ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अत एव प्राणः ॥ २३ ॥
अत्र केचिदुदाहरन्ति — ‘प्राणस्य प्राणम्’ ‘प्राणबन्धनं हि सोम्य मनः’ इति च । तदयुक्तम्; शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेः । यथा पितुः पितेति प्रयोगे, अन्यः पिता षष्ठीनिर्दिष्टात् प्रथमानिर्दिष्टः, पितुः पिता इति गम्यते । तद्वत् ‘प्राणस्य प्राणम्’ इति शब्दभेदात्प्रसिद्धात्प्राणात् अन्यः प्राणस्य प्राण इति निश्चीयते । न हि स एव तस्येति भेदनिर्देशार्हो भवति । यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकरणी निर्दिष्ट इति गम्यते; यथा ज्योतिष्टोमाधिकारे ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ब्रह्मणः प्रकरणे ‘प्राणबन्धनं हि सोम्य मनः’ इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् । अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम् । प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः ॥ २३ ॥

वृत्तिकृतामुदाहरणमाह —

अत्रेति ।

सर्वत्र सन्दिग्धं वाक्यमुदाहृत्य निर्णीयते, इदं त्वसन्देहान्नैवमिति दूषयति —

तदिति ।

शब्दभेदं विवृणोति —

यथेति ।

प्राणस्य पञ्चधा वृत्तिहेतुस्तत्साक्षी तस्य प्राण इत्युच्यते ।

राहोः शिर इतिवद्व्यपदेशमाशङ्क्य घटो घटस्येत्यदृष्टेर्नैवमित्याह —

नहीति ।

प्रकरणं प्रपञ्चयति —

यस्येति ।

तदेव दृष्टान्तेन स्पष्टयति —

यथेति ।

प्राणः परमात्मा बन्धमाश्रयः स्वरूपं यस्येति विग्रहः ।

वाक्ययोर्निश्चितार्थत्वे फलितमाह —

अत इति ।

त्वदुदाहरणेऽपि वाक्यशेषविरोधात्तुल्यमसन्दिग्धत्वमित्याशङ्क्याह —

प्रस्तावेति ॥ २३ ॥