ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
गतिसामान्यात् ॥ १० ॥
यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना कारणावगतिरभविष्यत् , क्वचिच्चेतनं ब्रह्म जगतः कारणम् , क्वचिदचेतनं प्रधानम् , क्वचिदन्यदेवेतिततः कदाचित्प्रधानकारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत त्वेतस्तिसमानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिःयथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. उ. ३ । ३) इति, तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति, आत्मत एवेदं सर्वम्’ (छा. उ. ७ । २६ । १) इति, आत्मन एष प्राणो जायते’ (प्र. उ. ३ । ३) इति आत्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताःआत्मशब्दश्च चेतनवचन इत्यवोचाममहच्च प्रामाण्यकारणमेतत् , यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वम् , चक्षुरादीनामिव रूपादिषुअतो गतिसामान्यात्सर्वज्ञं ब्रह्म जगतः कारणम् ॥ १० ॥

श्रुतिप्रामाण्यैक्यात्प्रत्युपनिषदमभ्यासेन चेतनकारणतावगतिरेकरूपेत्ययुक्तमनेकरूपत्वप्रसङ्गादित्याशङ्क्य कारणविषयत्वात्तर्कजन्यधीवदतुल्यत्वप्रसक्तिं वक्ति —

यदीति ।

वस्तुतश्चिदचिदात्मकमन्यदित्युक्तं विरुद्धार्थत्वात्तर्हि त्यागो वेदान्तानामित्याशङ्क्य तेषामेकार्थतया नयनादत्यागमाह —

तत इति ।

अस्तु तर्हि तेष्वपि कारणावगतेरनेकरूपत्वं, नेत्याह —

नत्विति ।

तर्हि जडाजडार्थवचसोः सालम्बनत्वाय द्व्यात्मके ब्रह्मण्येव गतिसामान्यमित्याशङ्क्य चिदेकरसे तस्याः सामान्यमाह —

समानेति ।

विस्फुलिङ्गप्रसङ्गार्थं ज्वलत इत्युक्तम् । विप्रतिष्ठेरन्नानागतित्वेन दिशो दशापि प्रसृताः स्युरित्यर्थः । प्राणाश्चक्षुरादयो यथायतनं यथागोलकं विप्रतिष्ठन्ते । विविधमुद्गच्छन्तीति यावत् । प्राणेभ्योऽनन्तरमादित्यादयस्तदनुग्राहका देवतास्ताभ्योऽनन्तरं लोक्यन्त इति लोका विषया भवन्तीत्यर्थः ।

अनुक्तानामपि वेदान्तानामुक्तैः सहास्मिन्नर्थे तात्पर्यं सूचयति —

आत्मन इति ।

जडाजडात्मकाखण्डरूपमात्मशब्दमिति कुतो विवक्षितधीरित्याशङ्क्य जडस्य स्वरूपाभासत्वादखण्डाजडचैतन्यमेवात्मेत्याह —

आत्मेति ।

स्वतःप्रामाण्यादेकस्यापि वाक्यस्य स्वार्थधीहेतुत्वात्तत्रानुग्राहकवाक्यान्तरोक्तिरनर्थिकेत्याशङ्क्याह —

महच्चेति ।

एकार्थत्वोक्त्या ज्ञानदार्ढ्याय वाक्यान्तरमित्यर्थः ।

वेदान्तानां चेतनकारणे तुल्यगतित्वे दृष्टान्तमाह —

चक्षुरादीनामिति ।

सर्वेषां चक्षू रूपमेव ग्राहयति न रसादि कस्यचिदिति रूपे चक्षुषो गतिसामान्यं दृष्टम् । रसनादीनामपि रसादिषु । तथा वेदान्तानामपि चेतनकारणत्वे तुल्यगतित्वमित्यर्थः ।

सूत्रार्थं निगमयति —

अत इति ॥ १० ॥