ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
त्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात्यदि प्रसिद्धं जिज्ञासितव्यम्अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमितिउच्यतेअस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम्ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृंहतेर्धातोरर्थानुगमात्सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिःसर्वो ह्यात्मास्तित्वं प्रत्येति, नाहमस्मिइतियदि हि नात्मास्तित्वप्रसिद्धिः स्यात् , सर्वो लोकःनाहमस्मिइति प्रतीयात्आत्मा ब्रह्मयदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम्; तद्विशेषं प्रति विप्रतिपत्तेःदेहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्नाःइन्द्रियाण्येव चेतनान्यात्मेत्यपरेमन इत्यन्येविज्ञानमात्रं क्षणिकमित्येकेशून्यमित्यपरेअस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरेभोक्तैव केवलं कर्तेत्येकेअस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित्आत्मा भोक्तुरित्यपरेएवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तःतत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत, अनर्थं चेयात्तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते ॥ १ ॥
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
त्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात्यदि प्रसिद्धं जिज्ञासितव्यम्अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमितिउच्यतेअस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम्ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृंहतेर्धातोरर्थानुगमात्सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिःसर्वो ह्यात्मास्तित्वं प्रत्येति, नाहमस्मिइतियदि हि नात्मास्तित्वप्रसिद्धिः स्यात् , सर्वो लोकःनाहमस्मिइति प्रतीयात्आत्मा ब्रह्मयदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम्; तद्विशेषं प्रति विप्रतिपत्तेःदेहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्नाःइन्द्रियाण्येव चेतनान्यात्मेत्यपरेमन इत्यन्येविज्ञानमात्रं क्षणिकमित्येकेशून्यमित्यपरेअस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरेभोक्तैव केवलं कर्तेत्येकेअस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित्आत्मा भोक्तुरित्यपरेएवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तःतत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत, अनर्थं चेयात्तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते ॥ १ ॥

बन्धमिथ्यात्वेन सिद्धेऽपि विषयादौ विधान्तरेण तदाक्षिप्य समाधातुं वर्णकान्तरमवतारयन्नादावाक्षिपति —

तदिति ।

प्रागेव जिज्ञासायास्तद्ब्रह्म कुतश्चिज्ज्ञातमज्ञातं वेति विकल्पार्थः । आद्ये शास्त्राप्रतिपाद्यतया नास्य ब्रह्म विषयः, अनन्यलभ्यत्वाभावात् । अतोऽनेनानवगमान्नास्य फलमपि तदवगतिरिति विषयाद्यसिद्धिरित्याह —

यदीति ।

यन्न कदाचिदपि केनचिदाकारेण बुद्धावारोहति तस्य प्रतिपाद्यत्वेऽशक्यप्रतिपाद्यतया न शास्त्रेण सम्बन्धः, अप्रतिपाद्यत्वे तदवगतिर्न फलमपीति सम्बन्धाद्यसिद्ध्या द्वितीयं दूषयति —

अथेत्यादिना ।

ब्रह्मणः सामान्यतो ज्ञातस्य विशेषतो विना विचारमज्ञानाद्विचारयोग्यतेति त्रितयमपि समाधत्ते —

उच्यत इति ।

तत्र प्रसिद्धत्वोक्त्या ब्रह्मणः शक्यप्रतिपाद्यतया सम्बन्धं साधयति —

अस्तीति ।

प्रसिद्धत्वमस्तित्वम् , प्रसिद्धमप्रसिद्धं वेत्यधिकारात् , ब्रह्मणो निरुपाधिकं रूपमाह —

नित्येति ।

कार्यैक्यव्यावृत्त्यै नित्यपदम् ।

तत्तादात्म्यं व्यासेद्धुम् —

शुद्धेति ।

अखण्डजाड्यस्वाभाव्यं व्यावर्तयति —

बुद्धेति ।

तादृग्जाड्यैक्याभासेनाध्यस्तचैतन्यं व्युदस्यति —

मुक्तेति ।

मोक्षावस्थायामेव नित्यत्वादीत्याशङ्क्याह —

स्वभावमिति ।

भानाभानकृता मुक्तिबन्धयोर्भेदबुद्धिरिति भावः ।

सोपाधिकं ब्रह्मरूपमाह —

सर्वज्ञमिति ।

ननु न सामान्येनापि लोके ब्रह्म ज्ञातं, तस्योक्तरूपस्याध्यक्षाद्यगम्यत्वात् । नापि श्रुत्या तद्धीः, तद्गतब्रह्मशब्दस्याज्ञातसङ्गतित्वात् , अत एव न पदमात्रादपि तद्धीः, तत्राह —

ब्रह्मेति ।

श्रुतिसूत्रयोर्ब्रह्मशब्दोऽन्यथानुपपन्नो निगमाद्यनुगृहीतो विशिष्टवाक्यार्थान्वयिपदार्थाकाङ्क्षानुगृहीतश्च नियतपदार्थधीहेतुतया विशिष्टेऽपि ब्रह्मणि सम्भावनाहेतुरिति युक्ता तस्य प्रसिद्धिरित्यर्थः ।

बृंहतिधात्वालोचनायामपि तत्प्रसिद्धिरित्याह —

बृंहतेरिति ।

सङ्कोचकप्रकरणोपपदाभावे वृद्धिकर्मणो बृंहतिधातोर्निरङ्कुशमहत्त्वबोधितत्वात् , अवच्छेदत्रयशून्यत्वसिद्धेर्नित्यपदस्य तत्परत्वात् , दोषभूयिष्ठत्वाद्यभावेन शुद्धत्वात् , अजडत्वेन बुद्धत्वात् , अविद्याद्यपरतन्त्रतया मुक्तत्वात् , कुतश्चिदप्यव्यावृत्तज्ञानशक्तितया सर्वज्ञतादिसिद्धेः, धात्वर्थानुरोधादेवोक्तब्रह्मसिद्धिः, नित्यत्वादिशून्ये निरङ्कुशमहत्त्वायोगात् । तथाच पदशक्तेरेव प्रसिद्धं ब्रह्मेत्यर्थः ।

तत्पदार्थस्य नित्यत्वादिना प्रसिद्धिमुक्त्वा त्वम्पदार्थात्मनापि प्रसिद्धिमाह —

सर्वस्येति ।

आत्मापि प्रत्यक्षाद्यगोचरत्वात्प्रसिद्धो नेत्याशङ्क्याह —

सर्वो हीति ।

प्रमाणाप्रमाणसाधारणीं प्रतीतिमप्रतीतिनिरासेन स्फोरयति —

न नेति ।

अहमस्मीति न न प्रत्येति किं तु प्रत्येत्येवेति योजना ।

आत्मनः शून्यस्यैव प्रतीतेर्नास्तित्वप्रसिद्धिरिति शून्यवादमाशङ्क्याह —

यदीति ।

आत्मनः शून्यस्य प्रतीतावहं नास्मीति प्रतीतिः स्यात् , सर्वश्च लोकोऽहमस्मीति प्रत्येति अतस्तदस्तित्वधीरित्यर्थः ।

आत्मप्रसिद्धावपि कथं ब्रह्मप्रसिद्धिस्तत्राह —

आत्मा चेति ।

चैतन्याविशेषात् ‘अयमात्मा ब्रह्म’ इत्यादिश्रुतेश्च ब्रह्मात्मनोरैक्यमित्यर्थः ।

प्रसिद्धत्वोक्त्या सम्बन्धादौ सिद्धे तत्पक्षोक्तं दोषं स्मारयति पूर्वपक्षी —

यदीति ।

व्यवहारभूमौ विना विचारमात्मत्वेन ब्रह्म यदि प्रसिद्धमस्ति तर्हि ततो लोकादेव ज्ञातं ब्रह्मेत्यनन्यालभ्यत्वेन शास्त्राविषयत्वात् , तदवगतेश्चाफलत्वात् , पुनरपि प्राप्तमजिज्ञास्यत्वमिति योजना ।

‘धर्मं प्रति विप्रतिपन्ना बहुविदः’ इतिन्यायेन परिहरति —

नेत्यादिना ।

आत्मनः अहमिति प्रत्यात्मं प्रसिद्धत्वेऽपि तद्विशेषे विप्रतिपत्तेः, तस्या वस्तुतो ब्रह्मविषयतया सामान्येन सिद्धमपि तद्विशेषतोऽसिद्धेः, तद्धेतोः शास्त्रस्य भवति विषयः । भवति च तदवगतिस्तत्फलम् । सामान्यतः सिद्धत्वाच्च विशेषतः शक्यं प्रतिपादयितुमिति सम्बन्धसिद्धिरिति युक्ता ब्रह्मजिज्ञास्यतेति भावः ।

विप्रतिपत्तीरेव दर्शयन्नादौ स्थूलदृशां मतमाह —

देहेति ।

देहातिरिक्तं चैतन्यं स्वतन्त्रमस्वतन्त्रं वा नास्ति देहाकारपरिणतभूतचतुष्टयान्तर्भूतमेव तदिति मात्रचो ग्रहणम् । मृतदेहव्यावृत्त्यर्थं चैतन्यविशिष्टमित्युक्तम् । आत्मेत्यहमालम्बनमुच्यते । प्राकृताः शास्त्रासंस्कृतधियो दृष्टमात्रा विकल्पितप्रवृत्तयो जना जन्ममरणमात्रधर्माणः, लोकायतिका भूतचतुष्टयतत्त्ववादिनः । देहस्त्वगिन्द्रियस्यानपेक्षमधिकरणं तत्र मनुष्योऽहमिति बुद्धेरात्मतेत्यर्थः ।

सत्यपि देहे नेत्रादौ चासति स्वापादौ स्वरूपाद्यज्ञानात् , तेषामिन्द्रियानुविधानात् , चैतन्यदृष्टेस्तेषु चाहम्बुद्धेस्तेषामेवात्मतेति पक्षान्तरमाह —

इन्द्रियाणीति ।

न च तेष्वनेकेषु भोगायोगः, वरगोष्ठीवन्मिथो गुणप्राधान्यात्क्रमेण तद्योगात् । न च नानात्वे प्रत्यभिज्ञानुपपत्तिः । एकदेहाश्रितत्वेनोपपत्तिरिति भावः ।

स्वप्ने नेत्राद्यभावेऽपि केवले मनसि ज्ञानदृष्टेः, अहन्धियश्च तस्मिन्नवैकल्यात् , इन्द्रियानुविधानस्य च रूपादिधियां तदधर्मत्वेऽपि तत्करणत्वादुपपत्तेः, एकदेहस्थत्वेन प्रत्यभिज्ञायामेकप्रासादस्थानामपि तत्प्रसङ्गान्मन एवात्मेति मतान्तरमाह —

मन इति ।

लोकायतमतभेदानुक्त्वा योगाचारमतमाह —

विज्ञानेति ।

आश्रयं व्यावर्तयितुं मात्रपदम् । सिद्धान्ताद्विशेषार्थं क्षणिकमिति । देहादेर्ज्ञेयत्वाद्धटतुल्यत्वात् , मनसोऽनन्तरबुद्ध्यनतिरेकात् , आश्रयान्तरस्यादृष्टत्वात् , क्षणिकज्ञानेष्वपि सादृश्यात्प्रत्यभिज्ञानात् , बन्धमोक्षयोः सन्तानाश्रयत्वात् , युक्तं योगाचारमतमित्यर्थः ।

माध्यमिकमतमाह —

शून्यमिति ।

स्वापे धियोऽप्यभावात् , अकस्मात्पुनरहमित्युदयात् , असदालम्बनाऽहन्धीरित्यर्थः ।

तार्किकादिमतमाह —

अस्तीति ।

शून्यातिरिक्तमस्तित्वम् , अहमस्मीत्यनुभवात् , तदालम्बनस्यात्मत्वात् तस्य प्रत्यभिज्ञयास्थायित्वात् , तस्याश्चाभ्रान्तितया सादृश्यानधीनत्वात् , अविकारस्य क्रियाफलत्वायोगात् , क्रियावेशात्मत्वात्कर्तृत्वस्यैवमात्मत्वाच्च संसारस्यात्मनो युक्तैवंरूपतेत्यर्थः ।

साङ्ख्यमतमाह —

भोक्तेति ।

करोमि, जानामीति धियोऽहङ्कारानुगमात् , केवलात्मायोगात् , भोगस्य चिदवसानत्वात् , तद्रूपात्मनो युक्ता यथोक्तरूपतेत्यर्थः ।

त्वमर्थे विवादद्वारा तदर्थे तं सूचयित्वा साक्षादेव तत्र विवादमाह —

अस्तीति ।

देहाद्यतिरिक्ताद्भोक्तुरप्यतिरिक्तत्वं तद्व्यतिरिक्तत्वं, तत्समर्थनार्थं सर्वज्ञ इत्यादिविशेषणम् ।

स्वपक्षमाह —

आत्मेति ।

स हीश्वरो भोक्तुः स्वरूपम् । बृंहत्यर्थान्वयेन स्वतोऽनवच्छिन्नत्वस्योक्तत्वाच्चैतन्ये भेदायोगात् , ऐक्यश्रुतेश्चेश्वरस्याताटस्थ्यादिति भावः ।

विप्रतिपत्तीरुपसंहरति —

एवमिति ।

मानयुक्ती विना विवादमात्रान्न पूर्वपक्षतेत्याशङ्क्याह —

युक्तीति ।

अन्त्यपक्षवादिनो युक्तिवाक्याश्रया अन्ये तदाभासाश्रया इत्युत्तराधिकरणेषु व्यक्तीभविष्यति ।

तथापि यस्य यस्मिन्पक्षे श्रद्धा स तमाश्रित्य स्वार्थं साधयिष्यति किं विचारेणेति तत्राह —

तत्रेति ।

विवादः सप्तम्यर्थः । मिथो विरुद्धधीषु कस्याश्चित्तत्वधीत्वात् , तस्या विचारसाध्यत्वात्तद्धीनस्तत्त्वधीवैधुर्यान्न पुमर्थभागित्यर्थः ।

किञ्चाविचारे तत्त्वाज्ञानात् , नास्तिकत्वे ‘ये के चात्महनो जनाः’ इति श्रुतेः, श्रुत्यर्थबहिर्मुखोऽनर्थं गच्छेदित्याह —

अनर्थं चेयादिति ।

सूत्रतात्पर्यमुपसंहरति —

तस्मादिति ।

विषयादिसत्त्वं तदर्थः । ब्रह्मजिज्ञासोपन्यासमुखेन विशिष्टा मीमांसा स्तूयत इति सम्बन्धः । विशिष्टज्ञानेच्छोक्तिव्याजेन विचारारम्भपरं सूत्रम् । न हीच्छा ज्ञानं वा साक्षात्कर्तव्यम् । तथा चेष्यमाणज्ञानोपायविचारकार्यतार्थं सूत्रमित्यर्थः ।

किमुपकरणा सेति तत्राह —

तदविरोधीति ।

तेषां वेदान्तानामविरोधिनस्तर्का मीमांसायां न्याये च वेदप्रामाण्यशुद्ध्याद्युपयोगिनो यस्या उपकरणं सा तथा । मीमांसायास्तर्कत्वेऽपि तर्कान्तराणामुपकरणतेति भावः ।

किम्प्रयोजना सेत्यत आह —

निःश्रेयसेति ।

ब्रह्मज्ञानद्वारेति शेषः ॥ १ ॥