अथातःपदे व्याख्याय ब्रह्मजिज्ञासापदस्य वृत्तिकाराभीष्टचतुर्थीसमासनिरासेन षष्ठीसमासमाह —
ब्रह्मण इति ।
अवयवार्थस्येच्छायाः कर्मप्रयोजनयोरैक्यात्कर्मणः स्वरूपसाधकत्वेन प्राधान्यात्कर्मणिषष्ठीसमासः । तादर्थ्यसमासे प्रकृतिविकृतिग्रहणस्य कर्तव्यत्वात् , तथाभूतयूपदार्वादौ तद्दृष्टेः, अश्वघासादौ षष्ठीसमासाङ्गीकारात् । न च धर्माय जिज्ञासेतिवदिहापीति वाच्यं, षष्ठीसमासस्यैव तत्रापीष्टत्वात् । उक्तं हि - ‘सा हि तस्य ज्ञातुमिच्छा’ इति । न चात्र प्रकृतिविकृतित्वं षष्ठीसमासेऽपि ब्रह्मप्राधान्यमार्थिकं तस्मादवयवार्थे षष्ठीसमासोऽयुक्त इति भावः ।
किं तद्ब्रह्म यत्कर्मत्वेन फलत्वेन च जिज्ञासाया विवक्षितं तदाह —
ब्रह्मेति ।
यतो ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मलक्षणं वक्ष्यत्यतो वृत्तिकारप्रयासो वृथेत्याह —
अत एवेति ।
आदिशब्देन जीवकमलासनशब्दराशीनां ग्रहणम् । वृत्त्यन्तरे शेषे षष्ठी व्याख्याता तत्राह —
ब्रह्मण इतीति ।
जिज्ञासापदस्याकारप्रत्ययान्तत्वेन कृद्योगात् ‘कर्तृकर्मणोः कृति’ इतिसूत्रात्कर्मण्येषा षष्ठी । न च ‘कर्मणि च’ इति सूत्रे षष्ठ्याः समासनिषेधात् ब्रह्मजिज्ञासेति समासासिद्धिः, ‘उभयप्राप्तौ कर्मणि’ इति सूत्राद्या षष्ठी कर्तृकर्मणोरुभयोरपि सामर्थ्यादुपादानप्राप्तौ कर्मण्येवेति नियमिता, तस्या एव समासनिषेधात् । यथाह - ‘उभयप्राप्तौ कर्मणि’ इत्यस्याः षष्ठ्या इदं ग्रहणमिति । प्रकृते नोभयप्राप्तिः, ब्रह्मणः कर्मत्वस्यैवेष्टत्वात् , कर्तृस्थातिशयस्याविवक्षितत्वात् । तस्मात् ‘कर्तृकर्मणोः कृति’ इत्येवात्र षष्ठीति ब्रह्मजिज्ञासेति समाससिद्धिरिति भावः ।
परपक्षनिषेधमुक्त्वा हेतुमाह —
नेत्यादिना ।
कर्मादिभ्योऽन्यः प्रातिपदिकार्थातिरिक्तः स्वस्वामिसम्बन्धादिः शेषः, तत्र नैषा षष्ठी किन्तु कर्मण्येव, जिज्ञासाया जिज्ञास्यापेक्षत्वात् । ज्ञानं हीच्छायाः प्रतिपत्त्यनुबन्धः, तदभावे जिज्ञासानिरूपणात् । ज्ञानस्य ज्ञेयं ब्रह्म तद्विना ज्ञानायोगात् । अतः प्रतिपत्त्यनुबन्धत्वात् आदौ जिज्ञासा कर्मैवापेक्षते न सम्बन्धमात्रम् । तेनैषा कर्मण्येव षष्ठीत्यर्थः ।
जिज्ञासाया जिज्ञास्यापेक्षितत्वेऽपि प्रमाणादि जिज्ञास्यमस्तु ब्रह्म तु शेषितया सम्बध्यतामित्याशङ्क्याह —
जिज्ञास्यान्तरेति ।
श्रुतकर्मलाभे नाश्रुतकल्पनेति भावः ।
प्रमाणादिप्रतिज्ञानां श्रौतत्वमभिप्रेत्य शङ्कते —
नन्विति ।
'षष्ठी शेषे’ इति सम्बन्धमात्रे तद्विधानेऽपि व्यवहारस्य विशेषनिष्ठत्वात् , सकर्मकक्रियायां कर्मणोऽन्तरङ्गत्वात् , ब्रह्मणा कर्मणा जिज्ञासानिरूपणं सिध्यतीत्यर्थः ।
एकस्यापि प्रधानस्य श्रौतत्वं न बहूनामपि गुणानामिति समाधत्ते —
एवमपीति ।
प्रत्यक्षं शब्दवाच्यं, प्रथमापेक्षितं वा परोक्षमार्थिकं जघन्यं वा । शेषषष्ठीवादी स्वाभिप्रायमाह —
नेत्यादिना ।
शेषष्ठीपक्षे सामान्येन यत्किञ्चिद्ब्रह्मयोगिमानयुक्त्यादि तत्सर्वं जिज्ञास्यत्वेनोक्तं स्यात् , प्रतिज्ञातव्यं चैतदन्यथा विचार्यत्वायोगात् , अतः सम्बन्धमात्रमेवात्रेष्टम् । सामान्ये विशेषान्तर्भावादित्यर्थः ।
सिद्धान्ती स्वाभिसन्धिमाह —
न, प्रधानेति ।
मानादीनामपि स्वविचारेषु तुल्यं प्राधान्यं नेत्याह —
ब्रह्मेति ।
तथापि ब्रह्मोपास्यमित्युक्ते मानाद्यजिज्ञासावत्प्रकृतेऽपीत्याशङ्क्याह —
तस्मिन्निति ।
अप्रधानानां मुख्यवृत्त्या शब्दोपादानं प्रधानस्यार्थाक्षेपश्चोचितोक्तिसम्भवो नेति भावः ।
उक्तमर्थं दृष्टान्तेन स्फुटयति —
यथेति ।
कर्मणि षष्ठीत्यत्र युक्त्यन्तरमाह —
श्रुतीति ।
एतत्सूत्रमूलश्रुतौ ब्रह्मणः कर्मत्वदृष्टेः, सूत्रेऽपि षष्ठ्या तदेव ग्राह्यमिति भावः ।
कथं कूटस्थस्य ब्रह्मणः श्रुतौ कर्मत्वमुक्तं, तत्राह —
यत इति ।
प्रत्यक्षमिति स्फुटत्वोक्तिः । अविद्याद्वारा तत्कर्मत्वश्रुतिरिति भावः ।
श्रौतेऽपि कर्मत्वे ब्रह्मणः सौत्रं शेषत्वमेव किं न स्यात्तत्राह —
तच्चेति ।
न हि श्रुतिसूत्रयोर्मूलमूलिनोर्विप्रतिप्रत्तिर्युक्तेति भावः ।
षष्ठ्यर्थमुपसंहरति —
तस्मादिति ।