अथेदं सूत्रमुक्तब्रह्मनिश्चायकं न वा । न चेदप्रामाण्यात्तदुक्तलक्षणेऽपि विश्वासो न स्यात् । आद्ये व्यतिरेकिणो लक्षणस्य सूत्रोक्तकार्यलिङ्गकानुमानवन्नानिश्चायकतेति चोदयति —
नन्विति ।
तदेवेत्येवकारेणागमो वा तदनुगुणयुक्तिर्वा न सूत्रितेत्युच्यते । प्रस्तुतानुमानं तदर्थः ।
‘नावेदविन्मनुते’ ‘नैषा तर्केण’ इत्यादिश्रुतेर्वैदिकं ब्रह्मेत्युक्तयुक्त्यनुगृहीतलक्षणाख्यव्यतिरेक्यात्मकागमोक्तिपरं सूत्रमिति परिहरति —
नेत्यादिना ।
कार्यानुमानस्य ‘यतः’ इत्याादिश्रुत्युक्तत्वेऽपि नानुमानात्मना निश्चायकत्वम् । तेन सम्भावनामात्राभिधानादागमात्मना निश्चायकत्वमिति भावः ।
उत्तरसूत्रेष्वपि तुल्यमागमप्राधान्यमिति वक्तुं सूत्राणामित्युक्तम् । सूत्रेषु कुसुमग्रथनवन्न वाक्यग्रथनं मुख्यमित्याशङ्क्याह —
वेदान्तेति ।
तेषामपौरुषेयत्वेन निर्दोषाणां स्वत एव स्वार्थनिर्णायकत्वात् विचारानर्थक्यमित्याशङ्क्याह —
वाक्यार्थेति ।
वाक्यस्य तदर्थस्य च तात्पर्यनिश्चयार्थं सम्भावनार्थं च विचारणा, तस्याश्चाध्यवसानं तदुभयनिश्चयः, तेन निर्वृत्तो ब्रह्मसाक्षात्कारः, तस्माद्विचारोऽर्थवानित्यर्थः ।
विचारावधारितशक्तितात्पर्याभ्यां प्रमापकं शब्दं हित्वा शक्तिमात्रेण प्रमापकं प्रमाणान्तरं ब्रह्मणि लाघवादादेयमित्याशङ्क्याह —
नेति ।
ब्रह्मणस्तदगोचरत्वादित्यर्थः ।
तर्हि शब्दादेव ब्रह्मसिद्धेर्मननविधिर्युक्तिसूत्रणं च कथमित्याशङ्क्याह —
सत्स्विति ।
विमतमभिन्नोपादानाधिष्ठातृकं, कार्यत्वात् , सुखादिवत् । विमतं चेतनप्रकृतिकं, कार्यत्वात् , तद्वदित्याह —
अनुमानमपीति ।
तेषु सत्सु तदपि प्रमाणं भवन्न निवार्यत इति सम्बन्धः ।
विचारसंस्कृतवेदान्तानां स्वार्थबोधित्वसिद्धौ किं तेनेत्याशङ्क्याह —
तदर्थेति ।
तेषामर्थो जगतोऽभिन्ननिमित्तोपादानत्वं तस्य ग्रहणं स्वीकारस्तस्य दार्ढ्यं तदुपयोगिसम्भावनात्मा निश्चयस्तदर्थमनुमानमित्यर्थः ।
विमतं भिन्नोपादानाधिष्ठातृकं, कार्यद्रव्यत्वात् , घटवदित्यनुमानबाध इति चेन्नेत्याह —
वेदान्तेति ।
जगतश्चेतनोपादानतानिमित्तत्ववादिवेदविरोधान्न तेऽनुमानम् । मन्मते तदविरोधात्तदर्थे सम्भावनाहेतुरित्यर्थः ।
जगद्धेतुर्न तर्कगम्यः, वैदिकत्वात् , परिशुद्धवस्तुवदित्याशङ्क्याह —
श्रुत्येति ।
तर्कस्य वस्तुनिश्चयाय श्रुत्यैवेष्टतया साध्यविकलतेत्यर्थः ।
कासौ श्रुतिरित्युक्ते श्रवणातिरेकेण मननं युक्त्यनुसन्धानं विधदतीं श्रुतिमाह —
श्रोतव्य इति ।
न केवलं श्रौतस्तर्कोऽत्रोपयुज्यते किन्तु प्रतिबन्धनिवर्तकत्वेन लौकिकोऽपीत्यत्र श्रुतिमाह —
पण्डित इति ।
उक्तार्थधीसामर्थ्यं पाण्डित्यम् । अनुक्तेऽपि प्रयोजकशिक्षयोत्प्रेक्षाशक्तिर्मेधावित्वम् । यथा कश्चिद्गन्धारदेशेभ्यः समानीय चौरैररण्ये बद्धचक्षुर्निक्षिप्तो देशिकोपदेशतस्तदुक्तस्य साकल्येन ज्ञाता पण्डितः स्वयमूहापोहक्षमो मेधावी गन्धारानेव प्राप्नोति, एवं ब्रह्मणः सकाशादाच्छिद्य विवेकदृशं निरुध्याविद्यादिभिः संसारारण्ये निहितो जन्तुरतिकारुणिकगुरूपदेशतः स्वस्वभावं प्रतिपद्यत इत्यर्थः ।
श्रुतितात्पर्यमाह —
पुरुषेति ।
आत्मनः श्रुतेरित्यर्थः ।
ननु धर्मविदविशेषाद्ब्रह्मापि श्रुत्याद्येवापेक्षते तत्कथं तत्र श्रुतिस्तर्कं सहायीकरोति तत्राह —
नेत्यादिना ।
दृष्टान्ते जिज्ञास्यो धर्मो दार्ष्टान्तिके तादृग्ब्रह्म ग्राह्यम् । श्रुत्यादय इत्यादिशब्देन लिङ्गवाक्यप्रकरणस्थानसमाख्या गृह्यन्ते । तत्र पदान्तरनिरपेक्षः शब्दः श्रुतिः । श्रुतस्यार्थस्यार्थान्तरेणाविनाभावो लिङ्गम् । अन्योन्याकाङ्क्षासन्निधियोग्यतावन्ति पदानि वाक्यम् । वाक्यद्वयसामर्थ्यमारभ्याधीतविषयं प्रकरणम् । क्रमवर्तिनां पदार्थानां क्रमवर्तिभिरर्थैर्यथाक्रमं सम्बन्धः स्थानम् । संज्ञासाम्यं समाख्या । गुणोपसंहारे चैषामुदाहरणानि वक्ष्यन्ते ।
किं तर्हि जिज्ञास्ये ब्रह्मणि प्रमाणान्तरमिति प्रश्नपूर्वकमाह —
किं त्विति ।
अनुभवो ब्रह्मसाक्षात्कारो विद्वदनुभवः । आदिपदमनुमानादिसङ्ग्रहार्थम् ।
श्रुत्यादीनामनुमानादीनां च शब्दशक्तितात्पर्यावधृतिद्वारानुभवमुत्पाद्य ब्रह्मणि प्रामाण्यम् , अनुभवस्य साक्षादेव तदविद्याध्वंसित्वेनेति मत्वोक्तम् —
यथासम्भवमिति ।
वेदार्थत्वाद्धर्मवद्ब्रह्मण्यपि नानुभवः सम्भवतीत्याशङ्क्य तदयोग्यत्वमुपाधिरित्याह —
अनुभवेति ।
न हि ज्ञातेऽपि ब्रह्मण्यनुभवं विना नैराकाङ्क्ष्यमतस्तज्ज्ञानस्यानुभवान्तत्वात्तस्मिन्नसावस्तीत्यर्थः ।
साधनव्याप्तिमाशङ्क्याह —
भूतेति ।
चकारः शङ्कानिरासी ।
ननु कर्मवाक्यानामनुभवानपेक्षफलवज्ज्ञानजनकत्वात् , ब्रह्मवाक्यानामपि वेदप्रमाणत्वात्तादृग्धीजनकत्वं, नेत्याह —
कर्तव्येति ।
धर्मस्यानुभवायोग्यत्वात् , तदनुष्ठानस्य च शाब्दधीमात्रादेव सिद्धेः, धर्मवाक्यानां युक्तमुपाधीजनकत्वम् । ब्रह्मणि त्वनुभवयोग्ये तद्वाक्यानां नैवमित्यर्थः ।
धर्मस्यापि ब्रह्मवदनुभवयोग्यत्वं, वेदार्थत्वात् , इत्याशङ्क्याकार्यत्वुपाधिरित्याह —
पुरुषेति ।
चकारोऽत्रापि शङ्कानिरासी ।
कर्तव्येऽपि तुल्यमसाध्यत्वमित्याशङ्क्य लौकिके वैदिके च कर्मणि साध्यत्वमाह —
कर्तुमिति ।
तत्र लौकिकमुदाहरति —
यथेति ।
तेन सह वैदिकं दृष्टान्तं समुच्चिनोति —
तथेति ।
कर्तुमकर्तुमित्यस्य दृष्टान्तमुक्त्वा कर्तुमन्यथा वा कर्तुमित्यस्य दृष्टान्तमाह —
उदित इति ।
इतोऽपि कर्मणो नानुभवयोग्यतेत्याह —
विधीति ।
'यजेत’ इत्यादयो विधयो ‘न हन्यात्’ इत्यादयो निषेधाश्च कर्मणि सावकाशाः । तेन साध्यत्वादनुभवयोग्यतेत्यर्थः ।
तत्रैव हेत्वन्तरमाह —
विकल्पेति ।
उदितानुदितहोमार्थो व्यवस्थितो विकल्पः । ग्रहणाग्रहणार्थस्त्वैच्छिकः । ‘न हिंस्यात्सर्वभूतानि’ इत्युत्सर्गः । ‘अग्नीषोमीयं पशुमालभेत’ इत्यपवादः । ते च कर्मणि सावकाशाः । तथा चाव्यवस्थितं कर्मानुभवायोग्यमित्यर्थः ।
ब्रह्मण्यपि तुल्यत्वादव्यवस्थितत्वस्योक्तोपाध्यसिद्धिरित्याशङ्क्याह —
न त्विति ।
प्रकारविकल्पवत्प्रकारिविकल्पं निरस्यति —
अस्तीति ।
वस्तुन्यपि विकल्पा दृष्टा वादिनामित्याशङ्क्याह —
विकल्पनास्त्विति ।
सम्यग्ज्ञानाधीनत्वाद्वस्तुनः, तस्य च पुरुषाधीनत्वात् , वस्त्वपि तथेत्याशङ्क्याह —
न वस्त्विति ।
कथं तर्हि तदुत्पत्तिरित्याशङ्क्याह —
किं तर्हीति ।
पुरुषतन्त्रत्वं निषेद्धुमेवकारः । न मानाधीनत्वं निषिध्यते ।
विकल्पनानां मनःस्पन्दितमात्रत्वेनासम्यग्धीत्वं, सम्यग्धियश्च वस्त्वधीनतेत्यत्र दृष्टान्तमाह —
नहीति ।
आद्यो वाशब्दोऽवधारणे । पुरोवर्तिनि स्थाणावेकस्मिन्नेव स्थाणुरेवेत्यदुष्टकरणस्य धीः, इतरस्य तत्रैव पुरुषो वा स्थाणुर्वेति संशयः । नहि तदुभयमपि सम्यग्ज्ञानम् , एकस्योभयत्वायोगादित्यर्थः ।
कथं तर्हि विभागधीस्तत्राह —
तत्रेति ।
स्थाणुः सप्तम्यर्थः ।
उक्तन्यायं सञ्चारयति —
एवमिति ।
दार्ष्टान्तिकमाह —
तत्रेति ।
विकल्पनानां बुद्धिजन्यत्वेनावस्त्वनुसारिणीनामसम्यग्धीत्वे, सम्यग्धियश्च वस्त्वनुसारित्वे पूर्वोक्तन्यायेन स्थिते सतीति यावत् । न पुरुषतन्त्रमित्येवकारार्थः । ततो न धीद्वारा वस्तुनोऽपि तदधीनतेति शेषः ।
ब्रह्मज्ञानस्य वस्त्वधीनत्वेन सम्यग्धीत्वे हेतुमाह —
भूतेति ।
परमार्थवस्त्ववगाहित्वादित्यर्थः ।
ब्रह्मणः सिद्धत्वेनासाध्यतया धर्मवैधर्म्यादनुभवयोग्यत्वात्तत्रानुभवापेक्षा युक्त्यनुप्रवेशश्चेत्युक्तम् । इदानीं ब्रह्मणि प्रमाणान्तरप्रवेशे जन्मादिसूत्रमनुमानोपन्यासार्थमित्यनुमतमिति शङ्कते —
नन्विति ।
सिद्धत्वाद्ब्रह्मणो धर्मवैजात्येऽपि मानान्तरगम्यतेत्यनुमानादिविचारं हित्वा वाक्यमात्रविचारोऽयुक्तः, ब्रह्मण्युभयप्रवेशाविशेषात् । अतः सूत्राणां वेदान्तवाक्यग्रथनार्थत्वमसिद्धमित्यर्थः ।
ब्रह्मणि सम्भावनाहेतुश्रुत्यनुगुणानुमानादिप्रवेशात् , गुणतया तद्विचारस्यापीष्टत्वात् , प्राधान्येन वेदान्तवाक्यग्रथनार्थता सूत्राणामिति समाधत्ते —
नेत्यादिना ।
मानान्तरमपि करणमेव ब्रह्मप्रमिताविति पक्षे प्रत्यक्षमनुमानादि वा तदितिविकल्प्य दूषयति —
इन्द्रियेति ।
ब्रह्मणि करणत्वेन मानान्तराप्रवेशादिति शेषः ।
‘पराञ्चि - ‘ इत्यादिश्रुत्या प्रत्यक्षाविषयत्वं ब्रह्मणो विवृणोति —
स्वभावत इति ।
सम्बन्धाग्रहणादित्युक्तं व्यनक्ति —
सति हीति ।
ननु ब्रह्मसम्बद्धमिदं कार्यमिति धिया किं स्यात् , कार्यमेव गृह्यमाणं ब्रह्म ज्ञापयिष्यति, नेत्याह —
कार्येति ।
तन्मात्राद्धेतुमात्रं सिध्यति न सत्यज्ञानादिरूपं ब्रह्म । तत्त्वागमादेव ज्ञेयमित्यर्थः ।
श्रौतार्थे सामान्यद्वारा सम्भावनाहेतुर्मानान्तरमिति युक्ता सूत्राणां वेदान्तग्रथनार्थतेत्युपसंहरति —
तस्मादिति ।
बहुत्वाद्वेदान्तानामेतदधिकरणविषयबुभुत्सया पृच्छति —
किं पुनरिति ।
जिज्ञास्यं लक्षितं ब्रह्म सप्तम्यर्थः ।
विशिष्टाधिकारिणो ब्रह्मज्ञातुकामस्य जगत्कारणत्वोपलक्षणानुवादेन ब्रह्मप्रतिपादकं वाक्यं सोपक्रममाह —
भृगुरिति ।
ननु प्रकृष्टप्रकाशश्चन्द्र इति स्वरूपलक्षणादृते यत्र शाखाग्रं स चन्द्र इत्युपलक्षणमात्राच्चन्द्रस्वरूपादृष्टेः, उपलक्षितस्य स्वरूपलक्षणं वाच्यं तत्राह —
तस्येति ।
ब्रह्मणो जगद्धेतुत्वानुवादेन स्वरूपनिर्णायकमानन्दत्वविधायि वाक्यम् । ततः सत्यादिवाक्याच्च स्वप्रकाशानतिशयानन्दलक्षणं ब्रह्मेति निर्णेतुं शक्यमित्यर्थः ।
तैत्तिरीयश्रुताविव श्रुत्यन्तरे ब्रह्मणो लक्षणद्वयवादीनि वाक्यानि ‘यः सर्वज्ञः सर्ववित् ‘ ‘विज्ञानमानन्दम् ‘ इत्यादीनि सन्ति, तान्यपीहोदाहरणत्वेन द्रष्टव्यानीत्याह —
अन्यान्यपीति ।
एवंजातीयकत्वमेवाह —
नित्येति ।
तदेवं सर्वासु शाखासु लक्षणद्वयवादिवेदान्तवाक्यानि जिज्ञास्ये ब्रह्मणि समन्वितानीति तद्धिया मुक्तिरयत्नलभ्येत्यर्थः ॥ २ ॥