ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनः अविषयत्वं ब्रवीषिउच्यते तावयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः चामस्ति नियमःपुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमितिअप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्तिएवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनः अविषयत्वं ब्रवीषिउच्यते तावयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः चामस्ति नियमःपुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमितिअप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्तिएवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः

लक्षितरजताध्यासस्य लोकवादिसिद्धत्वेऽपि नात्मन्यनात्माध्यासः स्यादिति विशेषाक्षेपमुत्थापयति —

कथमिति ।

प्रतीचि पूर्णे स्फुरणत्वेनाननुभाव्ये, पराचां परिच्छिन्नानामनुभाव्यानां बुद्ध्यादीनां तद्धर्माणां च नाध्यासः । मिथो विरुद्धानामधिष्ठानाधिष्ठेयत्वासम्भवादित्यर्थः ।

विरुद्धानामैक्यतादात्म्यप्रमित्ययोगेऽपि तदध्यासयोग्यतया कल्प्यतामधिष्ठानाधिष्ठेयत्वमित्याशङ्क्याह —

सर्वो हीति ।

आरोप्येण सह तुल्येन्द्रियग्राह्यत्वमधिष्ठानस्य दृष्टमिह तदभावान्नाध्यास इत्यर्थः ।

तर्हि प्रत्यगात्मन्यध्यासदृष्टेर्विषयत्वमपीष्टमित्याशङ्क्याह —

युष्मदिति ।

प्रत्यक्त्वादात्मत्वाच्चास्याविषयत्वमन्यथेदंप्रत्ययविषयत्वापातात् , अपराद्धान्तापाताच्च । तस्मात्तस्मिन्नध्यासो दृष्टोऽपि श्लिष्टो नेत्यर्थः ।

अनात्मिविशेषारोपे तद्विशेषान्तरस्याधिष्ठानत्वेऽपि तन्मात्रारोपे चिदात्मैवाधिष्ठानमित्याह —

उच्यत इति ।

विरुद्धयोर्वस्तुतोऽधिष्ठानाधिष्ठेयत्वायोगेऽपि कल्पनया तत्सिद्धिरिति भावः ।

यत्त्वेकज्ञानाविषयत्वान्नाधिष्ठानाधिष्ठेयतेति तत्राह —

न तावदिति ।

एकस्मिन्विज्ञाने तयोर्भानमात्रमारोपेऽपेक्षते न विषयतया भानं, केवलव्यतिरेकाभावात् आत्मनः स्वप्रकाशत्वादनात्मनस्तद्विषयत्वात् , द्वयोरपि भासतोर्मनुष्योऽहमित्यादिधीवशादन्योन्याध्यासः सिध्यतीत्यर्थः ।

नियमेनाविषत्वाभावे कुतः स्वप्रकाशत्वं तत्राह —

अस्मदिति ।

अस्मदर्थश्चिदात्मा साक्षितया प्रतीयते प्रतिबिम्ब्यतेऽस्मिन्नित्यस्मत्प्रत्ययोऽहङ्कारस्तत्सम्बन्धाल्लब्धपरिच्छेदः सन्नात्मस्वरूपस्फुरणेन स्फुरन्नपि तद्विषयो निरुच्यते, ततोऽस्य शून्यवदत्यन्ताविषयत्वाभावेऽपि नास्वप्रकाशतेत्यर्थः ।

अध्यासे सत्यस्मत्प्रत्ययविषयत्वं सति तस्मिन्नध्यास इत्यन्योन्याश्रयत्वमाशङ्क्यानादित्वेन परिहारेऽपि परिहारान्तरमाह —

अपरोक्षत्वाच्चेति ।

अस्मत्प्रत्ययाविषयत्वेऽप्यपरोक्षत्वात् , एकान्तेनाविषयत्वाभावात् , तन्मिन्नहङ्काराध्यास इत्यर्थः ।

अपरोक्षत्वमपि कैश्चिदात्मनो नेष्टमित्याशङ्क्याह —

प्रत्यगात्मेति ।

अस्यार्थः - अस्ति तावन्ममेदं विदितमिति विशिष्टधीः । न च सा विशेषणदर्शानादृते युक्ता । न च ज्ञानान्तरादस्य स्फुरणं, विमतं नैतद्विषयमेतन्निष्ठसाक्षात्करत्वात् , तादृग्घटसाक्षात्कारवदित्यनुमानात् । न च घटादिज्ञानाश्रयतयात्मसिद्धिः, तस्य तदधीनप्रकाशत्वे वेद्यत्वापातात् , तस्माद्यस्मिन्नात्मनि विशेषणत्वं कल्पितं तस्य संविद्रूपत्वेनैव स्फुरणादपरोक्षत्वं, देवदत्तस्वापकालः, देवदत्तात्मास्तीति व्यवहारहेतुसाक्षात्कारवान् कालत्वात् इतरकालवदित्यनुमानात् । न च स्वापेऽहंवृत्तिः तद्व्याघातात् । न च पुरुषान्तरं तत्साक्षात्कर्तुमलम् । ईश्वरास्तित्वे च साक्षात्कारस्यास्मद्विशेषणमादेयमिति ।

अपरोक्षाध्यासो नापरोक्षमात्रे क्वचिदपि युक्तः, सम्प्रयुक्ततया पुरःस्थितापरोक्ष्ये तद्दृष्टेरित्याशङ्क्यह —

न चेति ।

तत्र हेतुरप्रत्यक्ष इति साक्षिवेद्यतया सम्प्रयोगमन्तरेणापरोक्षेऽपीति यावत् । न हि नभो द्रव्यत्वे सत्यरूपस्पर्शित्वाद्बाह्येन्द्रियग्राह्यम् । नापि मनसोऽसहायस्य बाह्ये वृत्तिः । तेन प्रसिद्धप्रत्यक्षत्वहीनेऽपि नभस्यविवेकिनस्तलमिन्द्रनीलकटाहकल्पं मलिनतां धूम्रतामन्यच्च पीताद्यध्यस्यन्ति । तथा चाधिष्ठानारोप्ययोरेकेन्द्रियग्राह्यत्वानियतिरिति भावः ।

दार्ष्टान्तिकं ब्रुवाणः सम्भावनां निगमयति —

एवमिति ।

आत्मानात्मनोश्चिदचित्त्वेन वास्तवाभेदासिद्धौ, सामानाधिकरण्यात्तदभेदधीः, अध्याससम्भावनां गमयतीति भावः ।