ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तम् , तदेव द्रढयन्नाह
जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तम् , तदेव द्रढयन्नाह

सूत्रान्तरमवतारयन्पूर्वसूत्रसङ्गतिमाह —

जगदिति ।

सर्वकारणत्वं ब्रह्मलक्षणं सूत्रयता प्रधनादावतिव्याप्तिनिरासाय तद्बललब्धं सर्वज्ञत्वमर्थादुक्तं तदेवात्र साध्यते, तथा चार्थिकप्रतिज्ञयास्य सङ्गतिरित्यर्थः ।