शास्त्रं शास्त्रकर्तृत्वे सत्यसर्वज्ञत्वानधिकरणकर्तृकं, कार्यत्वात् , घटवदित्यनुमानाद्वेदस्य सर्वकर्तृकतेत्युक्तम् । इदानीं जगद्धेतुत्वेन लक्षिते ब्रह्मणि मानविशेषचिन्तायै वर्णकान्तरमवतारयति —
अथवेति ।
'तं त्वौपनिषदम् ‘ इत्यादि ब्रह्मणः शास्त्रैकगम्यत्वम् । समर्थयेन्न वेति कार्यलिङ्गस्य हेतुविशेषावसानानवसानाभ्यां संशये, विमतं सकर्तृकं, कार्यत्वात् , घटवदिति सिद्धे कर्तरि, तदेकत्वानेकत्वसन्देहे लाघवात्तदैक्यम् । स च ज्ञात्वैव सर्वं करोतीति सर्वज्ञः सर्वशक्तिश्चेत्यनुमानमेव विचार्यमिति प्राप्ते प्रत्याह —
यथोक्तमिति ।
नित्यसिद्धस्य ब्रह्मणः शास्त्रं कारणमित्ययुक्तमित्याशङ्क्याह —
प्रमाणमिति ।
अनुमानादपि लाघवानुगृहीताद्ब्रह्मस्वरूपधीसम्भवात् तत्र शास्रमेव मानमित्याशङ्क्याह —
शास्त्रादिति ।
न तावदप्रत्यक्षं ब्रह्म वह्निवद्विशेषतोऽनुमेयं, कार्यमात्रस्य कर्तृमात्रगमकत्वात् । न च लाघवात्तदैक्यधीः, विचित्रप्रासादादेरनेककर्तृकस्यापि दृष्टत्वेनानिर्णयात् । तथा च कर्तुर्न सर्वज्ञत्वाद्यनुमानलभ्यम् । शास्त्रे तु ‘यतः’ इत्येकवचनात्कर्त्रैक्यसिद्धौ सर्वज्ञत्वादिसिद्धेः शास्त्रैकगम्यं ब्रह्मेति भावः ।
किं तद्ब्रह्मणि प्रमाणं शास्त्रं तदाह —
शास्त्रमिति ।
पूर्वसूत्रे शास्त्रस्योक्तत्वे शास्त्रयोनित्वं पृथङ् न वाच्यमिति शङ्कते —
किमर्थमिति ।
एतत्सूत्रार्थवत्त्वं प्रतिजानीते —
उच्यत इति ।
तत्र शास्त्रस्योक्तत्वेऽपि सूत्रे तद्वाचकाभावाज्जन्मादिलिङ्गकं स्वतन्त्रमनुमानमुक्तमिति शङ्कां निरसितुमिदं सूत्रमिति तदर्थवत्तां समर्थयते —
तत्रेति ।
न च तर्हीदं पूर्वशेषतया तदन्तर्गमान्न पृथक्करणीयम् । तच्छेषत्वेऽपि सर्वज्ञत्वे शास्त्रकर्तृत्वहेतुसमर्थनन्यायभेदादधिकरणान्तरत्वसिद्धेरिति ॥ ३ ॥