ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
ज्ञातुमिच्छा जिज्ञासाअवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म, फलविषयत्वादिच्छायाःज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्मब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात्तस्माद्ब्रह्म जिज्ञासितव्यम्

जिज्ञासापदस्यावयवार्थमाह —

ज्ञातुमिति ।

ब्रह्मणि ज्ञाते तज्ज्ञानस्याप्तत्वात् , तदिच्छायोगात् , अज्ञातविशेषणाज्ञानात् तज्ज्ञानेच्छासिद्धेर्न जिज्ञासेत्याशङ्क्याह —

अवगतीति ।

ज्ञानावगत्योरैक्यात्कथं भेदकतेत्याशङ्क्य हेतुफलभावेनेत्याह —

ज्ञानेनेति ।

ब्रह्मावगतेरपीष्टानिष्टप्राप्तिहानितद्धेतुत्वाभावात् , नेष्टत्वमित्याशङ्क्योक्तम् —

ब्रह्मेति ।

पुमर्थत्वे तस्या हेतुं हिशब्दसूचितं विशदयति —

निःशेषेति ।

समस्तसंसारबीजमनादिरविद्या तस्याः, तामादित्वेनादाय प्रवृत्तानर्थस्य च तस्यैव संसारस्योक्तावगत्या ध्वस्तेरिति यावत् ।

सूत्राक्षरव्याख्यामुपसंहरति —

तस्मादिति ।

विशिष्टाधिकारिसत्त्वं तदर्थः । ब्रह्मज्ञातुकामेन ब्रह्म विचारयितव्यम् । इदं शास्त्रं श्रोतव्यमित्यर्थः ।