ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथाहि दर्शनम् ॥२५॥
अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये ब्रह्माभिहितमस्ति, गायत्री वा इदꣳ सर्वं भूतं यदिदं किञ्च’ (छा. उ. ३ । १२ । १) इति गायत्र्याख्यस्य च्छन्दसोऽभिहितत्वादिति; तत्परिहर्तव्यम्कथं पुनश्छन्दोभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुम् ? यावतातावानस्य महिमाइत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम्नैतस्ति । ‘गायत्री वा इदꣳ सर्वम्इति गायत्रीमुपक्रम्य, तामेव भूतपृथिवीशरीरहृदयवाक्प्राणप्रभेदैर्व्याख्याय, सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तं’ (छा. उ. ३ । १२ । ५) तावानस्य महिमा’ (छा. उ. ३ । १२ । ६) इति तस्यामेव व्याख्यातरूपायां गायत्र्यामुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिदध्यात्योऽपि तत्र यद्वै तद्ब्रह्म’ (छा. उ. ३ । १२ । ७) इति ब्रह्मशब्दः, सोऽपि च्छन्दसः प्रकृतत्वाच्छन्दोविषय एव एतामेवं ब्रह्मोपनिषदं वेद’ (छा. उ. ३ । ११ । ३) इत्यत्र हि वेदोपनिषदमिति व्याचक्षतेतस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमिति चेत् , नैष दोषःतथा चेतोर्पणनिगदात्तथा गायत्र्याख्यच्छन्दोद्वारेण, तदनुगते ब्रह्मणि चेतसोऽर्पणं चित्तसमाधानम् अनेन ब्राह्मणवाक्येन निगद्यते — ‘गायत्री वा इदꣳ सर्वम्इति ह्यक्षरसन्निवेशमात्राया गायत्र्याः सर्वात्मकत्वं सम्भवतितस्माद्यद्गायत्र्याख्यविकारेऽनुगतं जगत्कारणं ब्रह्म , तदिह सर्वमित्युच्यते, यथा सर्वं खल्विदं ब्रह्म’ (छा. उ. ३ । १४ । १) इतिकार्यं कारणादव्यतिरिक्तमिति वक्ष्यामःतदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इत्यत्रतथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यतेएतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते च्छन्दोगाः’ (ऐ. आ. ३ । २ । ३ । १२) इतितस्मादस्ति च्छन्दोभिधानेऽपि पूर्वस्मिन्वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्तदेव ज्योतिर्वाक्येऽपि परामृश्यत उपासनान्तरविधानायअपर आहसाक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते, संख्यासामान्यात्यथा गायत्री चतुष्पदा षडक्षरैः पादैः, तथा ब्रह्म चतुष्पात्तथान्यत्रापि च्छन्दोभिधायी शब्दोऽर्थान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यतेतद्यथा — ‘ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्इत्युपक्रम्याहसैषा विराडन्नादीइतिअस्मिन्पक्षे ब्रह्मैवाभिहितमिति च्छन्दोभिधानम्सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म ॥ २५ ॥

पूर्ववाक्यस्य छन्दोविषयत्वान्न ब्रह्म प्रकृतमित्युक्तमनूद्य निराकरोति —

छन्दोभिधानादिति ।

तत्रानुवादभागं व्याख्याय चोद्यस्य समाधियोग्यतामाह —

अथेत्यादिना ।

पूर्ववाक्ये छन्दसोऽन्यस्य वाभिधानेऽपि ब्रह्मोक्तमेवेत्येकदेशी शङ्कते —

कथमिति ।

मन्त्रस्य ब्राह्मणोक्तार्थत्वाद्ब्राह्मणे गायत्रीकथनान्मन्त्रेऽपि न ब्रह्म प्रकाश्यत इति सौत्रं हेतुं साधयन्पूर्ववाद्याह —

नैतदिति ।

‘गायत्री वा इदं सर्वं भूतं यदिदं किञ्च’ इति सर्वात्मिकां गायत्रीमुक्त्वा ‘वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च’ इति तस्याः सर्वभूतमय्या वागात्मत्वमाख्याय ‘या वै सा गायत्रीयं वाव सा येयं पृथिवी या वै सा पृथिवीयं वाव सा यदिदं शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता यद्वै शरीरमिदं तद्धृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिताः’ इति पृथिव्या भूताधारत्वात्सर्वभूतमयगायत्रीत्वं शरीरहृदययोर्भूतात्मकप्राणाश्रयत्वादिति प्रकृतां गायत्रीं भूतादिप्रकारैरुक्त्वा सैषा षडक्षरैः पादैश्चतुष्पदा सती छन्दोरूपा गायत्री वाग्भूतपृथिवीशरीरप्राणहृदयभेदैः षट्प्रकारेत्युपसंहृत्य तस्यां श्रुतो मन्त्रो न शक्तो ब्रह्म वक्तुमिति हेतुसिद्धिरित्यर्थः ।

मन्त्रानन्तरं ‘यद्वै तद्ब्रह्म’ इति ब्रह्मशब्दान्मन्त्रेऽपि ब्रह्मोक्तमित्याशङ्क्याह —

योऽपीति ।

न प्रकरणाद्ब्रह्मशब्दस्य छन्दोवाचित्वं, तस्य सर्वोपनिषदि परमात्मार्थत्वप्रसिद्धेरित्याशङ्क्य वेदविषये प्रयोगात्तदेकदेशगायत्र्यामपि तस्योपपत्तिरित्याह —

य इति ।

यः कश्चिद्ध्यातैतां प्रकृतां ब्रह्मोपनिषदं वेदरहस्यं मधुविद्यारूपं वेद तस्मै विदुषे नोदेति नास्तमेति सविता सदैवाहर्भवत्यतो विद्वानुदयास्तमयापरिच्छेद्यं नित्यं ब्रह्मैव भवतीति ब्रह्मपदं वेदे प्रयुक्तमित्यर्थः ।

मन्त्रब्राह्मणयोरैकार्थ्याद्ब्रह्मशब्दस्य प्रकृतच्छन्दोगामित्वाद्भूताद्यध्यासेन ध्येयगायत्रीछन्दोवाचित्वे मन्त्रस्य स्थिते फलितमाह —

तस्मादिति ।

सिद्धान्तभागेनार्थमुक्त्वा हेतुमादाय व्याचष्टे —

नेत्यादिना ।

गायत्रीशब्दस्य मुख्यार्थसिद्ध्यर्थं गायत्रीमात्रमेव गृह्यतामित्याशङ्क्याह —

नहीति ।

नभसो घटावच्छिन्नस्यानवच्छिन्नत्वायोगवद्ब्रह्मणो गायत्रीविशिष्टस्य न सर्वत्वमित्याशङ्क्य गायत्र्युपलक्षितब्रह्मणः सर्वत्वमित्याह —

तस्मादिति ।

गायत्रीशब्देन छन्दोमात्रोक्तौ सर्वभूतादिरूपत्वस्यासदारोपत्वापाताद्ब्रह्मोक्तौ कार्यकारणयोस्तादात्म्ये सदारोपात्तच्छब्देन तदनुगतं ब्रह्मोपलक्ष्य तदुपास्तिर्विधेयेत्यर्थः ।

कार्यकारणयोरभेदोक्तिरन्यत्रापि दृष्टेत्याह —

यथेति ।

त्वन्मतेऽपि कार्यकारणयोरत्यन्तभेदादसदारोपापत्तिरित्याशङ्क्याह —

कार्यं चेति ।

‘सर्वं खलु’ इत्यत्र कार्यमात्रवाचिसर्वशब्देन कारणब्रह्मणो लक्ष्यत्वेऽपि कार्यैकदेशार्थगायत्रीशब्देन कुतो लक्ष्यतेत्याशङ्क्य ‘तथाहि दर्शनम्’ इत्यस्यार्थमाह —

तथेति ।

एतमेव परमात्मानमृग्वेदिनो महति कस्मिंश्चिदुक्थाख्ये शस्त्रे तदनुगतमुपासते । अध्वर्यवो यजुर्वेदिनोऽग्नौ क्रतौ तदनुश्रितमेतमनुसन्दधते । सामवेदिनो महाव्रते क्रतावेतमनुसन्दधतीत्यैतरेयके दृष्टमित्यर्थः ।

हेतुमुपेत्य तस्यासाधकत्वमुपसंहरति —

तस्मादिति ।

तथापि ज्योतिर्वाक्ये किं जातमित्याशङ्क्य प्रकृतपरामर्शियच्छब्दमाश्रित्याह —

तदेवेति ।

परामर्शफलमाह —

उपासनान्तरेति ।

गायत्रीपदं ब्रह्मणि लाक्षणिकमित्युक्तवा तस्य गौणत्वं ब्रुवाणः सिद्धान्तभागं विधान्तरेण व्याकरोति —

अपर इति ।

साक्षाद्विकारानवच्छेदेनेत्यर्थः । तथा गायत्रीवच्चतुष्पात्त्वसाम्येन ब्रह्मणि येन गायत्रीशब्देन चेतः समर्प्यते तेन ब्रह्मण एव निगदान्न पूर्वं छन्दः प्रकृतमित्यर्थः ।

सङ्ख्यासाम्यं साधयति —

यथेति ।

तस्याश्चतुष्पात्त्वं व्यनक्ति —

षडिति ।

स्थावरजङ्गमानि सर्वाणि भूतान्यस्यैकः पादः ।

दिवि द्योतनवति चिदात्मनि, प्रसिद्धायां वा दिवि त्रयः पादा अस्येति ब्रह्मणश्चतुष्पात्त्वमाह —

तथेति ।

चतुष्पात्त्वसाम्याद्ब्रह्मणि गायत्रीपदप्रयोगेऽतिप्रसक्तिमाशङ्क्य श्रौतप्रयोगान्नियतार्थत्वे दृष्टान्तमाह —

तथेति ।

तदेवोदाहरति —

तद्यथेति ।

संवर्गविद्यायामधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयन्ते, अध्यात्मं प्राणे वाक्चक्षुःश्रौत्रमनांसीत्युक्तम् । ते वायुना सह पञ्चाध्यायात्मिकेभ्योऽन्य एते प्राणेन सहाधिदैविकेभ्योऽन्ये पञ्च ते सर्वे दश सन्तस्तत्कृतं कृतायोपलक्षितं द्यूतं भवति । अत्र हि चतुरङ्कायद्यूतगचतुरङ्कवच्चत्वारः पदार्थाः सन्ति । त्र्यङ्कायवत्त्रयः । द्व्यङ्कायवद्वौ । एकाङ्कायवदेकश्च द्यूते च चतुरङ्कायः कृतसंज्ञकः । स च दशात्मकः, चतुर्ष्वङ्केषु त्रयाणां त्रिषु द्वयोस्तयोरेकस्य चान्तर्भावात् , वायुप्रभृतयोऽपि दश, तस्मात्तेऽपि कृतमित्युपक्रम्याह —

सैषेति ।

विधेयाभिप्रायः स्त्रीलिङ्गनिर्देशः । दशसङ्ख्यात्वाद्विराडन्नं, ‘दशाक्षरा विराडन्नं विराड् ‘ इति श्रुतेः । कृतत्वाच्च सान्नादिनी । कृते खल्वन्नभूता दशसङ्ख्यान्तर्भवत्यतस्तामत्तीवेत्यन्नादिनी विराडित्युच्यते । तथा चान्नादत्वेनापि गुणेन वाय्वादीनामुपास्यता । तत्र यथा सङ्ख्यासाम्याद्विराट्शब्दो वाय्वादिषु तथा गायत्रीशब्दोऽपि चतुष्पात्त्वसाम्याद्ब्रह्मणीत्यर्थः ।

तथाहीत्यादि व्याख्यायास्य पूर्वस्माद्विशेषमाह —

अस्मिन्निति ।

अभिहितं तात्पर्यगम्यमिति यावत् । न छन्दोभिधानं न तत्र तात्पर्यमित्यर्थः । यद्यपि पूर्वं विकारस्थं ब्रह्म गायत्रीपदाल्लक्षणया तात्पर्यतोऽभिहितं तथापि गौणप्रयोगे वाक्यस्थो गुणस्तात्पर्याल्लभ्यते । लक्षणायां तु वाच्यसम्बन्धादर्थान्तरे तात्पर्यमिति भेदः ।

लाक्षणिकत्वं गौणत्वं वा कतरत्तर्हीष्टं, तदाह —

सर्वथेति ॥ २५ ॥