ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
प्राणस्तथानुगमात् ॥ २८ ॥
अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिकाप्रतर्दनो वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन पौरुषेण ’ (कौ. उ. ३ । १) इत्यारभ्याम्नातातस्यां श्रूयते होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व’ (कौ. उ. ३ । २) इतितथोत्तरत्रापिअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३ । ३) इतितथा वाचं विजिज्ञासीत वक्तारं विद्यात्इतिअन्ते एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः’ (कौ. उ. ३ । ९) इत्यादितत्र संशयःकिमिह प्राणशब्देन वायुमात्रमभिधीयते, उत देवतात्मा, उत जीवः, अथवा परं ब्रह्मेतिननुअत एव प्राणःइत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम्इहापि ब्रह्मलिङ्गमस्ति — ‘आनन्दोऽजरोऽमृतःइत्यादिकथमिह पुनः संशयः सम्भवति ? — अनेकलिङ्गदर्शनादिति ब्रूमः केवलमिह ब्रह्मलिङ्गमेवोपलभ्यतेसन्ति हीतरलिङ्गान्यपिमामेव विजानीहि’ (कौ. उ. ३ । १) इतीन्द्रस्य वचनं देवतात्मलिङ्गम् । ‘इदं शरीरं परिगृह्योत्थापयतिइति प्राणलिङ्गम् । ‘ वाचं विजिज्ञासीत वक्तारं विद्यात्इत्यादि जीवलिङ्गम्अत उपपन्नः संशयःतत्र प्रसिद्धेर्वायुः प्राण इति प्राप्ते उच्यते

अनन्यथासिद्धतात्पर्यवद्ब्रह्मलिङ्गादुक्तवाक्यानां ब्रह्मपरत्वेऽपि प्रातर्दने वाक्ये पदार्थानामनेकेषामनेकलिङ्गृदृष्ट्या कस्यानुसारात्किं नेयमित्याकाङ्क्षायामाह —

प्राण इति ।

विषयं वक्तुमुपक्रममनुक्रामति —

अस्तीति ।

प्रतर्दनस्य राज्ञो लोकप्रसिद्ध्यर्थौ निपातौ । दिवोदासस्यापत्यं दैवोदासिस्तत्प्रियं प्रेमास्पदं, धाम गृहं, तद्गतौ हेतुर्युद्धेनेति । तत्करणेन पुरुषकारप्रदर्शनेन चेत्यर्थः ।

आम्नातेति ।

'तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनस्त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इत्याद्याख्यायिकाश्रुतेरित्यर्थः ।

मुख्यप्राणव्यावृत्त्यर्थम् —

प्रज्ञात्मेति ।

निर्विशेषं चिन्मात्रं व्यावर्तयति —

तं मामिति ।

देवतासम्भावनायै वाक्यमुक्त्वा प्राणसम्भावनार्तमाह —

तथेति ।

देहधारणं न वागादिकृतमित्युक्त्यनन्तरमित्यथशब्दार्थः ।

प्राणस्य तत्कार्यं प्रसिद्धमिति खल्वित्युक्तम् । जीवं सम्भावयितुमाह —

तथेति ।

परमात्मानं सम्भावयति —

अन्ते चेति ।

आदिपदेन ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् ‘ इत्याद्युक्तम् । विषयमुक्त्वानेकलिङ्गदृष्ट्या संश्यमाह —

तत्रेति ।

गातार्थत्वेन तमाक्षिपति —

नन्विति ।

ब्रह्मलिङ्गात्प्राणशब्दस्य ब्रह्मणि वृत्तिरुक्ता । प्रकृते कथमित्याशङ्क्याह —

इहापीति ।

‘एष लोकाधिपतिः’ इत्यादिसङ्ग्रहायादिपदम् ।

अनेकेषु लिङ्गेषु दृष्टेषु कतमल्लिङ्गं, लिङ्गाभासं वा कतमदिति संशयं निरसितुमधिकरणमित्याह —

अनेकेति ।

तदेव विवृणोति —

नेत्यादिना ।

'न गन्धं विजिज्ञासीत घ्रातारं विद्यात् ‘ इत्यादिपदेनोक्तम् । अनेकलिङ्गानि दर्शयित्वा तत्कार्यमाह —

अत इति ।

पूर्वत्र प्रकृतत्रिपाद्ब्रह्मपरामर्शियच्छब्दसमानाधिकरणा ज्योतिःश्रूतिस्तदर्थेत्युक्तम् । इह न तथाविधमसाधारणं किञ्चिदस्ति प्राणस्य ब्रह्मत्वे मानमिति प्रसिद्ध्यनतिक्रमात्प्राणो वायुरेवेत्याह —

तत्रेति ।

स्फुटब्रह्मलिङ्गनां कौषीतकिश्रुतीनां ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः पूर्वपक्षे प्राणदेवताजीवानामन्यतमोपास्तिः फलं, सिद्धान्ते ब्रह्मोपास्तिः ।

मुख्यप्राणपक्षमनूद्य सूत्रमादाय प्रतिज्ञां विभजते —

इति प्राप्त इति ।