः शास्त्रप्रमाणकत्वमुक्तम् ।

तदेव वदन्नुक्तमङ्गीकृत्यानिष्टं प्रसञ्जयति —

यद्यपीति ।

प्रतिपत्तिविधिविषयतया ।

तद्विषयप्रतिपत्तिविषयतयेति यावत् । वस्तुमात्रनिष्ठत्वे ब्रह्मधियो हानाद्यर्थत्वाभावादानर्थक्यमेवेत्यर्थः ।

कथं कार्यपरवेदान्तेभ्यो वस्तुधीः, वाक्यभेदादित्याशङ्क्याह —

यथेति ।

'यूपे पशुं बध्नाति’ इति पशुबन्धनाय विनियुक्ते यूपे तस्यालौकिकत्वात् कोऽसावित्याकाङ्क्षिते ‘खादिरो यूपो भवति । यूपं तक्षति । यूपमष्टाश्रीकरोति' इत्यादिभिस्तक्षणाधिविधिपरैरपि वाक्यैर्विशिष्टसंस्कारसंस्थानं दारु यूप इति गम्यते । ‘यदाहवनीये जुहोति’ इति होमाधारत्वेनोक्ताहवनीयस्यालौकिकत्वात्कोऽसाविति वीक्षायां ‘वसन्ते ब्राह्मणोऽग्नीनादधीत’ इत्यादि तद्विधिपरैरेव वाक्यैः संस्कृतोऽग्निरसाविति भाति । तथा देवतास्वर्गाद्यपि विधिपरेणैव शास्त्रेणोच्यते । तथान्यपरेणापि तेन विध्याक्षेपादुपादानाद्विशिष्टं ब्रह्म सुबोधमित्यर्थः ।

ननु फलिनो द्रुमाः, भूभागो निधिमानित्यदिषु विनापि विधिं प्रयोगधीदृष्टेः, शास्त्रेणापि विध्यनपेक्षेण ब्रह्मणोऽर्पणमिति शङ्कते —

कुत इति ।

दृष्टान्तेऽपि कार्याध्याहाराद्यभिप्रेत्याह —

प्रवृत्तीति ।

‘प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसा येनोपदिश्येते तच्छास्रमभिधीयते ॥ ‘ इति न्यायात् , वेदान्तानामपि शास्त्रत्वादन्यतरनियमाद्विधिनिष्ठताध्रौव्यमित्यर्थः ।

प्रवृत्त्यादिपरस्यैव शास्त्रत्वं, शब्दशक्तिश्च कार्यान्वयिन्येवेत्यत्र वृद्धसंमतिमाह —

तथा हीति ।

'वेदमधीत्य स्नायात् ‘, इत्यध्ययनस्नानयोरव्यवधानाधिगमात् , अधीत्य स्नानमकृत्वा धर्मं जिज्ञासमानो वेदमिममतिक्रामेत् । अनतिक्रमितव्यश्चासाविति चोदिते भाष्यकृतोक्तम् - ‘अतिक्रमिष्याम इममाम्नायमनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवल्पयेम’ इति ।

कस्तर्हि वेदस्यार्थस्तत्राह —

दृष्टो हीति ।

तस्य वेदस्य कर्मावबोधनं नियोगज्ञानं दृष्टोऽर्थो दृष्टं फलम् । नियोगश्च साध्यत्वात्प्रवृत्त्याद्यपेक्षः । तस्मात्प्रवृत्त्यादिपरं शास्त्रमित्यर्थः ।

धर्मजिज्ञासासूत्रस्थं भाष्यमुक्त्वा तत्रैव चोदनासूत्रस्थं भाष्यमाह —

चोदनेतीति ।

चोदनासूत्रे हि चोदनेत्यनेन शब्देन क्रियाया नियोगस्य प्रवर्तकमनुष्ठापकं वचनमाहुर्वेदविदः । तेन शास्त्रं प्रवर्तकमित्यर्थः ।

प्रवृत्त्यादिपरं शास्त्रमित्यत्रैव सूत्रकारं संवादयन्नौत्पत्तिकसूत्रावयवमादत्ते —

तस्येति ।

अध्यक्षाद्यभावान्मानागम्यस्य धर्मस्य कथं धीरिति वीक्षायामुक्तम् - ‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ‘ इति । उत्पत्तिर्भावः शब्दस्य वाचकस्यार्थेन वाच्येन शक्तिसम्बन्धस्तयोर्भावेनावियुक्तो नित्यो न तूत्पन्नयोरुत्तरभावी ।

तथापि धर्मे किं मानं, चोदनैवेत्याह —

तस्येति ।

अग्निहोत्रादिधर्मस्याध्यक्षाद्यसिद्धस्य । ज्ञायतेऽनेनेति ज्ञानं तन्निमित्तं मानमुपदेश उपदिश्यतेऽनेनेति विधिवाक्यम् । अव्यतिरेकश्च शब्दोत्थस्य ज्ञानस्यार्थे व्यभिचाराभावः । न ह्यपौरुषेयोक्तिजन्यं ज्ञानं जातु विपर्येति । तस्मादन्यतोऽनुपलब्धेऽर्थे धर्माख्ये तदेवोपदेशशब्दितं विधिवाक्यं मानं, ज्ञानान्तरे पुरुषान्तरे वा तस्यानपेक्षत्वात् । बादरायणस्यापि भगवतः संमतमेतदित्याचार्यं पूजयितुं बादरायणोक्तिरित्यक्षरार्थः । तत्र लोके शब्दस्य मानान्तरवेद्यत्वोपहितस्वार्थे शक्तिनियमात् , देवदत्तादिपदे च सङ्केतार्थधीदृष्टेः सर्वशब्दानां तथैवार्थबोधित्वात् , अवेद्ये सङ्केतायोगात् , नास्य वेदार्थतेत्यभावो वेदार्थस्येत्याशङ्क्य कार्यबोधाधीनव्यवहाराकृतशक्तौ मानान्तरानिवेशात् , कार्यान्वितस्वार्थमात्रे शक्तेरवधृतत्वात् , वृद्धव्यवहारान्निश्चितशक्तेर्गवादिशब्दार्थधीदृष्टेः देवदत्तादिपदे दृष्टसङ्केतानुमानायोगात् , प्रसिद्धार्थपदसमभिव्याहाराद्व्युत्पत्त्युपगमादपूर्वकार्यार्थता लिङादेः । शब्दान्तराणां तदन्वितस्वार्थव्युत्पत्तेर्मानान्तरानपेक्षार्थत्वं स्वाभाविकसम्बन्धादपौरुषेयवचसामिति चिन्तितम् । तथा चौत्पत्तिकसूत्रादपि शास्त्रं प्रवृत्त्यादिपरमेवेत्यर्थः ।

कार्यान्विते पदशक्तिरित्यत्रैव सूत्रं पठति —

तद्भूतानामिति ।

समाम्नायोऽर्थस्य तन्निमित्तत्वादिति सूत्रशेषः । वेदवाक्यानि मानान्तरसापेक्षाणि, तन्निरपेक्षाणि वेति संशये वृद्धव्यवहारे वाक्यात्तदर्थज्ञानेऽपि वेदवाक्यस्य समुदायान्तरत्वादर्थेनाज्ञातसम्बन्धत्वात् , तत्कल्पने सङ्केतापातात् , वेदवाक्यानां साक्षेपत्वादप्रामाण्यमिति प्राप्ते, लोकवेदयोः शब्दार्थाभेदात् , वैदिकवाक्यार्थधियो लोकव्युत्पत्तिमूलत्वात् , कार्यान्विते ज्ञातशक्तीनामेव शब्दानां विशिष्टार्थावच्छेदकानां वाक्यत्वात् , वैदिकवाक्यानां संकेतानपेक्षाणां स्वार्थधीहेतुत्वादपौरुषेयाणां तेषामनपेक्षं प्रामाण्यमिति राद्धान्तितम् । तेषु पदार्थेषु भूतानां वर्तमानानां पदानां कार्येण वाक्यार्थेन तत्प्रतिपत्त्यर्थत्वेन समाम्नायः सम्भूय वाक्यत्वेनोच्चारणम् । एकैकपदस्मृतार्थस्य मिलितार्थस्य वाक्यार्थधीनिमित्तत्वात् , पदार्थप्रतित्त्यवान्तरव्यापाराणि हि पदानि वाक्यार्यं बोधयन्तीति सूत्रार्थः ।

भूतार्थपरस्य न शास्त्रतेत्यत्रापि सूत्रकारानुमतिमाह —

आम्नायस्येति ।

अभियुक्तोक्त्या फलितमाह —

अत इति ।

इष्टोपायो यागादिर्विषयविशेषः, अनिष्टोपायो हननादिर्द्वितीयो विषयविशेषः ।

विधिनिषेधकाण्डस्यैवमर्थवत्त्वेऽपि कथमर्थवादादिषु तथेत्याशङ्क्याह —

तच्छेषतयेति ।

तथापि वेदान्तानां किमायातं, तदाह —

तत्सामान्यादिति ।

कर्मशास्त्रेण सामान्यं शास्त्रत्वं, तथैव प्रवर्तकत्वेन निवर्तकत्वेन तच्छेषत्वेन वेत्यर्थः ।

ननु वेदान्तेषु 'प्रतिष्ठाकामो रात्रिसत्रेण यजेत' इत्यादिवद्विधेयाभावान्नियोज्याभावाच्च विध्ययोगान्न प्रवृत्त्यादिपरत्वं, तत्राह —

सतीति ।

शास्त्रत्वात्तेषामपि विधिपरत्वध्रौव्ये रात्रिसत्रन्यायेन नियोज्यविशेषलाभात् , आत्मधियश्चाग्निहोत्रादिवद्विधेयत्वात् , विधिद्वारा वेदान्तानां प्रवृत्त्यादिपरतेत्यर्थः ।

उक्तं स्मारयन्ब्रह्मधियो विधेयत्वमाक्षिपति —

नन्विति ।

इहेति काण्डद्वयस्याद्यसूत्रस्य चोक्तिः ।

भूतशब्दस्यार्थान्तरं निरसितुं विशिनष्टि —

नित्येति ।

धीकर्मणोर्विषयवैषम्येऽपि विधेयत्वे किं जातं तत्राह —

तत्रेति ।

ब्रह्मधियोऽसाध्यफलत्वान्न कर्मवद्विधेयतेत्येतद्दूषयति —

नेति ।

कृतियोग्यभावार्थविषयो नियोगोऽत्र कार्यविधिः, तदपेक्षितस्यैव ब्रह्मणो वेदान्तेषु प्रतिपादनात् , तस्य स्वतोऽसाध्यत्वेऽपि विधेयक्रियाद्वारा साध्यत्वात्कर्मफलवद्धीफलस्यापि नैयोगिकत्वात्फलाद्वैलक्षण्यात् , उभयोर्विधेयता तुल्येत्यर्थः ।

वेदान्तेषु विध्यश्रवणान्न तच्छेषतया ब्रह्मोक्तिरित्याशङ्क्याह —

आत्मेति ।

'ब्रह्म वेद’ इत्यत्र रात्रिसत्रवद्विधिः । आदिपादत् ‘ब्रह्मविदाप्नोति’ इत्यादि गृह्यते ।

तथापि सत्यादिवाक्यानि वाक्यभेदेन विध्यस्पृष्टब्रह्माभिदधीरन्नित्याशङ्क्य वाक्यैक्ययोगे न तद्भेदकल्पनेत्याह —

कोऽसाविति ।

तानेव वेदान्तानाह —

नित्य इत्यादिना ।

क्षणिकबुद्धेर्देहाच्चात्मानं व्यावर्तयितुं नित्यपदम् ।

‘पश्यंश्चक्षुः’ इत्यादिश्रुतेश्चक्षुरादिमात्रावच्छिन्नं रूपादिज्ञानवत्त्वं व्यावर्त्य सर्वत्राप्रतिबद्धज्ञानवत्त्वमाह —

सर्वज्ञ इति ।

दिगम्बरेष्टं सर्वज्ञं पराचष्टे —

सर्वेति ।

साङ्ख्यं प्रत्यह —

नित्येति ।

जडविशेषैरैक्यतादात्म्ये व्यासेद्धुम् —

नित्यशुद्धेति ।

अखण्डजाड्यव्यावृत्त्यर्थम् —

बुद्धेति ।

विवर्तहीनाखण्डजडशक्त्यैक्याध्यस्तशबलचैतन्यं निषेद्धुम् —

मुक्तेत्यादि ।

एतानि विशेषणानि तत्तद्वाक्योपलक्षणत्वेनोक्तानि ।

अपरोक्षत्वमाह —

विज्ञानमिति ।

परमपुरुषार्थत्वमाह —

आनन्दमिति ।

आदिशब्दः सत्यं ज्ञानमित्यादिसङ्ग्रहार्थः ।

ननूक्तविधिफलं दृष्टमदृष्टं वा । नाद्यः, विध्यानर्थक्या । न चावघातादिवत्तदर्थत्वम् , दृष्टमात्रफलवत्त्वविरोधात्तेषु नियमादृष्टस्येष्टत्वात् । न द्वितीयः मानाभावात् । तत्राह —

तदुपासनाच्चेति ।

प्रत्यग्ब्रह्म तच्छब्दार्थः । शास्त्रं ‘ब्रह्म वेद’ इत्यादि । अन्वयव्यतिरेकासिद्धत्वमदृष्टत्वम् ।

ब्रह्मणो विध्यनुप्रवेशमुक्त्वा विपक्षं प्रत्याह —

कर्तव्येति ।

ब्रह्मणो विधेयधीविषयत्वाभावे विध्यस्पष्टस्यैवोक्तौ तत्र हानाद्ययोगाल्लौकिकोक्तिवदानर्थक्यमेव वेदान्तानामित्यर्थः ।

वस्तुमात्रोक्तावपि नानर्थक्यमिति दृष्टान्तेन शङ्कते —

नन्विति ।

वैषम्योक्त्या प्रत्याह —

स्यादिति ।

वाक्योत्थज्ञानादेवाकृतकृत्यत्वे हेत्वन्तरमाह —

श्रोतव्य इति ।

पूवपक्षमुपसंहरति —

तस्मादिति ।

सिद्धेऽर्थे शब्दानामज्ञातशक्तित्वं, वेदान्तानां शास्त्रत्वं, अर्थवत्त्वं, श्रवणादूर्ध्वं मननादिविधिश्च तच्छब्दार्थः ।

प्रतिपत्तीत्यादि ।

प्रतिपत्तेर्विधिर्नियोगस्तस्य विषयभूतां प्रतिपत्तिं प्रत्यवच्छेदकत्वेन विषयतयेत्यर्थः ।