ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
शास्त्रयोनित्वात् ॥ ३ ॥
महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्तियद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपि, ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोकेकिमु वक्तव्यम्अनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमादिप्रविभागहेतोः ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्य अप्रयत्नेनै लीलान्यायेन पुरुषनिःश्वासवत् यस्मान्महतो भूतात् योनेः सम्भवःअस्य महतो भूतस्य निःश्वसितमेतत् यदृग्वेदः’ (बृ. उ. २ । ४ । १०) इत्यादिश्रुतेःतस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति

वेदानां नित्यत्वात् , तदकर्तृत्वे विश्वकर्तृत्वायोगात् न तेनास्य सर्वज्ञतेत्याशङ्क्य श्रौतप्रतिज्ञयैव सङ्गतिमाह —

तदेवेति ।

वेदानां नित्यत्वेऽपि ब्रह्मणस्तत्कर्तृत्वसम्भवोक्त्या तदेव जगद्धेतुत्वकृतं सर्वज्ञत्वमत्र दृढीक्रियते । तेन हेतुसाधनद्वारा तदीयसाध्यसाधनात् युक्तास्य श्रौत्या प्रतिज्ञया सङ्गतिरिति भावः ।

‘अस्य महतः’ इत्यादिवाक्यं ब्रह्मणो वेदकर्तृत्वेन सार्वज्ञ्यं न साधयतीति वेदस्य सापेक्षत्वप्रसङ्गाप्रसङ्गाभ्यां सन्देहे, पाणिन्यादिवदर्थं दृष्ट्वा कर्तृत्वे वेदस्य पौरुषेयत्वेन सापेक्षत्वापातात् न साधयतीति प्राप्ते सिद्धान्तमाह —

शास्त्रेति ।

न केवलं जगद्योनित्वादस्य सार्वज्ञ्यं किन्तु शास्त्रयोनित्वादपीति योजना । अत्र च वेदकर्तृत्वोक्तेः, एतदुक्तमानमेयाङ्गीकारेण शास्त्रप्रवृत्तेः, अस्येत्यादिस्पष्टब्रह्मलिङ्गवाक्यस्य सर्वज्ञे ब्रह्मणि समन्वयोक्तेश्च श्रुत्यादिसङ्गतयः । फलं तु पूर्वपक्षे ब्रह्मणः सर्वज्ञत्वानिर्धारणमुत्तरत्र तन्निर्धारणमिति द्रष्टव्यम् ।

शास्त्रयोनित्वस्य सर्वज्ञताहेतुत्वं वक्तुं शास्त्रं विशिनष्टि —

महत इत्यादिना ।

चातुर्वर्ण्यचातुराश्रम्यादिमहाविषयत्वान्महदृगादिशास्त्रम् । न केवलं महाविषयत्वेनास्य महत्त्वं किन्त्वनेकाङ्गोपाङ्गोपकरणतयापीत्याह —

अनेकेति ।

पुराणन्यायमीमांसाधर्मशास्त्राणि व्याकरणादिषडङ्गानि च दश विद्यास्थानानि । तैस्तत्तद्द्वारोपकृतस्येति यावत् । एतेन शिष्टसङ्ग्रहादप्रामाण्यशङ्कापि शास्त्रस्यार्थादपास्ता । पुराणादिप्रणेतारो महर्षयस्तथा तथा वेदान्व्याचक्षाणास्तदर्थं चादरेणानुतिष्ठन्तो वेदानादृतवन्तः, तत्कथं तदप्रामाण्यमिति भावः ।

अबोधित्वास्पष्टबोधित्वयोरभावादपि वेदानां प्रामाण्यमित्यह —

प्रदीपवदिति ।

उक्तमुपजीव्य सर्वज्ञत्वोपयुक्तं विशेषणान्तरमाह —

सर्वज्ञेति ।

तत्सदृशस्येति यावत् । सादृश्यं च सर्वज्ञज्ञानस्य सर्वविषयत्ववदुक्तेरपि शास्त्रीयायास्तथात्वम् । कल्पप्रत्ययोऽचेतनत्वात् ।

उक्तविशेषणस्य वेदस्य निःश्वसितश्रुत्या विभक्तत्वहेतूपकृतया ब्रह्मकार्यतेत्याह —

योनिरिति ।

व्यतिरेकमुखेनोक्तं व्यक्तीकुर्वाणः सर्वज्ञत्वं प्रतिजानीते —

न हीति ।

महत्त्वादिविशेषणवत्त्वमीदृशत्वम् ।

तस्य सर्वज्ञादन्यतोऽसम्भवे हेतुं सूचयति —

सर्वज्ञेति ।

तस्यगुणः सर्वाथंज्ञानवत्त्वं तेनान्वितमिदं शास्त्रं, सर्वार्थत्वात् , अतस्तस्योत्पत्तिः सर्वज्ञादेवेत्यर्थः ।

उक्तमनुमानीकर्तुं व्याप्तिमाह —

यदिति ।

महाविषयत्वाद्वेदस्य ब्रह्मज्ञानेन तुल्यार्थत्वभ्रान्तिनिवृत्त्यर्थं विस्तरार्थमित्युक्तम् । यच्छब्दत्रयस्य स ततोऽपीत्युत्तरेण सम्बन्धः । शास्त्रप्रणेतुराप्तत्वार्थं पुरुषविशेषपदम् ।

यो यद्वाक्यप्रमाणप्रणेता स तद्विषयादधिकार्थज्ञानवानिति व्याप्तिभूमिमाह —

यथेति ।

ब्रह्मणः शास्त्रकर्तृत्वेऽपि पाणिन्यादिवदसर्वज्ञत्वं शङ्कित्वोक्तम् —

ज्ञेयेति ।

तस्य ज्ञेयैकदेशविषयत्वं तत्कर्तुरसार्वज्ञ्ये हेतुरित्यर्थः । अपिस्तथात्वसम्भावनार्थः । यद्यस्मात्पाणिन्यादेः सम्भवति स तस्मादधिकार्थज्ञानवानिष्टः । शब्दस्य ज्ञानान्न्यूनार्थत्वाद्यथेदं तथान्यदपि मानभूतं शास्त्रं यस्मादभियुक्तादुत्पद्यते स तस्मादधिकज्ञानवानित्यर्थः ।

उक्तेर्ज्ञानान्न्यूनार्थत्वमिक्षुक्षीरादिमाधुर्यस्यावान्तरवैषम्येऽपि तदाख्यातुं सुशिक्षितोऽपि न शक्ष्यतीति न्यायसिद्धमित्याह —

इति प्रसिद्धमिति ।

व्याप्तिमुक्त्वा विवक्षितमनुमानमाह —

किम्विति ।

शास्त्रस्योक्तविशेषणवतो यस्मान्महतो भूताद्योनेः सम्भवस्तस्य सर्वज्ञत्वाद्यनतिशयमिति किमु वक्तव्यमिति सम्बन्धः । ब्रह्म वेदार्थादधिकार्थज्ञानवत् , तत्कर्तृत्वात् , यो यद्वाक्यप्रमाणकर्ता स तदर्थादधिकार्थज्ञानवान् , यथा पाणिनिः । यद्वा वेदः स्वार्थादधिकार्थज्ञानवज्जन्यः, वाक्यप्रमाणत्वात् , पाणिन्यादिवाक्यवदित्यर्थः ।

शास्त्रहेतोर्ब्रह्मणः सर्वज्ञता पक्षधर्मताबलादिति वक्तुं शास्त्रस्य ग्रन्थतो महत्त्वमाह —

अनेकेति ।

महाविषयत्वेनोक्तं महत्त्वं व्यनक्ति —

देवेति ।

आदिशब्देन वर्णाश्रमधर्मा गृह्यन्ते ।

प्रदीपवत्सर्वार्थावद्योतिन इत्युक्तं प्रकृतोपयोगित्वेनार्थतोऽनुवदति —

सर्वेति ।

यथोक्तं शास्त्रं ब्रह्मणो जायते चेत्तस्य पौरुषेयत्वेनानपेक्षत्वप्रामाण्यहानिरित्याशङ्क्याह —

अप्रयत्नेनेति ।

पौरुषेयत्वं पुरुषनिर्वर्त्यत्वमात्रं वा नूतनानुपूर्वीरचनं वा मानान्तरदृष्टार्थोक्तिरचनं वा । नाद्यः, तवापि पदवाक्यादिषु तुल्यत्वात् । द्वितीये नूतनत्वं क्रमान्यत्वमात्रं वा विसदृशक्रमत्वं वा । नाद्यः, त्वयापि प्रतिपुरुषमुपाधिभेदादुपहितक्रमान्यत्वमात्रस्येष्टत्वात् । न द्वितीयः, मयापि क्रमवैसादृश्यस्यानिष्टत्वात् । न तृतीयः, अनङ्गीकारात् । अतो न पौरुषेयतया सापेक्षतेति भावः ।

अयत्नेन ब्रह्मणो वेदोत्पत्तौ मानमाह —

अस्येति ।

ब्रह्मणोऽनतिशयं महत्त्वं तात्त्विकं च सर्वज्ञतासाधकं, तद्रहिते तदनुपलम्भादिति मत्त्वा महतो भूतस्येति पुनरुक्तम् । यथा दीपादिभासनशक्तेः स्वहेतुवह्निशक्त्यनुमापकत्वं तथा वेदगतसर्वार्थभासनशक्तेरपि स्वाश्रयोपादानस्थसर्वार्थभासनशक्त्यनुमापकतेति समुदायार्थः ।