ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते, यावता आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति क्रियापरत्वं शास्त्रस्य प्रदर्शितम्अतो वेदान्तानामानर्थक्यम् , अक्रियार्थत्वात्कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वम् , उपासनादिक्रियान्तरविधानार्थत्वं वा हि परिनिष्ठितवस्तुप्रतिपादनं सम्भवति; प्रत्यक्षादिविषयत्वात्परिनिष्ठितवस्तुनःत्प्रतिपादने हेयोपादेयरहिते पुरुषार्थाभावात्अत एवसोऽरोदीत्इत्येवमादीनामानर्थक्यं मा भूदिति विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’ (जै. सू. १ । २ । ७) इति स्तावकत्वेनार्थवत्त्वमुक्तम्मन्त्राणां इषे त्वाइत्यादीनां क्रियातत्साधनाभिधायित्वेन कर्मसमवायित्वमुक्तम्अतो क्वचिपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टा उपपन्ना वा परिनिष्ठिते वस्तुस्वरूपे विधिः सम्भवति, क्रियाविषयत्वाद्विधेःतस्मात्कर्मापेक्षितकर्तृदेवतादिस्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम्अथ प्रकरणान्तरभयान्नैतदभ्युपगम्यते, तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम्तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते, उच्यते
कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते, यावता आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति क्रियापरत्वं शास्त्रस्य प्रदर्शितम्अतो वेदान्तानामानर्थक्यम् , अक्रियार्थत्वात्कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वम् , उपासनादिक्रियान्तरविधानार्थत्वं वा हि परिनिष्ठितवस्तुप्रतिपादनं सम्भवति; प्रत्यक्षादिविषयत्वात्परिनिष्ठितवस्तुनःत्प्रतिपादने हेयोपादेयरहिते पुरुषार्थाभावात्अत एवसोऽरोदीत्इत्येवमादीनामानर्थक्यं मा भूदिति विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’ (जै. सू. १ । २ । ७) इति स्तावकत्वेनार्थवत्त्वमुक्तम्मन्त्राणां इषे त्वाइत्यादीनां क्रियातत्साधनाभिधायित्वेन कर्मसमवायित्वमुक्तम्अतो क्वचिपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टा उपपन्ना वा परिनिष्ठिते वस्तुस्वरूपे विधिः सम्भवति, क्रियाविषयत्वाद्विधेःतस्मात्कर्मापेक्षितकर्तृदेवतादिस्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम्अथ प्रकरणान्तरभयान्नैतदभ्युपगम्यते, तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम्तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते, उच्यते

वेदान्ता यथोक्ते ब्रह्मणि प्रमाणं न वेति सिद्धार्थज्ञानात्फलभावाभावाभ्यां सिद्धमर्थं रूपादिहीनं बोधयतो वाक्यस्य सापेक्षत्वानपेक्षत्वाभ्यां वा संशये पूर्वाधिकरणद्वितीयवर्णकेनाक्षेपलक्षणां सङ्गतिं विवक्षन्नुत्तरसूत्रव्यावर्त्यपक्षमाह —

कथमिति ।

'सदेव’ इत्यादितत्तदाम्नायाधीतसर्वोपनिषदां स्फुटब्रह्मलिङ्गानां ब्रह्मणि समन्वयसाधनादत्र श्रुत्यादिसङ्गतयः । फलं तु पूर्वपक्षे परिशुद्धब्रह्मबुद्ध्यभावात्तदर्थिनामुपनिषत्स्वप्रवृत्तिः । सिद्धान्ते शुद्धब्रह्मबुद्धिसिद्धौ मुमुक्षूणामुपनिषत्सु यत्नाधिक्यमिति विवेक्तव्यम् । कथमित्याक्षेपे हेतुर्यावतेति ।

‘वायुर्वै क्षेपिष्ठा देवता’ इत्यादयोऽर्थवादा विध्युद्देशार्थवादयोर्मिथोपेक्षणाद्विध्युद्देशेनैकवाक्यतया धर्मे प्रमाणं न वेति संशये पूर्वपक्षयति —

अाम्नायस्येति ।

सर्वस्य वेदस्य विधिनिषेधार्थवादमन्त्रनामधेयात्मकस्य कार्यतच्छेषार्थताध्रौव्यात् , यानि वाक्यानि कार्यं वा तच्छेषं वा नाचक्षीरन् किन्तु शुद्धं सिद्धमर्थमभिदधीरन् , अतदर्थानां तेषामानर्थक्यं - फलवदभिधेयवैधुर्यमतोऽनित्यमनियतं सापेक्षमेवोच्यते वेदस्य प्रामाण्यमित्युक्तत्वात् यथा श्रुतिगृहीतानामर्थवादानां सन्तमसन्तं वा भूतमर्थं वदतां तदुक्त्यैव नैराकाङ्क्ष्यात्कार्याध्याहारासिद्धेः ‘ स एवैनं भूतिं गमयति’ इति विशिष्टार्थावेदनेनैवावसानात् , ‘वायव्यं श्वेतमालभेत’ इत्यनेनैकवाक्यत्वाभावात् , मुख्यार्थसम्भवे प्राशस्त्यलक्षणायोगात् , आख्यायिकात्मनामपि लोके शब्दानां दर्शनात् तेषां फलवदर्थावबोधानियमात् , अध्ययनविधेरक्षरावाप्त्या दृष्टार्थत्वात् , विध्युद्देशस्यापि विशिष्टार्थविधिना चरितार्थत्वात् , मिथोपेक्षाभावादर्थवादानर्थक्यात् , तत्तुल्यमन्त्रादेरपि तथात्वात् , एषां धर्मप्रमापकत्वात् , एतद्युक्तचोदनानामप्रामाण्यात् , अप्रमाणं सर्वो वेद इति प्राप्ते ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’ इति सूत्रेण सिद्धान्तमाह —

क्रियेति ।

'वायव्यं श्वेतमालभेत भूतिकामः’ इत्येवमन्तेन विध्युद्देशेन सह ‘वायुर्वै क्षेपिष्ठा’ इत्याद्यर्थवादानां क्षिप्रदेवतासाध्यं कर्म क्षिप्रमेव फलं दास्यतीति प्राशस्त्यार्थेनैकवाक्यात्वात् तत्र प्रकृतविध्यपेक्षितमर्थंं वदन्तोऽर्थवादादयोऽर्थवन्तः स्युरित्युक्तः, अध्ययनविधेर्दृष्टार्थत्वात् , अक्षरावाप्तेरफलत्वात् , फलवदर्थावसायिताया वेदमात्रस्य वाच्यत्वात् , अर्थवादानां च भूतार्थवेदने फलानवसायात् , आख्यायिकात्मकलौकिकशब्दानामफलत्वस्यानिष्टत्वात् विध्याकाङ्क्षितप्राशस्त्यलक्षणया तदेकवाक्यत्वात् , विधेरेव प्रवृत्तौ प्राधान्येऽपि तदनुग्राहकतया स्तुत्यपेक्षणात् तदेकवाक्यानामर्थवादानां तथैव प्रामाण्यात् मन्त्रादेरपि स्वाध्यायविधिना फलवत्त्वसिद्धेः, विशिष्टार्थबोधिप्रधानवाक्यार्थे प्रामाण्यात् तद्युक्तचोदनानामपि तद्भावात् , युक्तं सर्वस्यैवाम्नायस्य क्रियातच्छेषविषयत्वेन प्रामाण्यम् ।

तदेवं पूर्वोत्तरपक्षाभ्यां शास्त्रमात्रस्य कार्यपरत्वं प्रमाणलक्षणे स्थितमित्यर्थः तथापि वेदान्तेषु किं जातमित्याशङ्क्य यावतेत्यस्यापेक्षितमाह —

अत इति ।

अर्थमात्रदृष्टेरानर्थक्यं फलवदभिधेयराहित्यं, अक्रियार्थत्वात् । कार्यतच्छेषवाचित्वाभावादित्यर्थः ।

अध्ययनविधिविरोधादानर्थक्यमयुक्तमित्याशङ्क्याह —

कर्त्रिति ।

फलसङ्ग्रहार्थमादिपदम् ।

उक्तं हि - ‘क्रत्वर्थकर्तृप्रतिपादनेनोपनिषदां नैराकाङ्क्ष्यम् ‘ इति । कर्मप्रकरणोत्तीर्णोपनिषदां कुतस्तद्विधिशेषतेत्याशङ्क्याह —

उपसनादीति ।

आदिशब्देन श्रवणादयो गृह्यन्ते ।

ननु वेदान्तानां न क्रियाविधिशेषत्वं, उपक्रमोपसंहारैकरूप्यादिलिङ्गैर्ब्रह्मणि तात्पर्यसिद्धेस्तत्राह —

नहीति ।

मानान्तरयोग्ये ब्रह्मणि वेदान्तानां न तात्पर्यम् । तत्संवादेऽनुवादितया तद्विसंवादे च स्पर्शनधीविरोधिचित्रनिम्नोन्नतचाक्षुषधीवद्विरोधादेव तेषामतद्बोधित्वादित्यर्थः ।

परिनिष्ठितेऽर्थे वेदान्ताप्रामाण्ये हेत्वन्तरमाह —

तदिति ।

नहि भूतार्थप्रतिपादने क्कचिद्धानमुपादानं वा, तयोः प्रवृत्तिनिवृत्त्यायत्तत्वात् , तयोश्च विधिनिषेधाधीनत्वात् , तयोरपि कर्यविषययोः सिद्धेऽर्थेऽसम्भवात् । अतस्तद्वादस्याफलत्वात्फलाधीनतात्पर्याभावान्न वेदान्ता भूतेऽर्थे मानम् । न च क्रियानपेक्षं भूतं वस्तु फलं तद्धेतुर्वा, सुखदुःखाप्तिहानितद्धेतुत्वादृष्टेरित्यर्थः ।

मानान्तरसिद्धसिद्धार्थबोधित्वायोगात्तद्बोधस्य चाफलत्वात् । न चेद्वेदान्तास्तत्र प्रमाणं कथं तर्हि तेषामर्थवत्तेत्याशङ्क्यार्थवादाधिकरणसिद्धान्तं स्मारयति —

अत एवेति ।

वेदान्तानां मन्त्रवत्पृथगर्थसम्भवात् किमित्यर्थवादवद्विधिना पदैकवाक्यतेत्याशङ्क्य मन्त्रवदेव तर्हि विधिभिर्वाक्यैकवाक्यता तेषामित्याह —

मन्त्राणां चेति ।

अर्थवादाधिकरणं परिसमाप्य मन्त्रेषु चिन्तावतारिता प्रमाणलक्षणे - ‘इषे त्वा’ इत्यत्र ‘छिनद्‌मि’ इत्यध्याहारेण शाखाच्छेदप्रतीतेः ‘अग्निर्मूर्धा’ इत्यादौ च तद्धेतुदेवतादिदृष्टेः, ‘इषे त्वा’ इत्यादयो मन्त्राः श्रुत्यादिना क्रतौ विनियुक्तविषयाः । ते किमुच्चारणमात्रेणादृष्टं कुर्वन्तस्तत्रोपकुर्वन्ति आहोस्विद्दृष्टेनैवार्थप्रकाशनेनेति संशये मन्त्राणां दृष्टार्थत्वे स्वाध्यायकालसिद्धतदर्थस्य चिन्तादिना स्मृतिसम्भवात् , तावन्मात्रार्थवतां तेषां नित्यवदाम्नानानर्थक्यात् , मन्त्रैरेवार्थप्रत्यायननियमात् , . अदृष्टकल्पने तदुच्चारणादेव पुरुषव्यापारगोचरात्तन्नियोगविषयात्तत्कल्पनस्य युक्तत्वात् उच्चारणमात्रेणादृष्टं कुर्वन्तोऽमी क्रतावुपकुर्वन्तीति पूर्वपक्षमाह - ‘तदर्थशास्त्रादिति । ‘ ‘इषे त्वेति छिनत्ति’ इत्यध्याहारात् क्रियोक्तिसमर्थो मन्त्रस्तत्रैवैनं मन्त्रम् ‘इषे त्वेति शाखामाच्छिनत्ति’ इति शास्त्रं निबध्नात्यर्थोक्त्या क्रतूपकारे तदर्थशास्त्रानर्थक्यात् । तस्मात्तदुच्चारणमात्रेणैव क्रतावुपकारितास्येत्यर्थः । ‘मन्त्रैरेव देवतादि स्मर्तव्यम् ‘ इति नियमस्य दृष्टार्थाभावात् , अदृष्टार्थकल्पनेऽपि मन्त्रोच्चारणस्य तदर्थस्मारकत्वेन दृष्टार्थत्वात् , अर्थस्मृतेश्च प्रयोगार्थत्वात् , प्रयोगाच्च फलोदयात् , दृष्टे सत्यदृष्टकल्पनायोगात् , तदर्थशास्त्रस्य च परिसङ्ख्यार्थत्वात् , दृष्टेनैवार्थप्रकाशनेन मन्त्राणां क्रतूपकारितेति सिद्धान्तमाह - ‘अविशिष्टस्तु वाक्यार्थः’ इति । लोकवेदयोः शब्दानामर्थाविशेषात् , लोके फलवदुच्चारणदृष्टेः वेदेऽपि मन्त्रोच्चारणस्य तथात्वात् , अप्रकाशिते यज्ञे तदङ्गे च यागासिद्धेः, तदर्थयज्ञादिप्रकाशनेन कर्मण्युपकारो मन्त्राणामित्यर्थः । तदेवं वेदान्तानामपि मन्त्रवत्कर्मतद्धेतुवादित्वेन विधिभिर्वाक्यैकवाक्यतया कर्मसमवायित्वं सिद्धवत्कृत्य मन्त्राधिकरणं प्रवृत्तमिति भाष्यार्थः ।

कर्मकाण्डीयमन्त्राणां विधिभिर्वाक्यैकवाक्यत्वेऽपि प्रकरणान्तरस्थवेदान्तानां स्वार्थनिष्ठत्वेनैव प्रामाण्यमित्याशङ्क्याह —

नेति ।

विधिनिषेधार्थवादमन्त्रनामधेयाधिकारान्ग्रहीतुं क्वचिदपीत्युक्तम् ।

अदृष्टापि युक्तिवशादेष्टुं शक्येत्याशङ्क्य न हि परिनिष्ठितेत्यादिनोक्तं मत्वाह —

उपपन्ना वेति ।

'पूषा प्रपिष्टभागः’ इत्यत्र यागाविनाभूतद्रव्यदेवताबुद्ध्या यागविधिकल्पनावद्वेदान्तानामपि स्वार्थे विधिं परिकल्प्यार्थवत्त्वसम्भवे किं कर्मविधिशेषत्वेनेत्यशङ्क्याह —

न चेति ।

'दध्ना जुहोति’ इत्यादाविव सिद्धेऽप्यर्थे विधिः स्यादित्याशङ्क्याह —

क्रियेति ।

तत्र भावार्थस्यान्यतो लब्धत्वात् तदनुवादेन विधेः सङ्क्रान्तत्वात् , विना भावार्थं शुद्धस्य सिद्धस्य विध्यविषयतेति भावः ।

वार्तिककारमतमुपसंहरति —

तस्मादिति ।

तत्रारुचिं सूचयित्वा मतान्तरं निगमयति —

अथेत्यादिना ।

मतद्वयेऽपि संमतमर्थमुपसंहरति —

तस्मान्नेति ।

पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतारयति —

इति प्राप्त इति ।