ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
ज्योतिरिह ब्रह्म ग्राह्यम्कुतः ? चरणाभिधानात् , पादाभिधानादित्यर्थःपूर्वस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्तावानस्य महिमा ततो ज्यायांश्च पूरुषःपादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इत्यनेन मन्त्रेणतत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतं द्युसम्बन्धिरूपं निर्दिष्टम् , तदेवेह द्युसम्बन्धान्निर्दिष्टमिति प्रत्यभिज्ञायतेतत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् केवलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः; परस्यामपि शाण्डिल्यविद्यायामनुवर्तिष्यते ब्रह्मतस्मादिह ज्येतिरिति ब्रह्म प्रतिपत्तव्यम्यत्तूक्तम् — ‘ज्योतिर्दीप्यतेइति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायं दोषः; प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् , दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसम्भवात्; येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९ । ७) इति मन्त्रवर्णात्यद्वा, नायं ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते, अन्यत्रापि प्रयोगदर्शनात्वाचैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ५) मनो ज्योतिर्जुषताम्’ (तै. ब्रा. १ । ६ । ३ । ३) इति तस्माद्यद्यत्कस्यचिदवभासकं तत्तज्ज्योतिःशब्देनाभिधीयतेतथा सति ब्रह्मणोऽपि चैतन्यरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिःशब्दःतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (क. उ. २ । २ । १५) तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ (बृ. उ. ४ । ४ । १६) इत्यादिश्रुतिभ्यश्चयदप्युक्तं द्युमर्यादत्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति, अत्रोच्यतेसर्वगतस्यापि ब्रह्मण उपासनार्थः प्रदेशविशेषपरिग्रहो विरुध्यतेननूक्तं निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति; नायं दोषः, निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसम्बन्धात्प्रदेशविशेषकल्पनोपपत्तेःतथा हिआदित्ये, चक्षुषि, हृदये इति प्रदेशविशेषसम्बन्धीनि ब्रह्मणः उपासनानि श्रूयन्तेएतेनविश्वतः पृष्ठेषुइत्याधारबहुत्वमुपपादितम्यदप्येतदुक्तम् औष्ण्यघोषानुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात्परमपि दिवः कार्यं ज्योतिरेवेति, तदप्ययुक्तम्; परस्यापि ब्रह्मणो नामादिप्रतीकत्ववत्कौक्षेयज्योतिष्प्रतीकत्वोपपत्तेः । ‘दृष्टं श्रुतं चेत्युपासीतइति तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वं भविष्यतियदप्युक्तमल्पफलश्रवणात् ब्रह्मेति, तदप्यनुपपन्नम्; हि इयते फलाय ब्रह्माश्रयणीयम् , इयते इति नियमे हेतुरस्तियत्र हि निरस्तसर्वविशेषसम्बन्धं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यतेयत्र तु गुणविशेषसम्बन्धं प्रतीकविशेषसम्बन्धं वा ब्रह्मोपदिश्यते, तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्तेअन्नादो वसुदानो विन्दते वसु एवं वेद’ (बृ. उ. ४ । ४ । २४) इत्याद्यासु श्रुतिषुयद्यपि स्ववाक्ये किञ्चिज्ज्योतिषो ब्रह्मलिङ्गमस्ति, तथापि पूर्वस्मिन्वाक्ये दृश्यमानं ग्रहीतव्यं भवतितदुक्तं सूत्रकारेणज्योतिश्चरणाभिधानादितिकथं पुनर्वाक्यान्तरगतेन ब्रह्मसन्निधानेन ज्योतिःश्रुतिः स्वविषयात् शक्या प्रच्यावयितुम् ? नैष दोषः, ‘अथ यदतः परो दिवो ज्योतिःइति प्रथमतरपठितेन यच्छब्देन सर्वनाम्ना द्युसम्बन्धात्प्रत्यभिज्ञायमाने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्येन परामृष्टे सत्यर्थाज्ज्योतिःशब्दस्यापि ब्रह्मविषयत्वोपपत्तेःतस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् ॥ २४ ॥

निश्चितब्रह्मलिङ्गं विना नास्य ब्रह्मतेति शङ्कित्वा हेतुमाह —

कुत इति ।

‘रमणीयचरणाः’ इत्यादौ चरणशब्दस्य चारित्रार्थत्वादत्रापि तथेत्यसाङ्गत्यमाशङ्क्याह —

पादेति ।

पादवाचिपदमस्मिन्वाक्ये न दृष्टमिति चेत् , तत्राह —

पूर्वस्मिन्निति ।

‘गायत्री वा इदं सर्वं भूतम् ‘ इत्यादिना भूतपृथिवीशरीरहृदयवाक्प्राणैः षड्विधा चतुष्पदा गायत्रीत्युक्तम् । एतदनुगतब्रह्मणस्तावान्महिमा विभूतिर्यावानयं प्रपञ्चः । वस्तुतस्त्वयं पुरुषस्ततो ज्यायान्महत्तरः ।

तदेव स्फुटयति —

पादोऽस्येति ।

सर्वाणि भूतान्यस्य ब्रह्मण एकः पादः । अस्यैव त्रिपादमृतं दिवि द्योतनवति स्वात्मनि स्थितम् । यथा कार्षापणश्चतुर्धा विभक्तः पादादेकस्मात्पादत्रयीकृतो महान् , एवं पुरुषो वास्तवोऽवास्तवात्प्रपञ्चान्महानित्यर्थः ।

पूर्वं ब्रह्मोक्तावपि कथमुक्तहेतुना ज्योतिषो ब्रह्मतेत्याशङ्क्याह —

तत्रेति ।

लिङ्गोपस्थापिताद्ब्रह्मणः श्रुत्युपस्थापिततेजसो बलीयस्त्वेऽपि यच्छब्दार्थे ज्योतिषि सन्निधापकमानापेक्षायां त्रिपाद्ब्रह्मणो ध्याने विनियोगाकाङ्क्षस्यानन्तरवाक्ये श्रुत्योक्तेर्विजातीयमानाकाङ्क्षश्रुत्युक्ततेजोऽभिधानाल्लिङ्गोपनीतातिसन्निहितसजातीयश्रुतिसिद्धैकवाक्यताकाङ्क्षब्रह्मोक्तिर्यच्छब्दस्य युक्ता । तस्माद्यच्छब्दार्थे प्रयुक्तो ज्योतिःशब्दो ब्रह्मार्थ इति भावः ।

यच्छब्दस्य ब्रह्मार्थत्वं हित्वा तेजोवाचित्वे बुद्धिगौरवमुक्त्वा दोषान्तरमाह —

तदिति ।

पूर्ववाक्यस्थे ब्रह्मणि द्युसम्बन्धाज्ज्योतिर्वाक्येऽपि प्रत्यभिज्ञाते यच्छब्दार्थे तत्समानाधिकृतज्योतिःशब्दप्रवृत्तिरित्युक्तम् । सम्प्रति ‘सर्वं खल्विदं ब्रह्म’ इत्युत्तरवाक्येऽपि ब्रह्मानुवृत्तेर्मध्यस्थमपि ज्योतिर्वाक्यं तत्परमेवेति सन्दंशन्यायमाह —

नेति ।

प्रकरणलिङ्गश्रुतिसिद्धमर्थमुपसंहरति —

तस्मादिति ।

श्रुतिलिङ्गाभ्यामुक्तमनुवदति —

यत्त्विति ।

मानत्रयान्मानद्वयं दुर्बलमिति दूषयति —

नायमिति ।

प्रकरणं श्रुतिलिङ्गयोरुपलक्षणम् । ब्रह्मणो व्यवच्छिद्य तेजःसमर्पकत्वं विशेषकत्वं तदभावोऽविशेषकत्वम् ।

ब्रह्मणि यथोक्तशब्दानुपपत्तौ कथं तयोरविशेषकत्वं, तत्राह —

दीप्यमानेति ।

कार्यवाचिशब्दाभ्यां कारणलक्षणे सर्वैरपि शब्दैर्ब्रह्मणो लक्षणा स्यादित्याशङ्क्य सूर्यादिज्योतिषो विशेषयोगे मानमाह —

येनेति ।

येन तेजसा चैतन्यज्योतिषेद्धो दीप्तः सूर्यः सर्वमपि जगत्तपति प्रकाशयति तज्ज्योतिरात्मानं बृहन्तमनतिशयमहत्त्ववन्तमवेदविन्न मनुत इति योजना ।

कार्ये रूढिमुपेत्य कारणे लाक्षणिको ज्योतिःशब्द इत्युक्तम् । इदानीं कारणेऽपि ब्रह्मणि मुख्य एवेत्याह —

यद्वेति ।

शान्ते सूर्यादौ तिमिरावृते जगति वाचैव ज्योतिषायं कार्यकरणात्मा पुरषो व्यवहारमासनादिकं करोतीत्यर्थः । मनोभासकत्वाज्ज्योतिस्तच्चाज्यं जुषतां सेवतां तेन वाक्येन चक्षुर्द्वारा विषयीकृतेनादुष्टतया दृष्टेन यज्ञमिमं केनापि हेतुना विच्छिन्नमप्राप्तानुष्ठानंं सन्दधात्वक्षतं कुर्यादित्यर्थः । एकस्य शब्दस्य कथमनेकार्थतेत्याशङ्क्य निमित्तभेदेनानेकत्र वृत्तेः ।

शक्त्यैक्यान्मैवमित्याह —

तस्मादिति ।

भासकत्वमेकं निमित्तीकृत्यानेकत्र ज्योतिःशब्देऽपि कथमसौ ब्रह्मणि स्यादित्याशङ्क्याह —

तथेति ।

तस्य सर्वजगद्भासकत्वे मानमाह —

तमेवेति ।

पूर्वार्धे विषयसप्तम्या परामृष्टस्तच्छब्दार्थः ।

गच्छन्तमनुगच्छतीत्युक्ते स्वगतगतिवदनुभानेऽपि स्वगतभानमाशङ्क्याह —

तस्येति ।

न केवलं भासकत्वाद्ब्रह्मणि ज्योतिःशब्दः, तस्मिन्प्रयुक्तत्वाच्चेत्याह —

तदिति ।

यस्मादर्वागेव संवत्सरोऽहोभिः परिवर्तते तं परमात्मानमिन्द्रादयो देवा ज्योतिषामादित्यादीनां ज्योतिर्भासकं जगतो जीवनं कूटस्थमिति च ध्यायन्तीत्यर्थः । ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ इत्यादिवाक्यमादिशब्दार्थः । ‘ज्योतिषामपि तज्ज्योति’ इत्यादिस्मृतिसङ्ग्रहार्थश्चकारः ।

ज्योतिःश्रुतेर्दीप्तिलिङ्गस्य चान्यथासिद्धत्वेऽपि द्युमर्यादत्वमनन्यथासिद्धमित्याशङ्क्याह —

यदपीति ।

प्रमित्यर्थत्वेन, उपास्त्यर्थत्वेन वा मर्यादावत्त्वं नोपपद्यते । तत्राद्यमङ्गीकरोति —

अत्रेति ।

द्वितीयं प्रत्याह —

सर्वेति ।

योषितोऽग्नित्ववद्ब्रह्मणोऽपि द्युमर्यादावत्त्वमारोप्योपास्तिरविरुद्धेत्यर्थः ।

अप्रदेशस्य प्रदेशकल्पने गौरवमुक्तं स्मारयति —

नन्विति ।

स्वतो वा तत्कल्पनानुपपत्तिः, उपाधितो वा । तत्राद्यमुपेत्यान्त्यं प्रत्याह —

नायमिति ।

न चेदमपूर्वं कल्प्यते, तादृक्कल्पनानामन्यत्रापि दृष्टेरित्याह —

तथेति ।

ब्रह्मणि कथमाधारबहुत्वं, तत्राह —

एतेनेति ।

द्युमर्यादत्ववदाध्यानार्थत्वेनेत्यर्थः ।

अत्राध्यासस्य सारूप्यकृतत्वादब्रह्मण्यध्यस्यमानमपि ज्योतिरब्रह्मेत्युक्तमनुभाषते —

यदपीति ।

आरोपस्य सारूप्याधीनत्वं व्यभिचारयति —

तदपीति ।

उपास्तिस्थानत्वमत्र प्रतीकत्वमारोप्य ।

ज्योतिषो दृष्टत्वादिश्रुतेर्ब्रह्मणस्तदयोगादब्रह्मतेत्याशङ्क्याह —

दृष्टं चेति ।

जाठरज्योतिषो दृष्टत्वादिकृतं तत्रोपास्यब्रह्मणो दृष्टत्वादीत्यर्थः ।

लिङ्गान्तरमनूद्य प्रत्याह —

यदपीति ।

वाजिनामग्निरहस्यगतां ‘तं यथा यथा’ इत्यादिश्रुतिमाश्रित्यानुपपत्तिं स्फोरयति —

न हीति ।

ब्रह्मधियो मुक्तिफलत्वात्तदैकरूप्यादल्पफलत्वं न तदुपास्तेरित्याशङ्क्याह —

यत्रेति ।

ब्रह्मविषयत्वात्प्रस्तुतोपास्तेरपि मुक्तिफलतेत्याशङ्क्याह —

यत्र त्विति ।

‘स वा एष महानज आत्मा’ इत्युक्तः जीवात्मनाऽन्नादः, वसु धनं कर्मफलं तद्दाता पररूपेणेत्युक्त्वा यः कश्चिदुक्तगुणमात्मानमुपास्ते स धनं लभते दीप्ताग्निश्च भवतीत्याह —

अन्नाद इति ।

आदिपदेन ‘परोवरीय एव हास्यास्मिंल्लोके जीवनम् ‘ इत्यादि गृहीतम् ।

यदुक्तं, न स्ववाक्ये ज्योतिषो ब्रह्मलिङ्गमिति, तत्राह —

यद्यपीति ।

उक्तेऽर्थे सूत्रानुगुण्यमाह —

तदुक्तमिति ।

प्रकरणेन श्रुतिरबाध्येत्याह —

कथमिति ।

न प्रकरणादेव श्रुतिर्बाध्या, प्रकरणलिङ्गानुगृहीतप्रथमश्रुतयच्छब्दश्रुत्येत्याह —

नेत्यादिना ।

द्युसम्बन्धादिति ।

प्रधानस्य द्युसम्बन्धस्य प्रातिपदिकार्थस्यैक्येन प्रत्यभिज्ञानात्तद्विशेषणस्य मर्यादाधारविभक्त्यर्थस्यान्यत्वमात्रेण नान्यतेत्यर्थः । यच्छब्देन परामृष्टे सतीति सम्बन्धः । स्वसामर्थ्येन सर्वनाम्नः सन्निहितपरामर्शित्ववशेनेत्यर्थः । अर्थाद्यच्छब्दसामानाधिकरण्यबलादित्यर्थः ।

मानमुक्त्वा मेयमुपसंहरति —

तस्मादिति ॥ २४ ॥