चशब्दार्थमाह —
इतश्चेति ।
तदेव हेत्वन्तरमाह —
यस्मादिति ।
तस्मादिति व्यवहितेन सम्बन्धः । यन्निर्धारितं तदेवेह गीयत इति योजना ।
प्रकरणाविच्छेदार्थं तदनुसन्धत्ते —
यस्मादिति ।
भूतयोनेरेव सर्वप्रत्यक्तमत्वेन सर्वान्तरत्वमाह —
यच्चेति ।
तस्यैव ज्ञेयत्वेन प्रकृतत्वमाह —
यस्येति ।
तदेवात्रोच्यमानमिति कुतो गम्यते, तत्राह —
मन्त्रेति ।
अविरोधादिति ।
एकार्थत्वे सत्युपायोपेयत्वयोगादित्यर्थः ।
तयोरनेकार्थत्वे दोषमाह —
अन्यथेति ।
अन्नमयादीनामनात्मत्वेऽप्यविरोधवदिहापि स्यादित्याशङ्क्याह —
नचेति ।
ब्रह्मणस्तदान्तरत्वं पुच्छश्रुतिहतमिति भावः ।
किञ्च भृगुवल्ल्यां पञ्चमपर्यायेणोपसंहारात्तस्य ब्रह्मार्थत्ववदत्रापि तस्य स्थानात्तदर्थतेत्याह —
एतन्निष्ठेति ।
प्रकरणादिसिद्धमर्थमुपसंहरति —
तस्मादिति ॥ १५ ॥