ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
जन्माद्यस्य यतः ॥ २ ॥
जन्म उत्पत्तिः आदिः अस्य — इति तद्गुणसंविज्ञानो बहुव्रीहिः । जन्मस्थितिभङ्गं समासार्थः । जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च । श्रुतिनिर्देशस्तावत् — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इति, अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात् । वस्तुवृत्तमपि — जन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसम्भवात् । अस्येति प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देशः । षष्ठी जन्मादिधर्मसम्बन्धार्था । यत इति कारणनिर्देशः । अस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति, तद्ब्रह्मेति वाक्यशेषः । अन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम् । यास्कपरिपठितानां तु ‘जायतेऽस्ति’ इत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले सम्भाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशा जगतो न गृहीताः स्युरित्याशङ्क्येत । तन्मा शङ्कि; इति या उत्पत्तिर्ब्रह्मणः, तत्रैव स्थितिः प्रलयश्च, त एव गृह्यन्ते । न यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वा, अन्यतः प्रधानादचेतनात् अणुभ्यः अभावात् संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यम् । न च स्वभावतः, विशिष्टदेशकालनिमित्तानामिहोपादानात् । एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वरकारणवादिनः ॥

'यतो वा इमानि’ इत्यादिवाक्यं ब्रह्म न लक्षयति, लक्षयति वेत्येकस्योभयहेतुत्वासम्भवसम्भवाभ्यां सन्देहे, श्रुतेरनुमानानुगुण्यादेकस्योभयहेतुत्वे दृष्टान्ताभावेनाशक्यानुमानत्वात् , एकतरहेतुत्वस्य लक्षणत्वे वस्तुपरिच्छेदात् , लक्ष्यस्याब्रह्मत्वान्न लक्षयतीति प्राप्ते, पुरुषमतिप्रभवत्वेनानुमानस्य सम्भावितदोषस्य अपौरुषेयत्वेनापास्तदोषागमानुग्राहकतर्कत्वात् , अतीन्द्रयेऽर्थे स्वतोऽप्रामाण्यात् , आगमिकोभयहेतुत्वे सुखादिदृष्टान्तेन सम्भावनामात्रहेतुत्वात् , वस्तुतोऽपरिच्छेदाल्लक्ष्यस्य ब्रह्मत्वसिद्धेर्जगन्निमित्तोपादानं सच्चिदानन्दं ब्रह्मेति लक्षयतीति सिद्धान्तमाह —

जन्मादीति ।

पूर्वाधिकरणेनास्योत्थाप्योत्थापकत्वं सङ्गतिरुक्ता । अधीतिविध्युपादापितोपनिषद्वाक्यस्य स्पष्टब्रह्मलिङ्गस्य लक्षणद्वयवति ब्रह्मणि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसङ्गतयः । पूर्वाधिकरणस्य ब्रह्मलक्षणपरीक्षणात्तत्फलमेव पूर्वोत्तरपक्षयोरत्र फलम् ।

पदच्छेदः, पदार्थोक्तिः, पदविग्रह इति त्रयं व्याख्याङ्गं दर्शयति —

जन्मेति ।

जन्मस्थितिभङ्गं षष्ठ्योच्यते । तद्गुणसंविज्ञान इत्यत्र, तदा बहुव्रीह्यर्थो गृह्यते तस्य गुणत्वेन संविज्ञानं यत्र समासे स तथा । सर्वस्य विशेषणत्वे समासायोगात्तदर्थैकदेशस्तथा । तेन विशेष्यैकदेशं विशेषणं कृत्वा समास इत्यर्थः ।

तत्र फलमाह —

जन्मस्थितीति ।

जन्मादिरस्य स्थित्यादेरित्यतद्गुणसंविज्ञाने स्थितिभङ्गमात्रं जन्मादिशब्दार्थः स्यात् । ततश्चोभयकारणत्वलाभान्नोपलक्षणत्वं सिध्येत् । न च स्थितिलयमात्रहेतुत्वं तथा, जन्महेतोरन्यत्वे लक्ष्यस्य परिच्छेदादब्रह्मत्वात् । अतो जन्मनोऽपि विशेष्यान्तर्भावाद्धर्मजातस्य संहतिप्रधानस्य हेतुर्ब्रह्मेत्युपलक्षणसिद्धिरित्यर्थः । तादृग्धर्मजातं गृहीत्वा नपुंसकप्रयोगः ।

नन्वनादौ संसारे कथमादित्वं जन्मनो गृह्यते तत्राह —

जन्मनश्चेति ।

एतत्सूत्रलक्षितश्रुतौ जन्मादावुच्यते तदपेक्षं सूत्रेऽपि तस्यादित्वमित्यर्थः ।

श्रुत्यापि कथमुक्तमित्याशङ्क्याह —

वस्त्विति ।

वस्तुनो वृत्तं जनित्वा, स्थित्वा, लीयत इति स्वभावः, जन्मना लब्धात्मकस्य स्थित्यादियोगात् । अतो नानादेः संसारस्यादिर्जन्म किन्तु प्रतिवस्तु तस्यादित्वमिति, तदपेक्षं श्रुतिसूत्रयोस्तदादित्वमित्यर्थः ।

श्रुतिनिर्देशं विशदयति —

श्रुतीति ।

अनुकूलो जन्मादित्वस्येति शेषः । तत्र हेतुर्यत इति ।

वस्तुवृत्तं विभजते —

वस्त्विति ।

जन्मादित्वस्यानुगुणं वस्तुवृत्तमिति विवक्षित्वा हेतुमाह —

जन्मनेति ।

इदमः संनिहितवाचित्वात्प्रत्यक्षमात्रपरामर्शित्वमाशङ्क्य प्रतीतिमात्रं संनिधिरिति गृहीत्वा प्रातिपदिकार्थमाह —

अस्येति ।

सर्वस्य जगतो न जन्मास्ति, विजयादेरनादित्वात् , इत्याशङ्क्य वियदधिकरणन्यायेन विभक्त्यर्थमाह —

षष्ठीति ।

जगतो जन्मादेर्वा ब्रह्मासम्बन्धान्न लक्षणतेत्याशङ्क्याह —

यत इति ।

न जगज्जन्मादि वा ब्रह्मलक्षणं किन्तु तत्कारणत्वं तच्चाज्ञाते ब्रह्मणि सम्भावितमित्यर्थः ।

सूत्रपदान्येवं व्याख्याय पूर्वसूत्राद्ब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च वाक्यार्थमाह —

अस्येत्यादिना ।

प्रधानादिहेतुत्वनिरासेन ब्रह्महेतुत्वं सम्भावयितुं कार्यप्रपञ्चं श्रुतिसिद्धं द्वैराश्येन विशिनष्टि —

नामेति ।

तृतीयेत्थम्भावे । घटादौ स्वनामरूपगर्भविकल्पपूर्वकव्याक्रियादृष्टेः जगतोऽपि तथात्वानुमानादचेनाभावकर्तृकत्वमयुक्तम् । विमतं चेतनभावकर्तृकं, नामरूपात्मकत्वात् , घटादिवदित्यर्थः ।

तर्हि चेताना भावाश्च जीवभेदा नामरूपे बुद्धावालिख्य जगज्जनयिष्यन्ति किं ब्रह्मणेत्यशङ्क्याह —

अनेकेति ।

न चान्यतरस्यार्थिकत्वादुभयग्रहणानर्थक्यं, ऋत्विगादीनां कर्तृत्वेऽप्यभोक्तृत्वात् , पित्रादीनां च श्राद्धादौ भोक्तृत्वेऽप्यकर्तृत्वात् । तथा च जीवानामपि स्रष्टव्यकोटिनिवेशाज्जगत्कर्तृत्वायोग्यतेत्यर्थः ।

सेवादिफलवद्व्यवहितफलत्वात् , कर्मफलस्येश्वरप्रदातृकत्वानुमानात् , तदात्मकं जगदीश्वरकर्तृकमित्याह —

प्रतिनियतेति ।

प्रतिनियतानि देशकालनिमित्तानि येषां क्रियाफलानां तदाश्रयो जगत्तस्येति विग्रहः । प्रतिनियतो देशः, स्वर्गफलस्य मेरुपृष्ठम् । ग्रामादेर्भूमण्डलम् । कालोऽपि स्वर्गस्य प्रतिनियतो देहपातादूर्ध्वं, पुत्रफलस्य बाल्यादूर्ध्वम् । निमित्तमपि प्रतिनियतमुत्तरायणमरणादि स्वर्गादेः । ग्रामादेस्तु राजप्रसादादि । न चेदमीदृशं जगदसर्वज्ञो निर्मातुमर्हतीत्यर्थः ।

विचित्रकार्यत्वाच्च जगतो विशिष्टबुद्धिमत्कर्तृकत्वं प्रासादादिवदनुमेयमित्याह —

मनसेति ।

एतेन कर्तुः सर्वशक्तित्वं सम्भावितम् ।

कल्पितकारणत्वेन सजातीयप्रधानादेर्विजातीयाच्च कार्याद्ब्रह्मव्यवच्छेदकतया जगद्धेतुत्वे तटस्थलक्षणे स्थिते ब्रह्मणः स्वरूपलक्षणं विवक्षन्विशिनष्टि —

सर्वज्ञादिति ।

अद्वितीयत्वं, सत्यचिदात्मत्वं, स्वतन्त्रतया निरतिशयसुखत्वं, विशेषणाभ्यां विवक्षितम् ।

नन्वन्येऽपि परिणामादयो विकारा जन्मादीत्यादिग्रहणेन किं न गृह्यन्ते तत्राह —

अन्येषामिति ।

अजातस्यास्थितस्यानष्टस्य च परिणामाद्ययोगात् , तेषां तदधीनत्वात्तद्ग्रहणेनैव ग्रहात् , जन्मस्थितिनाशानामेवात्रोपादानमित्यर्थः ।

ननु निरुक्तकारस्य ‘जायते, अस्ति, वर्धते, विपरिणमते अपक्षीयते, विनश्यति ‘ इति सूत्रं मूलीकृत्य जन्मादिशब्देन षण्णामपि विकाराणां ग्रहणे नान्तर्भावोक्तिक्लेशस्तत्राह —

यास्केति ।

जन्मादिसूत्रस्य नैरुक्तोक्तिमूलतयानेन तदुक्तविकारग्रहे तद्वाक्यस्य पौरुषेयत्वान्मूलमानापेक्षत्वात् , आगमस्य तन्मूलत्वे सूत्रस्यैव तत्सिद्धौ नैरुक्तोक्तिमूलतानर्थक्यादध्यक्षं तदुक्तिमूलं वाच्यं तच्च महाभूतसर्गादूर्ध्वं सम्भावितं भैतिकविकारगोचरं, ततो यथोक्ताध्यक्षाधीननैरुक्तोक्तिमूलत्वे सूत्रस्य जन्मादिषट्कं जगतो यतः तद्ब्रह्मेत्युक्ते भूतपञ्चकस्य भौतिकविकारहेतुत्वात्तदेव ब्रह्मेति लक्ष्येत । न भूतपञ्चकस्य जन्मादयो मूलकारणाद्ब्रह्मणो गृह्येरन् , एतत्सूत्रमूलभूतनैरुक्तसूत्रस्य तदगोचरत्वात् । तस्मान्मूलकारणं ब्रह्म न लक्षितमित्याशङ्कां निरसितुुं ब्रह्मणः सकाशादुत्पत्तिर्या जगतः श्रुता, यौ च तस्मिन्नेव तस्य स्थितिलयौ श्रृतौ ते जन्मादिशब्देन गृह्यन्ते, तेन तद्विषये ‘यतो वा ‘ इत्यादिवाक्ये बुद्धिस्थे जगज्जन्मादिकारणं ब्रह्म लक्षितं भवतीत्यर्थः । न चैवमपि जन्मैव सूत्र्यतां तन्नान्तरीयकतया स्थितिभङ्गं सेत्स्यतीति युक्तं, जन्ममात्रस्य निमित्तादपि सम्भवात् , त्रिभिरस्योपादानतासूचनादन्यत्र स्थितिलयायोगात् । न च लयाधारत्वादेवोपादानत्वे जन्मस्थितिवचनानर्थक्यं, प्रकृतिविकाराभेदेनाद्वैतसिद्धये त्रयाणामादेयत्वात् । अन्यथा ब्रह्मणो जगदुपादानत्वे तदुत्पत्तिस्थित्योरन्योऽधिष्ठाता, कुम्भोद्भवे कुम्भकारवत् , राजस्थेम्नि राजवच्चेत्याशङ्क्येत तन्मा शङ्कीति त्रयाणां ग्रहणमिति भावः ।

युक्तिं विना लक्षणस्यातिव्याप्त्यसमाधेरर्थादनेन सापि सूत्रितेति तामुपन्यस्यति —

नेत्यादिना ।

नामरूपाभ्यामित्यादिनोक्तविशेषणचतुष्टयविशिष्टस्येत्याह —

यथोक्तेति ।

सर्वज्ञं सर्वशक्तिसमन्वितमित्युक्तं स्मारयति —

यथोक्तविशेषणमिति ।

उक्तस्य जगतो नोक्तमीश्वरं मुक्त्वान्यस्मादुत्पत्त्यादि सम्भावयितुं शक्यमिति सम्बन्धः ।

ननु सर्वे विकाराः सुखदुःखमोहसामान्यप्रकृतिकाः, तदन्वितस्वभावात्वात् । ये यदन्वितस्वभावास्ते तत्प्रकृतिकाः यथा मृदन्वितस्वभावाः शरावादयो मृत्प्रकृतिका इत्यनुमानात् , प्रधानाज्जगज्जन्मादि स्यादित्याशङ्क्याह —

न प्रधानादिति ।

तद्ध्यचेतनं जगदनभिज्ञं न तस्योत्पत्त्यादि कर्तुमीष्टे । अन्तर्बहिर्भावेन सुखादीनां पटादीनां चाध्यक्षेण भेदग्रहात् एकार्थज्ञाने चैकस्यैव ज्ञातुः सुखाद्यात्मत्वेन युगपत्तद्ग्रहापाताद्धेत्वसिद्धेर्न प्रधानकारणता रचनानुपपत्त्यधिकरणे चैतद्वक्ष्यतीति भावः ।

सर्वं कार्यद्रव्यं, स्वपरिमाणादणुतरपरिमाणसंयोगसचिवसमानजातीयानेकद्रव्यारब्धं, कार्यद्रव्यत्वात् , घटवदित्यनुमानात् , अणुभ्यो जगज्जन्मादि सम्भावितमित्याशङ्क्याह —

नाणुभ्य इति ।

दीर्घविस्तीर्णदुकूलारब्धरज्जुद्रव्यस्य ह्रस्वस्यापि कार्यद्रव्यत्वेनानैकान्त्यात् , वैशेषिकाधिकरणे चाणुकारणतानिराकरणात् , न तेभ्यो जगज्जन्मादीत्यर्थः ।

शून्यवादिनस्तु सर्वं कार्यम् , अभावपूर्वकं योग्यत्वे सत्यदृष्टपूर्वावस्थत्वात् , परकीयात्मवदिति व्यतिरेकिणा शून्यस्य जगद्धेतुतामाहुस्तान्प्रत्याह —

नाभावादिति ।

घटस्य पूर्वावस्था मृदध्यक्षेति हेत्वसिद्धेर्न शून्यस्य जगद्धेतुतेत्यर्थः ।

केचित्तु हिरण्यगर्भं संसारिणमेव आगमाज्जगद्धेतुमाचक्षते तान्प्रत्युक्तम् —

न संसारिणो वेति ।

आगमस्य वेदविरुद्धत्वे प्रामाण्यायोगान्नासौ जगद्धेतुरित्यर्थः ।

स्वभाववादं व्युदस्यति —

न चेति ।

उत्पत्त्यादि जगतः सम्भावयितुं न शक्यमिति सम्बन्धः । स्वभावादुत्पद्यत इति स्वयमेव स्वस्य निमित्तमिति वा निमित्तानपेक्षमिति वा विवक्षितम् । नाद्यः, स्वाश्रयत्वात् । न द्वितीयः, भावाभावयोरनिमित्तत्वे यौगपद्यापातात् । स्वतःसिद्धसामर्थ्यानां चार्थानां अन्योन्योपकार्योपकारकत्वस्याध्यक्षत्वादित्यर्थः ।

उक्तलक्षणव्यतिरेक्यनुमानादेवोक्तयुक्तिसहिताद्ब्रह्मणोऽस्तित्वादिसिद्धेः, शास्त्रयोनित्वाद्यधिकरणवैयर्थ्यमित्यशङ्क्याह —

एतदेवेति ।

युक्तिमदुक्तलक्षणमेव स्वतन्त्रमनुमानं सद्विशिष्टेश्वरनिश्चायकमिति यद्वैशेषिकादिमतं तदयुक्तम् । लक्षणं हि युक्तिमदपि सिद्धस्य ब्रह्मणः सजातीयादिव्यावर्तकं न तु तदीदृशमिति तत्स्वरूपनिश्चायकम् । कार्यलिङ्गकानुमानं च कारणसत्तामात्रे पर्यवस्यत्तदेकत्वादौ तटस्थम् । न च तदैक्यासिद्धौ तदीयं सर्वज्ञत्वादि ज्ञातुं शक्यम् । सोऽयं जगद्धेतौ नानात्वैकत्वस्पर्शी संशयो लाघवादुत्कटैककोटितां नीतो मूलकारणे विशिष्टे ब्रह्मणि सम्भावनेत्युच्यते । सम्भाविते तस्मिन्प्रमाणावकाशात् , उत्तराधिकरणार्थवत्तेति भावः ।