प्रथमसूत्रेण शास्त्रारम्भमुपपाद्य तदारभमाणो जन्मादिसूत्रस्य पातनिकामाह —
ब्रह्मेति ।
जिज्ञासापदस्यावयवार्थत्यागेनान्तर्णीतविचारार्थत्वमुपेत्य ब्रह्मज्ञातुकामेनेदं शास्त्रं ज्ञातव्यमित्युक्तमित्यर्थः ।
ब्रह्मणो जिज्ञास्यत्वोक्त्यार्थात्प्रमाणादिविचाराणां प्रतिज्ञातव्येऽपि ब्रह्मप्रमाणं ब्रह्मयुक्तिरित्यादिविशिष्टविचाराणां विशेषणवत्यपेक्षत्वादादौ ब्रह्मस्वरूपं वाच्यमित्याह —
किंलक्षणमिति ।
श्रौतस्य ब्रह्मणः श्रौतलक्षणद्वयावेदकं सूत्रं सूत्रकारं पूजयन्नवतारयति —
अत इति ।