श्रुत्यादिष्वाद्यैकमानादुत्तरानेकमानं बलवद्धि संवादस्य तात्पर्यहेतुत्वादिति न्यायेनापि गायत्रीशब्दं ब्रह्मेत्याह —
भूतादीति ।
चशब्दमेवंशब्दं च व्याकरोति —
इतश्चेति ।
तदेव स्फुटयति —
यत इति ।
व्यपदिशति । ‘गायत्री वा’ इत्यादिश्रुतिरिति शेषः ।
भूतादीन्येवोच्यन्ते न तेषां पादत्वमित्याशङ्क्याह —
भूतेति ।
पादैः षडक्षरैश्चतुष्पात्त्वेऽप्यनन्तरोक्तभूतादीनां पादत्वं ‘सैषा’ इत्यादिशास्त्रादित्यर्थः । तत्रान्यार्थत्वेनोक्तावपि वाक्प्राणावुपेत्य षड्विधत्वम् ।
भूतादिपादत्वस्यान्यथासिद्धिं प्रत्याह —
नहीति ।
चकारसूचितं युक्त्यन्तरमाह —
अपिचेति ।
छन्दोङ्गीकारे कथमृचोऽसङ्गतिः, तत्राह —
अनयेति ।
उत्तरार्धेन पूर्वार्धविवरणेनोच्यमानसार्वात्म्यस्य सर्वकारणे ब्रह्मण्युपपत्तेरिति स्वारस्यमेव दर्शयन्नुक्तेऽर्थे हिशब्दसूचितं हेतुमाह —
पादोऽस्येति ।
ब्रह्माधिकारोत्पत्तेरपि तत्परत्वमृचो वाच्यमित्याह —
पुरुषेति ।
ब्रह्मविषयस्मृत्यर्थस्यात्र प्रत्यभिज्ञानाच्च तथेत्याह —
स्मृतिश्चेति ।
यत्तु मन्त्रानन्तरभाविब्रह्मशब्दस्य छन्दोविषयत्वं तद्दूषयति —
यदिति ।
एवं सति पूर्ववाक्ये ब्रह्मोपगमे सतीत्यर्थः ।
इतोऽपि पूर्वं ब्रह्मोक्तमित्याह —
पञ्चेति ।
गायत्र्याख्यब्रह्मणो हार्दस्योपास्त्यङ्गत्वेन द्वारपालादिगुणविध्यर्थं ‘तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः’ इत्यादिवाक्यम् । तत्र च ‘ते वा एते पञ्च ब्रह्मपुरुषाः’ इति प्राच्यादिहृदयच्छिद्रेषु हार्दब्रह्मसम्बन्धाद्ब्रह्मपुरुषश्रुतिः । अतोऽप्यस्ति पूर्वं ब्रह्मोक्तमित्यर्थः ।
गायत्रीवाक्यस्य छन्दोमात्रार्थत्वाभावे फलितमाह —
तस्मादिति ।
परामृश्यते यच्छब्देनेति शेषः ॥ २६ ॥