लिङ्गान्तरेषु सत्सु कुतोऽस्य ब्रह्मार्थतेत्याह —
कुत इति ।
तेषां वक्ष्यमाणान्यथासिद्धिं मत्वा हेतुमाह —
तथेति ।
ब्रह्मप्रतिपादनपरत्वेनैव पदानामन्वयदृष्टेरित्यर्थः ।
हेत्वर्थं प्रपञ्चयति —
तथाहीति ।
तत्रादावुपक्रमे पदानां ब्रह्मण्यन्वयमाह —
उपक्रम इति ।
यं त्वं मनुष्यायातिशयेन हितं मन्यसे तं वरमभिलपितं मह्यं त्वमेव वृणीष्व प्रयच्छेति प्रतर्दनेनोक्ते ‘मामेव’ इत्यादिना प्राणस्योच्यमानस्य न युक्ता वायुविकारतेत्याह —
तस्मा इति ।
उपास्तेरचिन्त्यशक्तित्वात्प्राणोपास्तिरेव मोक्षहेतुरलं ब्रह्मधियेत्याशङ्क्याह —
नहीति ।
एवकारार्थमाह —
नान्य इति ।
आदिशब्देन ‘तमेवं विद्वान् ‘ इत्याद्या श्रुतिरुक्ता । उपक्रमवन्मध्येऽपि पदानां ब्रह्मण्यन्वयमाह —
तथेति ।
स यः कश्चिदधिकृतो मां ब्रह्मरूपं साक्षादनुभवति तस्य विदुषो लोको मोक्षो महतापि पातकेन न मीयते न हिंस्यते न प्रतिबद्ध्यते, ज्ञानमाहात्म्येन सर्वस्यापि पापस्य दग्धत्वादित्याह —
स य इति ।
केनचन कर्मणेत्युक्तं स्पष्टयति —
नेत्यादिना ।
‘न मातृवधेन न पितृवधेन’ इत्यादि वक्तुमादिपदम् । श्रुतस्य सर्वपापदाहस्यान्यथासिद्धिं प्रत्याह —
ब्रह्मेति ।
‘एवं न हास्य’ इत्यादिश्रुतिसङ्ग्रहार्थमेवमाद्यास्वित्युक्तम् । इतश्च ब्रह्मैव प्राणशब्दमित्याह —
ब्रह्मेति ।
अन्ययोगव्यावृत्तिमाह —
नहीति ।
प्रक्रमादिवदुपसंहारेऽपि पदानां ब्रह्मार्थत्वमाह —
तथेति ।
आनन्दस्य दुःखाभावत्वान्मुख्येऽपि प्राणे योगाददेहस्य जरामरणयोरभावादजरत्वादेरपि तत्रोपपत्तेर्नोपसंहारस्य ब्रह्मार्थतेत्याशङ्क्याह —
आनन्दत्वादीनीति ।
प्राणशब्दं ब्रह्मेत्यत्र लिङ्गान्तराण्याह —
स नेत्यादिना ।
धर्माद्यस्पृष्टत्वं, तत्कारयितृत्वं, तदीशितृत्वं, च सर्वमुक्तम् । उक्तलिङ्गफलमाह —
तस्मादिति ॥ २८ ॥