द्युसम्बन्धात्प्रत्यभिज्ञेत्यत्रानुपपत्तिमुद्भाव्य दूषयति —
उपदेशेति ।
अनुवादं विभजते —
यदपीत ।
तस्य पूर्व वाक्यस्थस्य चतुष्पदो ब्रह्मण इति यावत् ।
चोद्यस्य समूलतया समाधियोग्यतामाह —
तदिति ।
तत्र समाधिसत्त्वं ब्रुवाणः सूत्रावयवं पातयति —
अत्रेति ।
उपदेशभेदो दोषो नेति नञर्थमुक्त्वा हेतुमाह —
नायमिति ।
हेतुं व्याकरोति —
उभयस्मिन्निति ।
यदाधारत्वं दिवो मुख्यं तदा कथञ्चिन्मर्यादा वाच्येति ।
दृष्टान्तमाह —
यथेति ।
श्येनो वृक्षाग्रे स्थितोऽपि परतोऽस्त्येव, अग्रलग्नभागातिरिक्तोपरिभागस्थस्य तस्यैवाग्रात्परतोऽवस्थानात् , अतो वृक्षाग्रस्य श्येनं प्रत्याधारत्वे मुख्ये तस्मात्परतः श्येन इत्यत्र श्येनशब्दोऽग्रलग्नावयवादूर्ध्वावयवावच्छिन्नावयविलक्षक इत्यर्थः ।
ब्रह्मणः श्येनवदवयवाभावादाधारेऽमुख्ये मर्यादा भूताकाशापेक्षयेति दार्ष्टान्तिकमाह —
एवमिति ।
दिवि द्योतनवति स्वे महिम्नि हार्दे वा नभसीत्यर्थः । दिवो भूताकाशाद्बाह्यादबाह्याद्वा तस्मादित्यर्थः ।
यदानौपाधिकं ब्रह्माकाशास्पृष्टं गृहीत्वा पञ्चम्येव मुख्या तदा सामीप्यं सप्तमी लक्षयतीत्याह —
अपर इति ।
भूतादिपादत्वलिङ्गात् , ‘तावानस्य’ इति मन्त्रलिङ्गात् , ‘यद्वै तद्ब्रह्म’ इतिवाक्याद्गायत्रीशब्दस्य ब्रह्मार्थत्वादुपदेशभेदेऽप्यर्थैक्यादप्रत्यभिज्ञाऽयोगाद्युक्तास्य प्रत्यभिज्ञेत्यवान्तरप्रकृतमुपसंहरति —
तस्मादिति ।
प्रत्यभिज्ञातस्य यच्छब्दपरामर्शे तदेव ज्योतिरिति परमप्रकृतमुपसंहरति —
अत इति ॥ २७ ॥