वर्णकद्वयेन सूत्रतात्पर्यमुक्त्वा तत्रावतारितसूत्रस्य सामर्थ्यं दर्शयितुं प्रतिपदं व्याख्यास्यन्नथशब्दस्य वृद्धप्रयोगेऽर्थचतुष्टयसाधारणत्वादभीष्टमर्थमाह —
तत्रेति ।
तेषु सूत्रपदेषु मध्ये योऽथशब्दः स आनन्तर्यार्थ इति योजना । लोकेऽथशब्दस्यार्थचतुष्टये निवेशेऽपि तदर्थोऽत्रानन्तर्यमेवार्थान्तरस्य वक्ष्यमाणरीत्याऽत्रायोगादित्यर्थः ।
नन्वथशब्दोऽधिकारार्थोऽपि लोकवेदयोर्दृष्टः ‘अथैष ज्योतिः', ‘अथ योगानुशासनम् ‘ इति तथेहापीत्याशङ्क्याह —
नाधिकारार्थ इति ।
तत्र हेतुः —
ब्रह्मेति ।
अस्यार्थः - किमयमथशब्दो ब्रह्मज्ञानेच्छायाः किं वा तन्निर्णीतविचारस्य अथवेच्छाविशेषणस्य ज्ञानस्यारम्भार्थः । नाद्यः, तस्या मीमांसाप्रवर्तिकायास्तदप्रवर्त्यत्वादनारभ्यत्वात् , तस्याश्चोत्तरत्र प्रत्यधिकरणमप्रतिपादनात् । न द्वितीयः, अथशब्देनानन्तर्योक्तिद्वारा विशिष्टाधिकार्यसमर्पणे साधनचतुष्टयसम्पन्नानां ब्रह्मधीतद्विचारयोरनर्थित्वाद्विचारानारम्भात् । न च विचारविधिवशादधिकारी कल्प्यः प्रारम्भस्यापि तुल्यत्वात् , अधिकारिणश्च विध्यपेक्षितोपाधित्वात् । न तृतीयः, ब्रह्मज्ञानस्यानन्दसाक्षात्कारत्वेनाधिकार्यत्वेऽप्यप्राधान्यात् , अथशब्दासम्बन्धात् , तस्मान्नारम्भार्थतेति ।
अस्तु तर्हि मङ्गलार्थत्वं नेत्याह —
मङ्गलस्येति ।
न तावद्ब्रह्मजिज्ञासा कर्तव्येति वाक्यार्थे मङ्गलस्य कर्त्रादिभावेनान्वयः, तस्य तथात्वाप्रसिद्धेः कारकान्तराणां च प्रसिद्धेः । न च ब्रह्मजिज्ञासा मङ्गलमिति सामानाधिकरण्यं, प्रशंसात्वेन सूत्रस्यार्थवादत्वापत्तेः, तन्माङ्गल्यस्य च प्रसिद्धत्वात् । न च तदनूद्य तत्कर्तव्यतापरं सूत्रम् । तस्या मङ्गलत्वे कर्तव्यत्वस्यार्थिकत्वात् , अतो न मङ्गलार्थः ।
ननु विघ्नोपशान्तये शिष्टाचाररक्षायै च शास्त्रारम्भे मङ्गलमाचरणीयम् । ‘ओङ्कारश्चाथशब्दश्च’ इत्यादिस्मृतेर्मङ्गलार्थश्चाथशब्दस्तत्राह —
अर्थान्तरेति ।
आनन्तर्यमर्थान्तरं तस्मिन्नेव प्रयुक्तोऽथशब्दः श्रवणमात्रेण वीणाध्वनिवन्मङ्गलहेतुस्तत्फलो भवति, अन्यार्थं नीयमानोदकुम्भोपलम्भवत् । उक्तस्मृतिस्तु मङ्गलफलत्वविषयेत्यर्थः । उक्तदृष्टान्तार्थो हिशब्दः ।
अथैतन्मतमितिवत्प्रकृतादर्थादर्थान्तरार्थोऽथशब्दस्तत्राह —
पूर्वेति ।
यत्किञ्चित्प्रकृतमपेक्ष्य भाविन्यां जिज्ञासायामथप्रयोगेऽनुवादादृष्टार्थत्वयोरन्यतरत्वम् । अवश्यं हि पुमान्किञ्चित्कृत्वा किञ्चित्करोति फलत्वेनावस्थितजिज्ञासाहेतुत्वेन प्रकृतापेक्षया भाविन्यामस्यामथशब्दे प्रकृतापेक्षावशाद्यदस्यार्थान्तरं तदानन्तर्यान्नातिरिच्यते, हेतुफलयोरव्यभिचारेणानन्तर्यस्यैव मुख्यत्वात् , तथा चार्थान्तरं न पृथग्वाच्यम् । अतो हेतुभूतार्थस्याधिकारिविशेषणत्वेन फलपर्यन्तेच्छाविचारादिप्रवृत्तौ प्रतिपत्त्यपेक्षत्वात् , प्रवृत्त्यङ्गशास्त्रीयाधिकारिविशेषणसाधनचतुष्टयपुष्कलहेत्वानन्तर्यार्थोऽथशब्द इति भावः ।
तस्यानन्तर्यार्थत्वेति कथं ब्रह्मजिज्ञासायाः साधनचतुष्टयादेवानन्तर्यमित्याशङ्क्याह —
सति चेति ।
दृष्टान्ते दार्ष्टान्तिके च नियमेन पूर्ववृत्तमिति सम्बन्धः ।
ननु धर्मजिज्ञासासूत्रे पूर्ववृत्तस्योक्तत्वान्नात्र वक्तव्यं शिष्यते तत्राह —
स्वाध्यायेति ।
विध्यधीनसाङ्गाध्ययनलब्धस्वाध्यायादानन्तर्यं धर्मब्रह्मजिज्ञासयोः साधारणमतो नात्र पृथक्कथनीयम् । यद्वा समानं नात्यन्तमनपेक्षितं नापि स्वयमेव प्रयोजकमतस्तन्न शास्त्रारम्भे पुष्कलकारणमित्यर्थः । ननु धर्मजिज्ञासायां वेदाध्ययनादेवानन्तर्यम् यथाहुः - ‘तादृशीं तु धर्मजिज्ञासामधिकृत्याथशब्दं प्रयुक्तवानाचार्यः, या वेदाध्ययनमन्तरेण न सम्भवति’ इति । ब्रह्मजिज्ञासायां तु कर्मावबोधादानन्तर्यमथशब्दार्थः ।
युक्तं हि विचारयोरन्योन्यमुपकार्योपकारकत्वात् , उपकार्यब्रह्मावबोधस्योपकारककर्मावबोधादानन्तर्यम् । अतो धर्मजिज्ञासातो ब्रह्मजिज्ञासाया हेतुभेदोऽस्तीति शङ्कते —
नन्विति ।
विचारयोरुपकार्योपकारकत्वस्यासिद्धेर्मैवमिति समाधत्ते —
नेत्यादिना ।
यद्यपि वेदान्ताध्ययनं ब्रह्मजिज्ञासायां न पुष्कलो हेतुः तथापि तेन विना न सा युक्ता । युक्ता त्वधीतवेदान्तस्य विनापि धर्मजिज्ञासया, तस्यास्तस्यामनुपयोगात् , अतो न ब्रह्मजिज्ञासाया धर्मजिज्ञासानन्तर्यमित्यक्षरार्थः । अयं भावः - प्राच्यां मीमांसायां न्यायसहस्त्रं, तद्गत वाक्यार्थधीः, वाक्यार्थश्चाग्निहोत्रादिकर्मेति त्रयं वृत्तम् । तत्र न तावदस्या न्यायसहस्रानन्तर्यम् , तस्य तत्तदर्थभेदज्ञानोपयोगिनोऽस्यामनुपयोगात् , स्वाध्यायस्यार्थज्ञानोपयोगेऽनपेक्षत्वेन स्वतोमानत्वेन च न्यायद्वयमिहोपयुक्तमपि स्वाध्यायाध्ययनवन्न पुष्कलकारणमिति न तदानन्तर्यमस्या युक्तम् । नापि वाक्यार्थज्ञानादत्रानन्तर्यम् । तद्धि नात्र प्रवर्तकमन्यार्थत्वात् , नापि प्रत्यायकं, धर्मब्रह्मणोरसम्बन्धात् । न च ज्ञाताद्वाक्यार्थादत्रानन्तर्यं, अज्ञानत्वेन व्यवहितफलहेतुकर्मसु फलप्रवृत्तिकालज्ञानानपेक्षेषु ब्रह्मज्ञानफलविचाराधिकारोपाधितया पूर्वक्षणे ज्ञातव्याधिकारिविशेषणत्वायोगात् , तस्मान्न कर्मतज्ज्ञानविचारानन्तर्यमथशब्दार्थ इति ।
ननु धर्मजिज्ञासाया ब्रह्मजिज्ञासायां सामग्रीत्वाभावेऽप्यानन्तर्योऽक्तिद्वारा तत्क्रमज्ञानार्थोऽथशब्दः ‘हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः’ इत्यवदानक्रमज्ञानार्थाथशब्दवत् । 'अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोेक्षे निवेशयेत् ॥ ‘ इति स्मृतेः । न तु पुष्कलहेतुज्ञानार्थतास्येति तत्राह —
यथेति ।
अनुष्ठेयावदानानां बहुत्वात् , अनुष्ठातुश्चैक्यात् , अयौगपद्यात् , क्रमध्रौव्यात्तन्नियममथशब्दो ब्रूयात् । इह तु विचारयोरनुष्ठातृभेदान्न क्रमो विवक्षितः । यत्राङ्गाङ्गित्वं प्रयाजदर्शादिषु, यत्र चाधिकृताधिकारो गोदोहनादिषु तत्रैव कर्त्रैक्यं, न प्रस्तुतविचारयोस्तथात्वे मानम् । अतोऽत्र कर्तृभेदान्न क्रमविवक्षा । स्मृतिस्त्वविरक्तस्याश्रमक्रमोक्त्या यज्ञाद्यनुष्ठानानन्तरं शुद्धबुद्धेर्मुमुक्षां दर्शयति न ब्रह्मविचारस्य धर्मविचारानन्तर्यम् । तत्र तद्वाचिशब्दाभावाद्ब्रह्मचर्यादेव संन्यासविधानाच्च । तस्मादनेककर्तृकत्वाद्विचारयोर्न क्रमार्थोऽथशब्द इत्यर्थः ।
नन्वाग्नेयादीनामेकस्वर्गफलानामध्यायानां च द्वादशानामेकधर्मार्थानां क्रमदर्शनादनयोरपि विचारयोरलौकिकसुखफलयोरेकवेदार्थविषययोरपेक्षिते क्रमे तदर्थोऽथशब्दो भविष्यति नेत्याह —
फलेति ।
नोक्तरीत्या क्रमापेक्षेति शेषः ।
अलौकिकसुखफलत्वे तुल्ये कथं भिन्नफलतेत्याशङ्क्य धर्मजिज्ञासाफलमाह —
अभ्युदयेति ।
ज्ञानेन जिज्ञासा लक्षिता, प्रकृतत्वात् । तस्या धर्मज्ञानानुष्ठानद्वारा देहाद्यवच्छिन्नत्वेनाभितो जातः स्वर्गादिसुखविशेषः फलमित्यर्थः ।
न केवलं स्वरूपतः फलभेदः किन्तूत्पादनप्रकारभेदादपीत्याह —
तच्चेति ।
वैदिकधीत्वाद्ब्रह्मधीरपि धर्मधीवदभ्युदयफलेत्याशङ्क्याह —
निःश्रेयसेति ।
अभ्युदयफलव्यावृत्तये तुशब्दः । पूर्ववज्ज्ञानशब्दो जिज्ञासामधिकाराल्लक्षयति ।
उपास्तिवद्धर्मज्ञानवद्वा स्वगतमर्थगतं वा ब्रह्मधीरप्यनुष्ठानमपेक्षतामित्याशङ्क्याह —
नचेति ।
'ब्रह्मसंस्थोऽमृतत्वमेति’ इति श्रुतेर्ब्रह्मधीरोङ्कारनिष्ठाव्यतिरिक्तानुष्ठानानपेक्षेत्यर्थः ।
फलभेदमुक्त्वा जिज्ञास्यभेदमाह —
भव्यश्चेति ।
भवत्यसाविति भव्यो भविता, भव्यगेयादिशब्दानां विकल्पेन कर्तरि निपातनात् । उक्तं हि - ‘भव्यादयः शब्दाः कर्तरि निपात्यन्ते’ इति ।
धर्मस्य भव्यत्वं साध्यैकस्वभावत्वं तदुपपादयति —
न ज्ञानेति ।
तत्काले सत्त्वाभावे तुच्छत्वमाशङ्क्याह —
पुरुषेति ।
असतोऽपि तत्काले क्रियासाध्यत्वादतुच्छतेत्यर्थः ।
धर्मवद्ब्रह्मणोऽपि वेदार्थतया साध्यत्वमाशङ्क्योक्तम् —
इह त्विति ।
भूतमित्यतीतत्वं व्यावर्तयति —
नित्यत्वादिति ।
कालत्रयासंस्पर्शादशून्यत्वाच्च धर्मवत्कृतिसाध्यत्वमाशङ्क्य कालादिकल्पनासाक्षित्वान्नेत्याह —
न पुरुषेति ।
रूपतो जिज्ञास्यभेदमुक्त्वा मानतोऽप्याह —
चोदनेति ।
वैदिकशब्दमात्रं चोदना, विशेषेण सामान्यलक्षणात् ।
शक्तितात्पर्याभ्यामर्थज्ञापकत्वे तुल्ये कथं तत्प्रवृत्तिभेदस्तत्राह —
या हीति ।
वैदिको लिङादिर्धर्मे मानं, ‘यजेत’ ‘चोदनालक्षणोऽर्थो धर्मः’ इत्युक्तत्वात् । स स्वविषये धात्वर्थकरणकपुरुषार्थभाव्यार्थभावनारूपे प्रेरयन्नेव पुरुषं बोधयति । ‘यजेत’ इत्यादिर्हि शब्दोंऽशत्रयविशिष्टामर्थभावानां विदधत्तदनवबोधे पुरुषाप्रवृत्तेस्तामपि बोधयतीत्यर्थः ।
ब्रह्मचोदनापि चोदनात्वादितरवत्प्रवृत्तिनिष्ठेत्याशङ्क्याह —
ब्रह्मेति ।
ब्रह्मणि प्रतीचि स्थितं ‘अयमात्मा ब्रह्म’ इत्यादिवाक्यं त्वम्पदलक्ष्यं पुरुषं केवलमप्रपञ्चं ब्रह्म बोधयत्येव न प्रवर्तयतीत्यत्र हेतुमाह —
अवबोधस्येति ।
ननु ‘आत्मा ज्ञातव्यः’ इत्यादिवाक्यैर्ब्रह्म बोध्यते तेन ब्रह्मबोधे भाव्ये पुरुषं प्रेरयन्तो वेदान्तास्तद्व्यावृत्तां भावनां बोधयन्ति, सत्यादिवाक्यानां ‘भूतं भव्यायोपदिश्यते’ इति न्यायात् , विधिवाक्यैरैक्यात्तत्राह —
न पुरुष इति ।
ज्ञानस्येच्छाप्रयत्नानधीनत्वात् , मानवस्तुतन्त्रत्वात् , अनिच्छतोऽयतमानस्यापि दुर्गन्धादिज्ञानात् न तस्मिन्विधिः । न च त्रिविधेऽपि ज्ञाने विधिः शक्यो निरूपयितुम् । न च चोदना साध्यमेव बोधयति किन्तु भूतादावपि, ‘चोदना हि भूतम्’ इत्याद्युक्त्या तत्प्रवृत्तेः । न च तस्य विधिशेषित्वेनैव धीः, समन्वयसूत्रविरोधादिति भावः ।
पुंसो बोधे नियोगाभावं दृष्टान्तेन स्पष्टयति —
यथेति ।
आनन्तर्यवाचिनोऽथशब्दस्याक्रमार्थत्वे पुष्कलहेतुज्ञानार्धत्वमेवेत्युपसंहरति —
तस्मादिति ।
अध्ययनादेर्ब्रह्मजिज्ञासायामसामग्रीत्वात् तथाभूतमन्यदेव वाच्यमित्याह —
उच्यत इति ।
शास्त्रीयविधेस्तादृगेवाधिकारनिमित्तमिति मत्वाह —
नित्येति ।
आत्मातिरिक्तं सर्वं कार्यत्वाद्धटवदनित्यं, आत्मैव नित्योऽकृतकभावत्वादिति निश्चयो नित्यानित्यवस्तुविवेकः । वर्तमानदेहस्थितिहेत्वनिषिद्धान्नाद्यतिरिक्तार्थेच्छाविरुद्धा दृढा चेतोवृत्तिरिहामुत्रार्थभोगविरागः लौकिकसर्वबुद्धिव्यापराणां स्वाधिकारानुपयुक्तानामफलत्वज्ञानपूर्वकस्त्यागः शमः । तथारूपबाह्यकरणव्यापारत्यागो दमः । सत्त्वशुद्धौ नित्यानामपि विधित एव त्याग उपरतिः । शीतोष्णादिद्वन्द्वानां स्वाधिकारापेक्षितजीवनविच्छेदकातिरिक्तानां सहिष्णुता तितिक्षा । सर्वास्तिकता श्रद्धा । विधित्सितश्रवणादिविरोधिनिद्रादिनिरोधेन चेतसोऽवस्थानं समाधानम् । एतेषां सम्पत्तिः शमदमादिसम्पत् । आत्मनोऽज्ञानतत्कार्यसम्बन्धो बन्धः । तद्विच्छेदो मोक्षः । तदिच्छावत्त्वं मुमुक्षुत्वम् । एतेषां पूर्वस्य पूर्वस्योत्तरोत्तरहेतुतया भुमुक्षावसानात् , तस्या एव ब्रह्मजिज्ञासाहेतुत्वात् , युक्तममुष्यास्तदानन्तर्यम् । तेषां साक्षात्पारम्पर्याभ्यां तद्धेतुत्वादित्यर्थः ।
साधनचतुष्टयस्य ब्रह्मविचारादिप्रवृत्तौ दृष्टहेतुत्वमन्वये नान्वाचष्टे —
तेष्विति ।
तत्रैव व्यतिरेकमाह —
नेति ।
कथञ्चित्कुतूहलितया ब्रह्मजिज्ञासायां प्रवृत्तस्यापि फलपर्यन्तज्ञानानुदयाद्वयतिरेकसिद्धिः ।
अन्वयव्यतिरेकसिद्धमर्थमुपजीव्याथशब्दव्याख्यामुपसंहरति —
तस्मादिति ।
अथशब्दादानन्तर्यमात्रं शक्त्या दृष्टोऽर्थः । साधनचतुष्टयस्य ब्रह्मजिज्ञासादिप्रवृत्तौ दृष्टहेतुत्वेन जिज्ञासासामग्रीत्वं तेन द्योत्योऽर्थ इति भेदः ।