नन्वौपचारिकस्य कामयितृत्वस्य प्रधानेऽपि सम्भवात्तदेवानन्दमयत्वेन कारणत्वेन वापेक्ष्यतां, न परमात्मेत्याशङ्क्याह —
कामाच्चेति ।
तद्व्याख्याति —
आनन्देति ।
ईक्षत्यधिकरणे प्रधानस्य निरस्तत्वादिहापि तन्निरासे पुनरुक्तिरित्याशङ्क्याह —
ईक्षतेरिति ।
प्रासङ्गिकनिरासस्य प्रकृतोपयोगमाह —
गतीति ॥ १८ ॥