ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
तुशब्दः पूर्वपक्षव्यावृत्त्यर्थःतद्ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादेवावगम्यतेकथम् ? समन्वयात्सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानिसदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. उ. १ । १ । १) तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) ब्रह्मैवेदमृतं पुरस्तात्’ (मु. उ. २ । २ । १२) इत्यादीनि तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वयेऽवगम्यमाने अर्थान्तरकल्पना युक्ता, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् तेषां कर्तृदेवतादिस्वरूपप्रतिपादनपरता अवसीयते, तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिक्रियाकारकफलनिराकरणश्रुतेः परिनिष्ठितवस्तुस्वरूपत्वेऽपि प्रत्यक्षादिविषयत्वं ब्रह्मणः, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात्यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति, नै दोषः; हेयोपादेयशून्यब्रह्मात्मतावगमादेव सर्वक्लेशप्रहाणात्पुरुषार्थसिद्धेःदेवतादिप्रतिपादनस्य तु स्ववाक्यगतोपासनार्थत्वेऽपि कश्चिद्विरोधः तु तथा ब्रह्मण उपासनाविधिशेषत्वं सम्भवति, एकत्वे हेयोपादेयशून्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्दोपपत्तेः हि एकत्वविज्ञानेनोन्मथितस्य द्वैतविज्ञानस्य पुनः सम्भवोऽस्ति येनोपासनाविधिशेषत्वं ब्रह्मणः प्रतिपाद्येतयद्यप्यन्यत्र वेदवाक्यानां विधिसंस्पर्शमन्तरेण प्रमाणत्वं दृष्टम् , तथाप्यात्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् चानुमानगम्यं शास्त्रप्रामाण्यम् , येनान्यत्र दृष्टं निदर्शनमपेक्ष्येततस्मात्सिद्धं ब्रह्मणः शास्त्रप्रमाणकत्वम्

तत्र पूर्वपक्षप्रतिक्षेपप्रतिज्ञां व्याचष्टे —

तुशब्द इति ।

तत्पदोपात्तां सिद्धान्तप्रतिज्ञां विभजते —

तद्ब्रह्मेति ।

पूर्वसूत्रयोरुक्तं मेयभूतं ब्रह्म स्मारयितुं विशेषणानि ।

ननु वेदान्तवाक्यस्य लौकिकवाक्यवत् वाक्यत्वादेव संसृष्टार्थत्वात् , अखण्डैकरसे ब्रह्मणि कथं प्रथाहेतुतेति पृच्छति —

कथमिति ।

अपर्यायानेकशब्दानामखण्डार्थत्वस्य प्रकृष्टप्रकाशादिवाक्ये दृष्टत्वात् , अस्यापि ब्रह्मस्वरूपमात्रबोधनप्रवृत्तस्य तद्धीहेतुता युक्तेति हेतुमादत्ते —

समन्वयादिति ।

हेतुं विवृणोति —

सर्वेष्विति ।

वेदान्तानामैकान्तिकीं ब्रह्मपरतां वक्तुं बहूनि वाक्यान्युदाहरति —

सदेवेत्यादिना ।

सदित्यस्तितामात्रम् । एवेत्यवधारणे ।

किं तदवध्रियते तदाह —

इदमिति ।

यदिदं व्याकृतं जगत् तदग्रे प्रागुत्पत्तेः व्याकृतरूपत्यागेन सदेवसीत् । 'हे सोम्य प्रियदर्शन' इति पित्रा पुत्रः संबोध्यते ।

स्थूलं पृथिव्यादीदं बुद्धिबोध्यं प्रागुत्पत्तेर्माभूत् , अन्यत्तु महदादिसूक्ष्ममासीदेवेति नेत्याह —

एकमिति ।

कार्यं सतोऽन्यन्नासीदेवेत्यर्थः ।

तथापि मृदो घटाकारपरिणामयितृकुलालवज्जगन्निमित्तं सतोऽन्यदासीदित्याशङ्क्याह —

अद्वितीयमिति ।

सतोऽपि चित्त्वं विना प्रधानवन्न हेतुतेत्याशङ्क्य श्रुत्यन्तरमाह —

आत्मेति ।

आप्नोतीत्यात्मा मूलकारणम् । वैशब्देन प्रागवस्था स्मर्यते । इदमित्याद्युक्तार्थम् ।

तस्य निर्विशेषत्वार्थं श्रुत्यन्तरं पठति —

तदेतदिति ।

तच्छब्देन ‘इन्द्रो मायाभिः’ इति प्रकृतात्मोक्तिः ।

विधेयं ब्रह्मापेक्ष्य नपुंसकं तदेतदेव यद्ब्रह्म तद्वा किंलक्षणं तत्राह —

अपूर्वमिति ।

नास्य पूर्वं कारणमित्यपूर्वमकार्यमित्यर्थः । नास्यापरं कार्यं वास्तवमस्तीत्यनपरमकारणमित्यर्थः । नास्यान्तरं जात्यन्तरमन्तरालेऽस्तीत्यनन्तरमेकरसमित्यर्थः ।

तथाविधमन्यदपि तटस्थमस्तीति नेत्याह —

अबाह्यमिति ।

बाह्यमस्मादनात्मभूतं नास्तीत्यद्वितीयमित्यर्थः ।

तस्यापरोक्षत्वमाह —

अयमिति ।

तत्सिद्ध्यर्थं चित्स्वभावत्वमाह —

सर्वेति ।

ब्रह्मात्मा सर्वमनुभवति चेदनुभाव्यस्य पृथक्त्वान्नाद्वैतमित्याशङ्क्याह —

ब्रह्मेति ।

यत्पुरस्तात्पूर्वस्यां दिश्यब्रह्मेवाविदुषां भाति तत्सर्वमिदममृतं ब्रह्मैव वस्तुत इत्यर्थः । आदिपदेन सत्यज्ञानादिवाक्यानि गृह्यन्ते ।

नन्वेषां वाक्यानामर्थवादाधिकरणन्यायेन कर्मापेक्षितकर्त्रादिप्रकाशनेन क्रियाविधिशेषतेत्युक्तं तत्राह —

न चेति ।

'वायुर्वै क्षेपिष्ठा’ इत्यादीनामिव क्रियाविधिशेषत्वेऽपि तेषां न श्रुतहानिरश्रुतकल्पना वेत्याशङ्क्याह —

न चेति ।

युक्तमर्थवादानां स्वार्थे पुमर्थहीनानामध्ययनविधेर्विध्यपेक्षितप्राशस्त्यद्वारा तच्छेषत्वम् । यथाहुः - ‘स्वाध्यायविधिना वेदः पुरुषार्थाय नीयते । तद्वशेनार्थवादानां प्राशस्त्येन प्रमाणता ॥ ‘ इति वेदान्तानां तु कर्मापेक्षितकर्त्राद्यबोधित्वान्न तद्विधिशेषतेत्यर्थः ।

ननु पर्णताया जुहूद्वारा क्रतुशेषतावदात्मनोऽपि ज्ञानद्वारा कर्मशेषत्वात् , तदर्था वेदान्तास्तद्विधिशेषा भविष्यन्ति, नेत्याह —

तदिति ।

तत्तत्र विद्यादशायां केन करणेन कं विषयं को वा कर्ता पश्येदित्यादिवाक्येनात्मविद्यया क्रियादिनिरासश्रुतेर्नासौ कर्माङ्गम् । ततो धीद्वारा आत्मनस्तद्विध्यशेषत्वात् तदर्थवेदान्तानां न तच्छेषतेत्यर्थः ।

यत्तु न परिनिष्ठितवस्तुप्रतिपादनं, तस्याध्यक्षादियोग्यत्वादिति तत्राह —

न चेति ।

'तत्त्वमसि ‘ इति शास्त्रमन्तरेणेति सम्बन्धः । वेदान्तवेद्यस्य सिद्धत्वेऽपि मानान्तरायोग्यत्वात् तत्संवादविसंवादाभावाद्युक्तं तत्रानपेक्षं तत्प्रामाण्यमित्यर्थः ।

तत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावादित्यत्रोक्तमनुवदति —

यत्त्विति ।

पुरस्तात्पञ्चम्या वस्तुन इत्यध्याहार्यम् ।

आनर्थक्यं हेयादिहीनार्थत्वं वा विफलत्वं वा । तत्राद्यमुपेत्य द्वितीयं दूषयति —

नेति ।

यत्तु स्ववाक्यगतोपासनादिपरत्वं वेदान्तानां तत्किं कतिपयानामुत सर्वेषाम् । आद्यमङ्गीकरोति —

देवतादीति ।

आदिशब्देन देवतासुरसङ्ग्रामो गुणजातं फलविशेषश्चोच्यते । तस्य तत्प्रकरणस्थोपास्तिशेषत्वं प्रकरणादिष्टमेवेत्यर्थः ।

नेतरः, सर्वेषां वेदान्तानां तच्छेषत्वे मानाभावात् । तदर्थस्य च ब्रह्मणस्तच्छेषत्वं ज्ञानात्प्रागूर्ध्वं वा । आद्येऽध्यस्तगुणवतस्तस्य तच्छेषत्वेऽपि न द्वितीय इत्याह —

नत्विति ।

देवतादिप्रतिपादनं दृष्टान्तयितुं तथेत्युक्तम् । तत्र हेतुः —

एकत्व इति ।

ज्ञाते सतीति शेषः, हेयोपादेयशून्यतयेत्यत्र ब्रह्मणो ज्ञातस्याद्वितीयस्येत्यध्याहार्यम् । उपास्योपासकादिभेदबुद्ध्यभावादुपास्तिविध्ययोगान्न ब्रह्मणो ज्ञातस्य तच्छेषतेत्यर्थः ।

संस्कारात्पुनर्द्वैतज्ञानोदये विध्यादिसर्वमविरुद्धमित्यशङ्क्याह —

नहीति ।

संस्कारोत्थस्याभासत्वाद्विध्यनिमित्तत्वान्न ब्रह्मणस्तच्छेषतेत्यर्थः ।

वेदान्ताः स्वार्थे न मानं, विधिशून्यवाक्यत्वात् , संमतवदित्यनुमानात् , तेषां विधिशेषतेत्यशङ्क्य स्वार्थे फलराहित्यमुपाधिरित्याह —

यद्यपीति ।

अन्यत्रेति कर्मकाण्डोक्तिः । वेदवाक्यानां ‘सोऽरोदीत्’ इत्यादीनामिति यावत् । तथापि स्वार्थे वैफल्यं तेषां विधिस्पर्शमन्तरेणाप्रामाण्ये हेतुरितिशेषः ।

साधनव्याप्तिं प्रत्याह —

आत्मेति ।

तद्विषयस्येत्यात्मज्ञानं तच्छब्दार्थः । शास्त्रस्य स्वार्थे फलवत्त्वात्तत्रैवेति शेषः । एतेन न क्कच्चिदपीत्यादि व्याख्यातम् । अर्थवादाधिकरणस्य विषयभेदं वक्ष्यति । न च मन्त्रवद्वेदान्तानां विधिभिर्वाक्यैकवाक्यत्वं, तेषां दृष्टद्वारा क्रतूपकारित्ववदेषां तदयोगात् , एतदुत्थात्मज्ञानस्य कर्माधिकारविरोधित्वादिति द्रष्टव्यम् ।

ननु वेदान्ता विधिबोधिनः, मानत्वे सति वेदवाक्यत्वात् , संमतवत् । नेत्याह —

न चेति ।

वक्ष्यमाणन्यायेन निषेधवाक्ये व्यभिचारात् , अबाधितानधिगतासन्दिग्धबोधित्वात् , युक्तं विधिस्पर्शं विना स्वार्थे वेदान्तप्रामाण्यमित्यर्थः ।

विध्यसंस्पर्शिनो वेदवाक्यस्य स्वार्थे प्रामाण्यमन्यत्रादृष्टं, निषेधवाक्येऽपि विप्रतिपत्तेरित्याशङ्क्याह —

येनेति ।

शास्त्रप्रामाण्यस्यानुमानगम्यत्वेनेति यावत् ।

अपेक्षेत ।

शास्त्रप्रमाण्यमिति शेषः । न तथा तदनुमानगम्यं स्वारसिकत्वात् । उत्पन्नायां हि प्रमायां शास्त्रस्य तल्लिङ्गेन तज्जनकत्वमनुमेयं, ततस्तदुत्पत्तिरिति स्वीकारे परस्पराश्रयत्वम् । तस्मादनुमानेन ज्ञेयमपि शास्त्रप्रामाण्यं न तद्गम्यत्वेन भवतीति नास्ति दृष्टान्तापेक्षेत्यर्थः ।

वर्णकार्थमुपसंहरति —

तस्मादिति ।

वेदान्तानां प्रामाण्ये विधितुल्यत्वं तच्छब्दार्थः । लौकिकोक्तीनां मानान्तरायत्तानां सिद्धेऽर्थे प्रामाण्यमुपेत्य वेदान्तेषु विना कार्यार्थतामनपेक्षत्वं वा फलवत्त्वं वा न लभ्यमिति मतं, ब्रह्मात्मनो मानान्तरायोग्यत्वेन तद्धीमात्रात्फललाभेन च परास्तम् । सम्प्रति कार्यान्विते शब्दशक्तिनियमान्न सिद्धं वस्तु शाब्दमिति वदतामुपास्तिविधिनिष्ठान्वेदान्तानिच्छतां मतं निरसितुं वर्णकान्तरमारभ्यते । यद्वा, आरोपितब्रह्मत्वस्य जीवस्योपास्तिपरा वेदान्ता न ब्रह्मात्मत्वे मानमिति पक्षं प्रतिक्षिप्य तेषां वस्तुनि मानत्वेऽपि विधिद्वारेति विशेषमाशङ्क्य वर्णकान्तरम् ।