जीवस्यानन्दमयत्वनिषेधे हेत्वन्तरमाह —
भेदेति ।
चकारार्थं प्रतिज्ञाय प्रकटयन्भेदव्यपदेशं विशदयति —
इतश्चेत्यादिना ।
स इत्यानन्दमयपरामर्श इति वक्तुमानन्दमयाधिकार इत्युक्तम् । श्रुतेरर्थमाह —
जीवेति ।
कयानुपपत्त्या भेदोक्तिः, तत्राह —
नहीति ।
लब्धैव लब्धव्यो नचेत् तर्हि श्रुतिस्मृत्योरनुपपत्तिरिति शङ्कते —
कथमिति ।
का तयोरनुपपत्तिः, तत्राह —
यावतेति ।
किमेकत्र वस्तुतो न लब्धृलब्धव्यत्वं किंवा कल्पनयापि । तत्राद्यमङ्गीकरोति —
बाढमिति ।
श्रुत्याद्युपपत्तये द्वितीयं प्रत्याह —
तथापीति ।
अप्रच्युतात्मभावोऽखण्डैकरस्यम् । लौकिको लोकादनपेतोऽप्रामाणिकः ।
तस्य फलवत्त्वमाह —
तेनेति ।
अन्वेषणं विचारारम्भमात्रं, तत्फलाप्तिर्लाभः, श्रवणं शक्तितात्पर्यधीरिति भेदः । द्रष्टृद्रष्टव्यत्वादिसङ्ग्रहार्थमादिपदम् जीवत्वेनानन्दमयस्य जीवस्याविद्ययापि जीवाद्भेदाभावान्न भेदव्यपदेशः स्यादिति भावः ।
किमिति कल्पितभेदेन लब्धृलब्धव्यत्वाद्युच्यते, श्रुत्यादिवशाद्वास्तावो भेदोऽस्त्वित्याशङ्क्याह —
प्रतिषिध्यत इति ।
जीवश्चेन्नेश्वरादन्यस्तर्हि सोऽपि ततोऽन्यो नेति तस्यापि कल्पितत्वमित्याशङ्क्याह —
परमेश्वरस्त्विति ।
कल्पितस्याधिष्ठानादृते सत्त्वाद्ययोगाद्भेदेनासत्त्वेऽपि ततोऽन्यदेवाधिष्ठानं, सत्तास्फूर्त्योः स्वातन्त्र्यादिति मत्वा दृष्टान्तमाह —
यथेति ।
सूत्रारूढः स्वतोऽपि मिथ्या, जीवे भेदमात्रं तथा, न स्वरूपमित्यपरितोषादुक्तम् —
यथा वेति ।
तथापि सूत्रद्वयसामर्थ्यात्पारमार्थिकं भेदमाशङ्क्याह —
ईदृशं चेति ।
अन्यथा श्रुतिसूत्रविरोध इति भावः ॥ १७ ॥