ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
इदमामनन्तिअथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इतितत्र संशयःकिमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधीयते, किं वा पर आत्मा इतिअर्थान्तरविषयस्यापि प्राणशब्दस्य तल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम्इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यतेकिं तावत्प्राप्तम् ? आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इतिकुतः ? प्रसिद्धेःतमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौचक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यतेतस्या एवानुग्राहकमादित्यादिकं ज्योतिःतथादीप्यतेइतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हतिद्युमर्यादत्वश्रुतेश्च हि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ताकार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । ‘परो दिवो ज्योतिःइति ब्राह्मणम्ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम्अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम्, अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादितिइदमेव प्रयोजनं यदुपास्यत्वमिति चेत् , ; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपास्यत्वदर्शनात् , तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’ (छा. उ. ६ । ३ । ३) इति चाविशेषश्रुतेः चात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम्अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिःशब्दम्ननूक्तमर्वागपि दिवोऽवगम्यतेऽग्न्यादिकं ज्योतिरितिनैष दोषः; सर्वत्रापि गम्यमानस्य ज्योतिषःपरो दिवःइत्युपासनार्थः प्रदेशविशेषपरिग्रहो विरुध्यते तु निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना भागिनी । ‘सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषुइति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम्इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इति कौक्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यतेसारूप्यनिमित्ताश्चाध्यासा भवन्तियथा तस्य भूरिति शिर एकं हि शिर एकमेतदक्षरम्’ (बृ. उ. ५ । ५ । ३) इतिकौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम्तस्यैषा दृष्टिः’ (छा. उ. ३ । १३ । ८)तस्यैषा श्रुतिःइति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् । ‘तदेतद्दृष्टं श्रुतं चेत्युपासीतइति श्रुतेःचक्षुष्यः श्रुतो भवति एवं वेद’ (छा. उ. ३ । १३ । ८) इति चाल्पफलश्रवणादब्रह्मत्वम्महते हि फलाय ब्रह्मोपासनमिष्यते चान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषोऽस्ति ब्रह्मलिङ्गम् पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ‘गायत्री वा इदं सर्वं भूतम्इति च्छन्दोनिर्देशात्अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यात् , एवमपि तस्येह प्रत्यभिज्ञानमस्तितत्र हि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६)(छा. उ. ३ । १२ । ६) इति द्यौरधिकरणत्वेन श्रूयतेअत्र पुनःपरो दिवो ज्योतिःइति द्यौर्मर्यादात्वेनतस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः

आकाशवायुवाक्ययोर्ब्रह्यार्थत्वोक्त्या तेजोवाक्यस्यापि तदर्थत्वमाह —

ज्योतिरिति ।

छान्दोग्यवाक्यं पठति —

इदमिति ।

गायत्र्युपाधिब्रह्मोपास्त्यनन्तरमुपास्त्यन्तरोक्त्यर्थोऽथशब्दः । अतो दिवो द्युलोकात्परः परस्ताद्यज्ज्योतिर्दीप्यते तदिदमिति जाठरे ज्योतिष्यध्यस्यते ।

कुत्र तद्दीप्यते, तत्राह —

लोकेष्विति ।

तेऽपि क्व सन्ति, तत्राह —

विश्वत इति ।

विश्वस्मात्प्राणिवर्गादुपरिष्टादित्यर्थः ।

तेषां प्रसिद्धलोकप्रवेशमाशङ्क्याह —

सर्वत इति ।

सर्वस्माद्भूरादिलोकादुपरीत्यर्थः ।

उत्तमा न विद्यन्ते येभ्यस्तेऽनुत्तमास्तेषु । तथापि कथं तेषामुत्कर्षः, तत्राह —

उत्तमेष्विति ।

इदंशब्दार्थं स्फुटयति —

यदीति ।

ज्योतिःशब्दस्य लोके तेजसि रूढेः, श्रुतौ चात्मनि निरूढेर्विचारबीजं संशयमाह —

तत्रेति ।

आकाशादिशब्दस्यार्थान्तरे रूढस्यापि ब्रह्मार्थत्वसिद्धेस्तेनैतद्गतमित्यसंशयान्न पृथगारभ्यमित्याशङ्क्याह —

अर्थान्तरेति ।

स्ववाक्ये ज्योतिषो ब्रह्मलिङ्गाभावादुक्तन्यायानवतारादगतार्थतेत्यर्थः ।

वाक्यशेषस्थब्रह्मलिङ्गात्प्राणादिशब्दस्य गौणतोक्ता । प्रकृते ब्रह्मलिङ्गादृष्टेस्तेजोलिङ्गस्यैव दृष्टेरौत्सर्गिकमुख्यसंप्रत्ययस्य नापवाद इत्याकाङ्क्षाद्वारा पूर्वपक्षयति —

किं तावदिति ।

कौक्षेये ज्योतिष्यारोप्योपास्ये परस्मिन्ब्रह्मण्युक्तश्रुतेः समन्वयोक्तेः श्रुत्यादिसङ्गतयः । स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावेऽपि ब्रह्मप्रत्यभिज्ञापकलिङ्गस्यैव तथात्वात्पादसङ्गतिः । फलं पूर्वपक्षे कौक्षेये ज्योतिष्यादित्यादिदृष्ट्योपास्तिः, सिद्धान्ते ब्रह्मदृष्ट्येति ।

ज्योतिःशब्दस्य प्रकाशवाचित्वाच्चित्प्रकाशं हित्वा किमिति लौकिकप्रकाशार्थतेति शङ्कते —

कुत इति ।

तमोविरोधिनि ज्योतिःशब्दस्य रूढेस्तेजसस्तथात्वात्तदेवात्र ज्योतिरित्याह —

प्रसिद्धेरिति ।

तामेव स्फोरयति —

तम इति ।

अज्ञानतमोविरोधि ब्रह्मापि तर्हि ज्योतिरिति, तत्राह —

चक्षुरिति ।

अर्थावरकत्वेन निरोधकत्वेक्त्या भावत्वमपि द्योतितम् ।

रूपित्वेनापि तद्वक्तुं विशिनष्टि —

शार्वरादिकमिति ।

एवमपि कुतो ज्योतिर्निश्चितमित्याशङ्क्य प्रतिपक्षनिर्णयादित्याह —

तस्या इति ।

ज्योतिःश्रुत्या तेजो ज्योतिरित्युक्त्वा तत्रैव लिङ्गमाह —

तथेति ।

ब्रह्मण्यपि युक्ता दीप्तिरित्यन्यथासिद्धिं वारयति —

नहीति ।

रूपादिमतः सावयवस्यैव दीप्तियोगादित्यर्थः ।

कार्ये ज्योतिषि लिङ्गान्तरमाह —

द्युमर्यादत्वेति ।

अन्यथासिद्धिं निरस्यति —

नहीति ।

असिद्धिं प्रत्याह —

कार्यस्येति ।

ज्योतिषो द्युमर्यादत्वश्रुतिरेव कीदृशी, तत्राह —

पर इति ।

ब्रह्मवत्कार्यस्यापि मर्यादायोगादनर्थकं ब्राह्मणमित्याक्षिपति —

नन्विति ।

चोदकैकदेशी परिहरति —

अस्त्विति ।

त्रिवृत्कृतं तेजो दिवोऽर्वागपि गम्यते तथापीतरत्ततः परस्ताद्भविष्यति, वेदस्यादुष्टत्वेनानर्थक्यायोगादित्यर्थः ।

त्रिवृत्कृतस्यैवार्थक्रियावत्त्वादफलेऽन्यस्मिन्न वाक्यप्रामाण्यमित्याक्षेप्ता ब्रूते —

नेति ।

पूर्ववादिदेशीयः शङ्कते —

इदमेवेति ।

निष्फलस्योपास्यतापि नेत्याक्षेप्ताह —

नेति ।

अत्रिवृत्कृतं तेजोऽङ्गीकृत्याफलत्वमुक्त्वा तदेव नेत्याह —

तासामिति ।

देवतानां तेजोऽबन्नानामेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकं भागं तथा कृत्वा तदितरयोर्निक्षिप्य त्रिगुणरज्जुवत्रिवृतं करवाणीत्यविशेषोक्तेर्नात्रिवृत्कृतं तेजोऽस्तीत्यर्थः ।

तदस्तित्वेऽपि यच्छब्दोपबन्धात्सिद्धवत्परामर्शादन्यतस्तस्य द्युमर्यादत्वं वाच्यं, तन्नास्तीत्याह —

न चेति ।

पूर्वपक्षैकदेशिनि परेण परास्ते परमपूर्ववाद्याह —

अस्त्विति ।

तत्राक्षेप्ता स्वोक्तं स्मारयति —

नन्विति ।

पूर्ववाद्याह —

नेति ।

तर्हि ब्रह्मण एव ध्यानार्थो देशविशेषः स्यात् , नेत्याह —

नत्विति ।

अप्रदेशस्य प्रदेशकल्पनागौरवादयुक्तेत्यर्थः ।

इतश्च कार्यमेव ज्योतिरत्रोपास्यमित्याह —

सर्वत इति ।

ब्रह्मण्यवच्छेदकल्पनयाधारबहुत्वयोगेऽपि कार्ये ज्योतिषि स्वतस्तत्सिद्धिरित्यतिशयमाह —

तारामिति ।

उपास्यज्योतिषो ब्रह्मत्वाभावे हेत्वन्तरमाह —

इदमिति ।

अध्यासेऽपि ज्योतिर्ब्रह्मास्तु, नेत्याह —

सारूप्येति ।

तत्र मानमाह —

यथेति ।

एकत्वसाम्याद्भूरित्यस्मिन्नक्षरे प्रजापतेः शिरोदृष्टिरुक्ता तथात्रापि सारूप्यं वाच्यम् , अन्यथाध्यासासिद्धेरित्यर्थः ।

कौक्षेयमपि ज्योतिश्चैतन्यमेवेत्यनध्यासात्तादात्म्योक्तिरेषेत्याशङ्क्याह —

कौक्षेयस्येति ।

शब्दस्पर्शवत्त्वाभ्यामपि तदब्रह्मेत्याह —

तस्येति ।

एषा दृष्टिर्यदेतदुष्णिमानं स्पर्शेन विजानाति । एषा श्रुतिर्यत्कर्णावपिधाय निनदमिव श्रृणोतीति शेषः ।

दृष्टश्रुतिलिङ्गत्वान्न ज्योतिषोऽपि तदुच्यते तच्चाविवक्षितमित्याशङ्क्योपास्यत्वश्रुतेर्नैवमित्याह —

तदेतदिति ।

तदब्रह्मत्वे हेत्वन्तरमाह —

चक्षुष्य इति ।

चक्षुष्यो दर्शनीयः । श्रुतो विश्रुतः ।

ब्रह्मोपास्तिफलमपि किं न स्यात् , तत्राह —

महते हीति ।

मुक्तिफला ब्रह्मोपास्तिर्नाल्पफला युक्तेत्यर्थः ।

बहून्यब्रह्मलिङ्गनि स्ववाक्यस्थान्युक्त्वा ब्रह्मलिङ्गं किमपि तत्र नास्तीत्याह —

नचेति ।

ज्योतिषो ब्रह्मलिङ्गमपि किञ्चिदन्यन्नास्तीति सम्बन्धः ।

ननु पूर्ववाक्ये ‘त्रिपादस्यामृतं दिवि’ इत्युक्तं ब्रह्मैवात्र द्युसम्बन्धात्प्रत्यभिज्ञायते तत्र यच्छब्दपरामृष्टे ज्योतिःशब्दो वर्तते, नेत्याह —

नचेति ।

सर्वात्मत्वभूतादिपादत्वाभ्यां तदेतद्ब्रह्मेति वाक्याच्चोक्तमेव पूर्ववाक्ये ब्रह्मेत्याशङ्क्याह —

अथापीति ।

सप्तमीपञ्चमीभ्यामुक्तिभेदान्न तत्प्रत्यभिज्ञेति साधयति —

तत्रेति ।

ब्रह्मलिङ्गाभावात्तेजोलिङ्गभावात्तदेव कौक्षेयज्योतिष्यारोप्योपास्यमित्युपसंहरति —

तस्मादिति ।

प्राकृतं प्रकृतेर्जातं, कार्यमित्यर्थः ।

पूर्वपक्षानुवादेन सूत्रमवतार्य प्रतिज्ञार्थमाह —

एवमिति ।