ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्तेतद्विवेकेन वस्तुस्वरूपावधारणं विद्यामाहुःत्रैवं सति, यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि सम्बध्यतेमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि शास्त्राणि विधिप्रतिषेधमोक्षपराणिकथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति ? उच्यतेदेहेन्द्रियादिषु अहंममाभिमानरहितस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति चाधिष्ठानमन्तरेण इन्द्रियाणां व्यवहारः सम्भवति चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते चैतस्मिन् सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्तितस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेतिपश्वादिभिश्चाविशेषात्यथा हि पश्वादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले प्रवर्तन्ते; यथा ण्डोद्यतकरं पुरुषमभिमुखमुपलभ्यमां हन्तुमयमिच्छतिइति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुपलभ्य तं प्रति अभिमुखीभवन्ति; एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकरान्बलवत उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्तेअतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारःपश्वादीनां प्रसिद्धः अविवेकपुरस्सरः प्रत्यक्षादिव्यवहारःतत्सामान्यदर्शनाद्व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समान इति निश्चीयतेशास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते, तथापि वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते, अनुपयोगात् अधिकारविरोधाच्चप्राक् तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्ततेतथा हि — ‘ब्राह्मणो यजेतइत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोऽवस्थादिविशेषाध्यासमाश्रित्य प्रवर्तन्तेअध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचामतद्यथापुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यतितथा देहधर्मान्स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि लङ्घयामि इतिथेन्द्रियधर्मान्मूकः काणः क्लीबो बधिरोऽन्धोऽहम्इति; तथान्तःकरणधर्मान् कामसङ्कल्पविचिकित्साध्यवसायादीन्एवहंप्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतिएवमयनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षःस्यानर्थहेतोः प्रहाणाय त्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेयथा चायमर्थः सर्वेषां वेदान्तानाम् , तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामःवेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्तेतद्विवेकेन वस्तुस्वरूपावधारणं विद्यामाहुःत्रैवं सति, यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि सम्बध्यतेमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि शास्त्राणि विधिप्रतिषेधमोक्षपराणिकथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति ? उच्यतेदेहेन्द्रियादिषु अहंममाभिमानरहितस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति चाधिष्ठानमन्तरेण इन्द्रियाणां व्यवहारः सम्भवति चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते चैतस्मिन् सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्तितस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेतिपश्वादिभिश्चाविशेषात्यथा हि पश्वादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले प्रवर्तन्ते; यथा ण्डोद्यतकरं पुरुषमभिमुखमुपलभ्यमां हन्तुमयमिच्छतिइति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुपलभ्य तं प्रति अभिमुखीभवन्ति; एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकरान्बलवत उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्तेअतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारःपश्वादीनां प्रसिद्धः अविवेकपुरस्सरः प्रत्यक्षादिव्यवहारःतत्सामान्यदर्शनाद्व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समान इति निश्चीयतेशास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते, तथापि वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते, अनुपयोगात् अधिकारविरोधाच्चप्राक् तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्ततेतथा हि — ‘ब्राह्मणो यजेतइत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोऽवस्थादिविशेषाध्यासमाश्रित्य प्रवर्तन्तेअध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचामतद्यथापुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यतितथा देहधर्मान्स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि लङ्घयामि इतिथेन्द्रियधर्मान्मूकः काणः क्लीबो बधिरोऽन्धोऽहम्इति; तथान्तःकरणधर्मान् कामसङ्कल्पविचिकित्साध्यवसायादीन्एवहंप्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतिएवमयनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षःस्यानर्थहेतोः प्रहाणाय त्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेयथा चायमर्थः सर्वेषां वेदान्तानाम् , तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामःवेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्

ननु ब्रह्मविद्यापोद्यत्वेन सूत्रितामविद्यां हित्वा किमित्यध्यासो वर्ण्यते तत्राह —

तमेतमिति ।

आक्षिप्तत्वं समाहितत्वं लक्षितत्वं च विशेषणार्थः । अध्यासमित्यनुभवानुसारिण्यनर्थतोक्ता । पण्डिता मन्यन्त इति पृथग्जनागोचरत्वेनैतदविद्यात्वस्य व्युत्पाद्यत्वमुक्तम् । प्रतिपन्नोपाधौ निषेध्यस्याविद्यान्वयव्यतिरेकित्वात् , अविद्यात्वमस्येतिवक्तुमविद्याग्रहणम् , अतो न सूत्रिताविद्योपेक्षिता । तस्या एव वर्ण्यमानत्वादित्यर्थः ।

न केवलमन्वयादिनाऽस्याविद्यात्वं, विद्यापोद्यत्वेन तद्विरोधित्वाच्चेत्याह —

तद्विवेकेनेति ।

तस्याध्यस्तस्य बुद्ध्यादेर्विवेको विलापनं तेन रूपेणात्मनोऽसाधारणरूपस्येदमित्थमेवेत्यवधारणं विद्या, तेन तद्विरोधित्वादिना सिद्धेऽध्यासस्याविद्यात्वे सैवोच्यत इत्यर्थः ।

तथापि कारणाविद्यां त्यक्त्वा कार्याविद्योक्तिरयुक्तेत्याशङ्क्याह —

तत्रेति ।

तस्मिन्नध्यासे उक्तरीत्याऽविद्यात्मके सत्याच्छादिकाविद्यायाः स्वापादौ स्वतोऽनर्थत्वदर्शनात्कर्तृत्वाद्यध्यासात्मना तस्या जागरादौ तथात्वात्कार्याविद्या वर्ण्यते । यत्रात्मनि बुद्ध्यादौ यस्य बुद्ध्यादेरात्मनो वाध्यासः तेन बुद्ध्यादिनात्मना वा कृतेनाशनायादिदोषेण चैतन्यगुणेन वात्मानात्मा वा वस्तुतो न स्वल्पेनापि युज्यत इत्यतो विद्यया तन्निवृत्तिरित्यर्थः ।

लक्षणसम्भावने भेदेनोक्त्वा सद्भावं निर्णेतुमादौ प्रत्यक्षं दर्शयति —

तमिति ।

आक्षेपसमाधिविषयत्वं तदर्थः । लक्ष्यत्वमेतदर्थः । अविद्याख्यमिति सम्भावितोक्तिः पुरस्कृत्येत्यध्यासस्य व्यवहारहेतुतया स्वानुभवसिद्धत्वमुक्तम् । प्रमाणप्रमेयग्रहणं प्रमात्रादेरुपलक्षणम् । अपौरुषेयत्वेन विशेषं मत्वा शास्त्राणां पृथग्ग्रहणम् । मोक्षपराणि विधिनिषेधशून्यानि वस्तुमात्रनिष्ठानीत्यर्थः ।

त्रिविधव्यवहारस्याध्यासिकत्वे प्रमाणान्तरजिज्ञासया पृच्छति —

कथमिति ।

यद्यपि प्रत्यक्षादिसर्वमविद्योत्थाहङ्कारादिविशिष्टात्माश्रयमिति स्वसाक्षिकं तथापि केन मानान्तरेण तथा स्यात् पुनःशब्दान्मानान्तरविवक्षाधीः । यद्वा प्रमाता प्रमाणानामाश्रयो नाविद्यावाननुपयोगादित्याक्षेपः । अथवा यद्येतानि प्रमाणानि कथमविद्यावद्विषयाणीत्यन्वयः । यद्वा यद्येतान्यविद्यावद्विषयाणि कथं प्रमाणान्यविद्यावदाश्रयत्वे कारणदोषादप्रामाण्यात् ‘यस्य च दुष्टं करणम् ‘ इत्यादिभाष्यादित्याक्षेपः ।

व्यवहारहेतुमध्यासमनुमानादिना साधयितुमारभते —

उच्यत इति ।

तत्रानुमानं वक्तुं व्यतिरेकव्याप्तिमाह —

देहेन्द्रियादिष्विति ।

सशिरस्कोऽवयवी त्वगिन्द्रियस्यानपेक्षाधारो देहस्तत्र मनुष्यत्वादिजातिमति देहे अहमभिमानः, इन्द्रियेष्वादिशब्दगृहीतदेहावयवेषु च ममाभिमानस्तेन हीनस्य सुप्तस्य प्रमातृत्वानुपपत्तौ सत्यां मानाप्रवृत्तेरध्यासस्तद्धेतुरित्यर्थः । यत्र नाध्यासस्तत्र न व्यवहारः यथा सुषुप्ताविति व्याप्तिः । देवदत्तस्य जागरदिकालः तस्यैवाध्यासाधीनव्यवहारवान् , तस्यैव स्वापादिकालादन्यकालत्वात् व्यतिरेके तस्यैव स्वापादिकालवदिति भावः ।

इन्द्रियादिषु ममत्वाभावेऽपि देहेऽहम्भावमात्रान्मानप्रवृत्तिमाशङ्क्याह —

नहीति ।

इन्द्रियग्रहणं लिङ्गादेरुपलक्षणम् । प्रत्यक्षादीत्यादिपदप्रयोगात् , व्यवहारस्य व्यवहर्तारं विनाऽयोगात् , अनुपादानस्य व्यवहारस्य च कर्तृसाम्ये तान्यनुपादाय यो व्यबहारः स नेति योजना । यो द्रष्टृत्ववक्तृत्वादिरक्षमक्षम्प्रति नियतो व्यवहारः, यश्च लिङ्गादिनाऽनुमातृत्वादिव्यवहारो नासौ तानि ममत्वेनागृहीत्वा युक्तः । देहाध्यासेऽपि चक्षुराद्यनध्यासेऽन्धादेरदर्शनादित्यर्थः ।

इन्द्रियाध्यासे तेनैव व्यवहारादलं देहाध्यासेनेत्याशङ्क्याह —

न चेति ।

इन्द्रियाणामधिष्ठानत्वेन देहे गृहीतेऽपि तस्मिन्नहम्भावस्य न प्रवृत्त्युपयोगो देहात्मनोः सम्बन्धान्तरादपि प्रवृत्तेरित्याशङ्क्याह —

न चानध्यस्तेति ।

अस्यार्थः - अध्यासेतरो देहात्मयोगो देहस्यात्मसंयोगो वात्मेच्छयानुविधीयमानत्वं वा तदनुविधानयोग्यत्वं वा तत्कर्मारभ्यत्वं वा । नाद्यः, आत्मसंयुक्तेन परदेहेनापि तत्प्रसङ्गात् । न द्वितीयः, तदभावेऽप्यातुरदेहे मातृत्वादिदर्शनात् । न तृतीयः, स्वापादावपि तत्प्रसङ्गात् , तद्योग्यताया यावद्रव्यभावित्वात् । न च तदा सर्वकर्मलयान्न शरीरमेवेति वाच्यम् , स्वदृष्ट्या तदभावेऽपि परदृष्ट्या तद्भावात्तस्य तस्मिन्मातृत्वादिधीध्रौव्यात् । न चतुर्थः, भृत्यादिदेहैरपि तत्प्रसङ्गात् , तेषां स्वामिकार्यारभ्यत्वात् , अतो देहस्यात्मनि सम्बन्धान्तरासिद्धेरध्यास इति ।

नन्वात्मा स्वतश्चेतनत्वान्मातृत्वादिशक्तिमानिन्द्रियाद्यवधाने जागरादौ मातृत्वादिकमश्नुते स्वापादौ चक्षुराद्यभावात्तदभावो नाध्यासाभावादतोऽव्यतिरेकिणि व्यतिरेकः सन्दिह्यते तत्राह —

न चैतस्मिन्निति ।

प्रमातृत्वं प्रमां प्रति कर्तृत्वं तच्च कारकान्तराप्रयोज्यस्य तत्प्रयोक्तृत्वम् । न च व्यापारमन्तरेण करणादिप्रयोक्तृत्वम् , न च कूटस्थासङ्गात्मनः स्वतो व्यापारः, न चेच्छातिरेकेण प्रमाकरणप्रयोक्तृत्वम् , न चात्मन्यक्रियेऽगुणे क्रियागुणवद्बुद्ध्याध्यासादृते सा युक्ता, तस्माद्बुद्ध्याद्यभेदाध्यासे तद्धर्माध्यासे चासति स्वतोऽसङ्गस्य मातृत्वायोगादध्यासस्तद्धेतुरित्यर्थः ।

तर्हि माभूदसङ्गस्यात्मनो मातृत्वं नेत्याह —

नचेति ।

आत्मन्याध्यासिकमातृत्वाभावे सर्वव्यवहारहानिरित्यर्थः ।

एवं व्यतिरेकिणि व्यतिरेकासन्देहात्तस्यादोषत्वादर्थापत्तेरपि तेनावरोधात्प्रमाणान्तरप्रश्ने समाहितेऽपि कथमाक्षेपसमाधिः, तत्राह —

तस्मादिति ।

प्रमाणस्य सत्त्वादिति यावत् । अयं भावः - मातुरेव मानाश्रयत्वेऽपि तस्याध्यस्तत्वात्तेषामविद्यावदाश्रयत्वम् । न च कारणदोषादप्रामाण्यं, सति प्रमाकरणे पश्चाद्भाविनो दोषस्य दोषत्वात् , अविद्यायास्तत्कारणनिविष्टत्वात् , यस्य च दुष्टं करणमिति चोक्तेरागन्तुकदोषविषयत्वात् , अध्यक्षादीनां च तात्त्विकप्रामाण्याभावस्येष्टत्वात् , व्यवहारे बाधाभावाद्व्यावहारिकप्रामाण्यसिद्धेः । न च तेषामतात्त्विके प्रामाण्ये तदन्तर्गतश्रुतेरपि तथात्वान्नेष्टसिद्धिः, श्रुत्यर्थस्य ब्रह्मणः ‘सत्यं ज्ञानम् ‘ इत्यादिना तात्त्विकत्वदृष्टेस्तस्यास्तात्त्विकप्रामाण्यादिति ।

नन्वविवेकिव्यवहारस्याध्यासिकत्वेऽपि नाविद्यावद्विषयाण्येव प्रमाणानि, विवेकिनामपि तद्व्यवहारात्तत्राह —

पश्वादिभिश्चेति ।

चशब्दः शङ्काव्यावृत्त्यर्थः यौक्तिकविवेकस्याध्यक्षभ्रान्त्यविरोधित्वात् , विरोधित्वेऽपि तदननुसन्धाने विवेकिनामपि व्यवहारे पश्वादिभिरविशेषात् , तद्व्यवहारोऽप्याध्यासिक एवेत्यर्थः ।

कथं व्यवहारकाले विवेकिनापि पश्चादिभिरविशेषः, न हि ते निःशेषं पश्वादिव्यवहारमनुवर्तन्ते तत्राह —

यथाहीति ।

सङ्गृहीतोऽर्थो यथा व्यज्यते तथोच्यत इति यावत् । आदिशब्देन शकुन्तादिरुक्तः । शब्दादिभिः श्रोत्रादीनां सम्बन्धे सतीत्यर्थेन्द्रियसंनिकर्षात्मकमध्यक्षमुक्तम् । शब्दादिविज्ञान इति तत्फलम् प्रतिकूलेऽनुकूल इत्यनुमानम् । ते हि शब्दाद्युपलभ्य तज्जातीयस्य प्रातिकूल्यमानुकूल्यं वाऽनुस्मृत्यास्यापि तज्जातीयत्वात्तथात्वमनुमिन्वन्ति । तत्र प्रतिकूलत्वानुमानफलं निवृत्तिः, अनुकूलत्वानुमानफलं प्रवृत्तिरिति विवेकः ।

उक्तमर्थमुदाहरति —

यथेति ।

पुरुषविशेषं दृष्ट्वा तज्जातीयस्य हन्तृत्वमनुस्मृत्यास्यापि तज्जातीयत्वात्तदनुमाय ततो वैमुख्यं भजन्तीत्यर्थः ।

प्रत्येकं पश्वादीनामाशयं दर्शयितुं मामित्युक्तम् । पुरुषान्तरं तु द्वष्ट्वा तज्जातीयस्यानुकूल्यमनुस्मृत्य, अस्यापि तज्जातीयत्वात्तदनुमाय तदाभिमुख्यं भजन्तीत्याह —

हरितेति ।

दार्ष्टान्तिकं वदन् व्यवहारलिङ्गेनाध्यासमनुमातुं तस्य पक्षधर्मतामाह —

एवमिति ।

पित्रादित्रितयशिक्षाजन्यपदवाक्याभिज्ञता व्युत्पन्नचित्तता क्रूरदृष्ट्यादिविशिष्टान्पुरुषान्दृष्ट्वा तद्विधानां प्रातिकूल्यं स्मृत्वा तथात्वेनैतेषामपि तदनुमाय पश्वादिवद्विवेकिनोऽपि तेभ्यो विमुखीभवन्ति । तेभ्यो विपरीतान् प्रसन्नदृष्टित्वादिविशिष्टान् पुरुषविशेषानालक्ष्य, तादृशानामानुकूल्यं स्मृत्वा, तथात्वादेषामपि तदनुमाय तेष्वभिमुखी भवन्तीत्यर्थः ।

पक्षधर्मतां निगमयति —

अत इति ।

अनुभवार्थोऽतःशब्दः ।

नन्वस्माकं प्रवृत्तिरध्यासादिति न पश्वादयो ब्रुवन्ति, नापि परेषामेतत्प्रत्यक्षं अतो दृष्टान्तस्य साध्यवैकल्यं तत्राह —

पश्वादीनां चेति ।

अधिष्ठानारोप्यज्ञानेऽसति अध्यक्षादिभिः सामानाधिकरण्यविरोधिविवेकाभावात् , अध्यासवत्त्वं तेषां कल्प्यते विनापि मानैर्विवेके तदानर्थक्यमतो विना विवेकं पश्वादिषु व्यवहारदृष्टेः ; तन्मूलाध्याससिद्धिरित्यर्थः ।

संप्रत्यनुमानमाह —

तत्सामान्येति ।

तैः पश्वादिभिः सामान्यं व्यवहारवत्त्वं तस्य विवेकिषु भानादिति यावत् । अपरोक्षाध्यासस्य व्यवहारपुष्कलकारणत्वात् , तस्याध्यासस्य काल एव कालो यस्य व्यवहारस्य स तत्कालः समानः । पश्वादिभिरिति शेषः विमतो व्यवहारोऽध्यासकृतः, व्यवहारत्वात् , संमतवत् । विमता वाध्यासवन्तः, व्यवहारत्वात् , पश्वादिवदिति प्रयोगः । मानयुक्तिभ्यां विवेकेऽप्यध्यासविरोधिप्रमित्यभावात् , अध्यासवत्त्वमविरुद्धमिति मत्वा व्युत्पत्तिमतामपीत्युक्तम् । न च व्यवहारवत्त्वाद्यप्रयोजकं, आत्मनो मातृत्वादिशक्तिमत्त्वे, शक्तेः सनिमित्तशक्याधीनतया मुक्तानामपि सनिमित्तशक्यापादकत्वात् , तत्रापि मातृत्वादिप्रसक्त्या मुक्त्यभावापातस्य विपक्षे बाधकत्वात् , प्रमातृत्वादिलक्षणशक्याभावे च ग्राहकमानाभावेन शक्तिमत्त्वस्यापि दुर्वचनत्वात् । न च सर्वो व्यवहारो रजताध्यासकृतः, व्यवहारत्वात् , इत्याभासतुल्यता, बाधादेव तस्यानुत्थानात् । मनुष्योऽहमित्यध्यासस्य सर्वानुभवसिद्धतया तदभावादिति भावः ।

विवेकिनां च लौकिकव्यवहारस्याध्यासिक्त्वेऽपि शास्त्रीयव्यवहारस्य विद्वद्विषयत्वात् , न तत्पूर्वकतेति भागे बाधमाशङ्क्य तस्यापि तत्पूर्वकत्वार्थं देहेतरात्मधीपूर्वकत्वमङ्गीकरोति —

शास्त्रीये त्विति ।

तस्य तद्विषयत्वे कथमध्यासाधीनतेत्याशङ्क्याह —

तथापीति ।

किं तद्वेदान्तवेद्यं तदाह —

अशनायादीति ।

कर्त्रन्वयाधिकारान्वयभोक्त्रन्वया विशेषणैर्व्यावर्त्यन्ते ।

आमुष्मिकफलकर्मसु देहेतरात्मज्ञानादेव वृत्तौ उक्तात्मज्ञानस्याकिञ्चित्करत्वादित्याह —

अनुपयोगादिति ।

किञ्चोक्तात्मज्ञाने सर्वाभिमानभङ्गात्कर्मस्वप्रवृत्तिरेवेति कुतस्तदपेक्षेत्याह —

अधिकारेति ।

तथापि कथं शास्त्रीयप्रवृत्तेराध्यासिकत्वं, नहि देहातिरिक्तात्मज्ञाने बाधके तदध्यासानुवृत्तिरित्याशङ्क्य, तस्य पारोक्ष्यात् , अपरोक्षाध्यासाविरोधे तत्पूर्विकैव शास्त्रीयप्रवृत्तिरित्याह —

प्राक्चेति ।

यथा यथोक्तान्याध्यक्षादीन्यध्यासं साधयन्ति तथागमोऽपि विधेर्बोद्धारमधिकारिणं ब्राह्मणादिशब्दैरनुवदन् देहात्मनोरन्योन्याध्यासं साधयतीत्याह —

तथा हीति ।

तत्र ‘अष्टवर्षं ब्राह्मणमुपनयीत’ इत्यादिर्वर्णवयोविशेषस्य, ‘ न ह वै स्नात्वा भिक्षेत ‘ इत्यादिराश्रमविशेषस्य, ‘जातपुत्रः कृष्णकेशोऽग्नीनादधीत’ इत्यादिरवस्थाविशेषस्याध्यासः । आदिशब्दात् , ‘ जीवञ्जुहुयात् ‘ इति जीवनस्य, ‘ स्वर्गकामो यजेत ‘ इति कामित्वस्य, ‘ गृहदाहवान्यजेत’ इति निमित्तविशेषस्य महापातकित्वादेश्चाध्यासो गृह्यते ।

उक्तप्रमाणैः सिद्धेऽप्यध्यसे कस्य युष्मदर्थस्य कस्मिन्नस्मदर्थे वैपरीत्येन वाऽध्यास इति विशेषबुभुत्सायां तदर्थमध्यासलक्षणं परामृशति —

अध्यासो नामेति ।

अध्यासस्यानर्थहेतुतां दर्शयितुं तद्विशेषानुदाहरति —

तद्यथेति ।

प्रसिद्धातिरेकयोरपि पुत्रादिसाकल्यवैकल्ययोरनुभवेनैव मुख्याध्याससिद्धावप्रसिद्धातिरेकाणां कृशत्वादीनां तथा स्यादिति किंवक्तव्यमित्याशयेनाह —

पुत्रेति ।

बाह्याः स्वदेहापेक्षया पुत्रादयः, तद्धर्मा वैकल्यादयः । स्वस्वाम्यनिमित्तमात्मनि स्वदेहे तानारोपयतीत्यर्थः ।

प्रसिद्धभेदानामपि स्वदेहद्वाराऽत्मनि मुख्याध्यासे सति अप्रसिद्धभेदानां सुतरां तत्र मुख्याध्यासः स्यादित्याह —

तथेति ।

वैकल्यादीनां स्वदेहद्वारात्मन्यध्यासवदिति यावत् । देहश्च तद्धर्माश्च देहतद्धर्मास्तानात्मन्यध्यस्यतीति सम्बन्धः । अत्र चाहङ्कारद्वाराऽऽत्माऽधिष्ठानम् ।

उक्ताध्यासादप्यन्तरङ्गमध्यासं कथयति —

तथेन्द्रियेति ।

यथा देहं तद्धर्मांश्चात्मन्यध्यस्यति तथेन्द्रियाणि तद्धर्माश्चाध्यस्यतीत्येतत् , देहस्य चक्षुरादिद्वारा साक्षिवेद्यत्ववदिन्द्रियाणामपि लिङ्गादिद्वारा तद्भावात् देहवदिहग्रहणं ; पृथगध्यासनिर्देशाच्च । न चैवं नित्यानुमेयत्वव्याघातः, तेषां लिङ्गादिव्यवधानेन साक्षिवेद्यत्वात् । अधिष्ठानं तु पूर्ववदिति भावः ।

यथा देहेन्द्रियधर्मानात्मन्यध्यस्यति तथान्तःकरणधर्मानपि कामादीनात्मनि सम्बन्धित्वेनारोपयतीत्याह —

तथान्तःकरणेति ।

धर्माणामेवाध्यासमुक्त्वा देहादिवद्धर्म्यध्यासमाह —

एवमिति ।

बुद्धिविशिष्टे तद्धर्माध्यासवत् , तदध्यासे किमधिष्ठानं तदाह —

अशेषेति ।

स्वस्याहङ्कारस्य प्रचाराः कामादयः तेषां साधिकरणानां साक्षादेव साधके प्रत्यगात्मनि देहादिषु विवेकाद्बहिर्नीतेषु प्रातिलोम्येनान्तरञ्चतीवेति प्रत्यगुच्यते स चात्मा । निरुपचरितस्वरूपत्वात्तस्मिन्नज्ञानवतीत्यर्थः ।

आत्मन्यनात्मतद्धर्माध्यासे सिद्धे तस्याधिष्ठानत्वनियमे तद्विशेषचैतन्याभानात् जगदान्ध्यमित्याशङ्क्य तस्यापि संसृष्टत्वेनाध्यासमाह —

तं चेति ।

तद्विपर्ययस्तेषामन्तःकरणादीनां विपर्ययश्चेतनत्वम् । तदात्मनेति यावत् । न च तेषामधिष्ठानत्वमेव, तद्विशेषादृष्ट्या व्यवहारविरहात् । अतो द्वयोर्विशेषदृष्टेरन्योन्याध्यासधीः, अध्यासे विशेषदृष्टेरध्यस्यमानताकृतत्वात् । न च द्वयोर्विशेषदृष्टौ नाधिष्ठानत्वं, स्वनिष्ठत्वेन तदभानात् । न चोभयोरध्यासे बाध्यतया शून्यता द्विधाऽध्यस्ता, अनात्मनः सर्वथा बाधेऽपि संसृष्टरूपेणैवाध्यस्तात्मनस्तन्मात्रबाधेऽपि स्वरूपशेषादिति भावः ।

आत्मनि बुद्ध्याद्यध्यासोक्त्या कर्तृत्वभोक्तृत्वे तस्योक्ते । तेष्वात्माध्यासोक्त्या बुद्ध्यादिषु चैतन्यमुक्तम् । सम्प्रत्यध्यासं सप्रमाणं निगमयति —

एवमिति ।

पूर्वबुद्ध्याद्यध्यासात् , संस्काराद्यध्यासः, ततस्तादृगुत्तरबुद्ध्याद्यध्यास इति प्रवाहात्मना, प्रवाह्युपादानजाड्यात्मना वाऽनादित्वम् । तत्त्वधियं विना सर्वात्मना नाशहानेरानन्त्यम् ।

उपादानस्य मायाशक्तितया जडस्य प्रत्यक्चैतन्यसत्त्वानुबन्धित्वात् , अधिष्ठानधीबाध्यत्वं सिद्धवत्कृत्योक्तम् —

नैसर्गिक इति ।

मिथ्याधीहेतुत्वेन तदात्म्यमाह —

मिथ्येति ।

कारणाध्यासो हि कार्याध्यासस्य हेतुरित्यध्यासस्य मिथ्याप्रत्ययत्वमित्यर्थः । लक्षणतस्तथारूप्यते न प्रतीयत इति रूपग्रहणम् । अथवा मिथ्याप्रत्ययानांं रूपमनिर्वाच्यत्वं यस्य स तथेत्यनिर्वाच्यत्वं वोच्यते । यद्वा मिथ्याभूताखण्डजडशक्तिस्तन्मात्रत्वेनाध्यासप्रत्ययो रूप्यते ।

न हि कारणादृते कार्यस्य रूपमस्ति । तस्यानर्थहेतुतामाह —

कर्तृत्वेति ।

प्रमाणं निगमयति —

सर्वेति ।

प्रत्यक्षपदमुक्तप्रमाणोपलक्षणम् ।

विषयादिसम्भावनाहेतुमध्यासं प्रसाध्य विषयप्रयोजने निर्दिशन् , वेदान्तानामादेयत्वात् , तदीयविचारशास्त्रस्यापि तथात्वमाह —

अस्येति ।

कर्तृत्वादिरनर्थस्तस्य हेतुरुक्तोऽध्यासस्तस्य प्रकर्षेण हानं सोपादानस्य निवृत्तिस्तदर्थमिति यावत् ।

कुतोऽस्य प्रहाणं तत्राह —

आत्मेति ।

आत्मनस्त्वमर्थस्य तदर्थेन ब्रह्मणा यदेकत्वं वाक्यार्थः, तद्विषया विद्या साक्षात्कारो बुद्धिवृत्तिः, तस्याः प्रतिपत्तिरप्रतिबद्धतया प्राप्तिस्तदर्थमिति यावत् ।

कुतः पुनरेषा विद्योत्पद्यते तत्राह —

सर्व इति ।

द्विविधवाक्यसङ्ग्रहार्थः सर्वशब्दः । आरम्भो विचारः । विचारितेभ्यो यथोक्तविद्योत्थानमित्यर्थः ।

वेदान्तेषु प्राणाद्युपास्तीनामपि भानात् , कथमात्मैक्यमेवार्थस्तेषामित्याशङ्क्याह —

यथा चेति ।

शरीरमेव शरीरकं कुत्सितत्वात् , तन्निवासी शारीरको जीवः, तस्य ब्रह्मतावेदिका विचारात्मिका मीमांसा तस्यामिति यावत् ।

प्रथमवर्णके विचारविधेर्ज्ञानव्यवधानेन विषयो ब्रह्मात्मैक्यं, बन्धध्वस्तिश्च फलं, इत्यध्यासोक्त्या साधितम् । इदानीं पूर्वमीमांसया वेदार्थमात्रोपाधौ प्रवृत्तया गतत्वात् , नैतद्विचारकर्तव्यतेत्याशङ्क्याह —

वेदान्तेति ।

तेषां मीमांसा विचारः, मीमांसाशब्दस्य परमपुरुषार्थहेतुसूक्ष्मार्थनिर्णयार्थविचारवाचित्वात् , तस्याः शास्त्रं सूत्रसन्दर्भः । शास्यते शिष्येभ्योऽनेन प्रतिपाद्यते तत्त्वमिति व्युत्पत्तेः । तच्चेदानीमेव व्याख्यातुमिष्टं ‘ अथातो धर्मजिज्ञासा’ इति वेदार्थैकदेशे धर्मोपाधौ विचारकार्यताप्रतिज्ञानात् चोदनासूत्रे च तस्यैव लक्षणप्रमाणयोः श्रुत्यर्थाभ्यामुपन्यासात् , उत्तरत्रापि तस्यैव विचारितत्वात् , वेदान्तविचारशास्त्रस्येदमादिमं सूत्रम् । आदिमत्वादनेन श्रोतृप्रवृत्तये विषयादि सूच्यते । सूत्रत्वाच्चास्यानेकार्थसूचकत्वम् । उक्तं हि - ‘लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥ ‘‘अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥‘ इति । तथा च विशिष्टविषयादिमदिदं शास्त्रमारभ्यामिति भावः ।