ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
अतःशब्दः हेत्वर्थःयस्माद्वे एव अग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयतितद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इत्यादिः; तथा ब्रह्मविज्ञानादपि परं पुरुषार्थं दर्शयतिब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्यादिःतस्मात् यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
अतःशब्दः हेत्वर्थःयस्माद्वे एव अग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयतितद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इत्यादिः; तथा ब्रह्मविज्ञानादपि परं पुरुषार्थं दर्शयतिब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्यादिःतस्मात् यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या

क्रमप्राप्तमतःशब्दंं व्याकरोति —

अतःशब्द इति ।

अथशब्देन हेतोरुक्तत्वादतःशब्देनायि तस्यैवोक्तौ पुनरुक्तिरित्याशङ्क्य हेतुरूपमर्थमेवाह —

यस्मादिति ।

तस्मादित्युत्तरेण सम्बन्धः । अस्यार्थः - अथशब्देनानन्तर्योक्तिद्वारा पूर्वनिर्वृत्ते ब्रह्मजिज्ञासापुष्कलहेतुचतुष्टये विवक्षितेऽपि तदपवादे शङ्किते तन्निरासेन तद्धेतुत्वमतःशब्देनाथशब्दोक्तहेतुवाचिना व्यवस्थाप्यते । तथाहि - कृतकत्वादेर्ध्वंसादौ व्यभिचारात् ‘अक्षय्यम् ‘ इत्यादिश्रुत्या च विरोधात् अनित्यत्वासाधकत्वात् , अकृतकत्वस्य प्रागभावे व्यभिचारात् नित्यत्वाहेतुत्वात् , भावत्वविशेषणे चाण्वादौ भावात् , आत्ममात्रनित्यत्वासिद्धेः, अपरिच्छिन्नत्वस्य प्रतिदेहं भिन्नेष्वात्मस्वभावात् , विभुत्वविवक्षायामाकाशादिषु भावात् , उक्तदोषान्नित्यानित्यविवेकायोगात् , वैराग्यादेरपि तदभावेऽभावात् , विशिष्टाधिकार्यभावात् , अनारम्भः शास्त्रस्येत्याशङ्क्य तन्निरासेन हेतुचतुष्टयमुपपाद्य तद्धेतुत्वमतःशब्दः साधयति । न हि ध्वंसादौ नित्यत्वं, प्रागभावादावकृतकत्वं, आत्मनो वा परिच्छिन्नत्वम् । ‘यावद्विकारं तु विभागः’ इति न्यायात्‌ । पुण्यस्याक्षय्यफलत्वश्रुतिस्तु वस्तुबलप्रवृत्तानुमानानुगृहीतश्रुतिविरोधेन स्वार्थे मानं अतो विवेकद्वारा वैराग्यादिभावात् , विशिष्टाधिकारिलाभादारभ्यं शास्त्रमिति । आदिशब्दात् ‘अतोऽन्यदार्तम्’ इत्यादिवाक्यं गृह्यते ।

मुमुक्षुत्वस्य हेत्वन्तरमाह —

तथेति ।

यथा कर्मणामनित्यफलत्वं वेदो दर्शयति तथेति यावत् । परमपुरुषार्थं निरस्तसमस्तदुःखं निरतिशयानन्दमित्यर्थः । अत्राप्यादिशब्देन ‘तरति शोकमात्मवित् ‘ इत्याद्युच्यते ।

हेतुचतुष्टयस्य ब्रह्मजिज्ञासासामग्रीत्वे स्थिते परिपूर्णो हेतुरवश्यं कार्यमुत्पादयतीति फलितमुपसंहरति —

तस्मादिति ।