ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अत एव प्राणः ॥ २३ ॥
अत एव प्राणःइतितल्लिङ्गादिति पूर्वसूत्रे निर्दिष्टम्अत एव तल्लिङ्गात्प्राणशब्दमपि परं ब्रह्म भवितुमर्हतिप्राणस्यापि हि ब्रह्मलिङ्गसम्बन्धः श्रूयतेसर्वाणि वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते’ (छा. उ. १ । ११ । ५) इतिप्राणनिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतःननूक्तं मुख्यप्राणपरिग्रहेऽपि संवेशनोद्गमनदर्शनमविरुद्धम् , स्वापप्रबोधयोर्दर्शनादितिअत्रोच्यतेस्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, सर्वेषां भूतानाम्इह तु सेन्द्रियाणां सशरीराणां जीवाविष्टानां भूतानाम् , ‘सर्वाणि वा इमानि भूतानिइति श्रुतेःयदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते, तदापि ब्रह्मलिङ्गत्वमविरुद्धम्ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबोधयोः प्राणेऽप्ययं प्राणाच्च प्रभवं शृणुमःयदा सुप्तः स्वप्नं कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति’ (कौ. उ. ३ । ३) इतितत्रापि तल्लिङ्गात्प्राणशब्दं ब्रह्मैवयत्पुनरुक्तमन्नादित्यसन्निधानात्प्राणस्याब्रह्मत्वमिति, तदयुक्तम्वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतायां प्रतीयमानायां सन्निधानस्याकिञ्चित्करत्वात्यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वम् , तदाकाशशब्दस्येव प्रतिविधेयम्तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम्

ज्यायस्त्वादिवन्नात्र लिङ्गं भातीत्यशङ्क्याह —

प्राणस्येति ।

ब्रह्मलिङ्गं स्फोरयितुं श्रुतेरर्थमाह —

प्राणेति ।

वाक्यशेषस्यान्यथासिद्धिं स्मारयति —

नन्विति ।

स्वापाद्युक्तेः संवर्गविद्याधिकारात्प्रकृतोक्तेश्चोद्गीथसम्बन्धान्नानयोरेकवाक्यतेत्याह —

अत्रेति ।

किञ्च वाक्यशेषस्थो भूतशब्दो योगाद्विकारजातं ब्रूयात् , रूढ्या वा महाभूतानि । आद्ये, प्रकृतवाक्यस्य न स्वापादिवाक्येन तुल्यार्थतेत्याह —

स्वापेति ।

प्रकृतश्रुतेर्विकारमात्रलयाद्यर्थत्वे सर्वशब्दश्रुतिमनुकूलयति —

सर्वाणीति ।

तथाच प्राणार्थत्वेऽपि स्वापोक्तेर्नास्यास्तादर्थ्यम् । नहि विकारमात्रसंवेशनादि परस्मादन्यत्र लभ्यमित्यर्थः ।

कल्पान्तरं प्रत्याह —

यदेति ।

प्राणस्य भौतिकत्वान्न महाभूतयोनितेत्यर्थः ।

भूतशब्देन विकारजातग्रहेऽपि न मुख्यप्राणप्रत्युक्तिरिति शङ्कते —

नन्विति ।

प्राणशब्दलक्ष्ये चिदात्मनि जीवैक्यापत्तौ भेदकवाद्युपाधीनां जडं प्राणमुद्दिश्य लयः स्यादित्याह —

तदेति ।

जीवनैकतया प्राप्यत्वलिङ्गादशेषविकारलयस्थानत्वलिङ्गाच्च न मुख्यप्राणार्थत्वं तस्यापीत्याह —

तत्रेति ।

सन्निधेरधिकाशङ्कामुक्तामनुभाषते —

यदिति ।

लिङ्गेन बाध्यः सन्निधिरित्याह —

तदिति ।

एकवाक्यत्वं वाक्यशेषस्तद्बलं तद्गतं लिङ्गं तेन ब्रह्मता प्राणस्य स्थिता, स्ववाक्यस्थलिङ्गस्य वाक्यान्तरस्थसन्निधेर्बलीयस्त्वात् , अतो नास्याब्रह्मतेत्यर्थः ।

सन्निधेरब्रह्मताभावेऽपि प्राणस्य श्रुतेरब्रह्मतेत्याशङ्क्याह —

यदीति ।

जगत्प्रकृतित्वावधारणोपबृंहितं प्रतिपिपादयिषितं देवताशब्दितं चेतनत्वं प्राणश्रुतिं बाधित्वा ब्रह्म लक्षयतीत्याह —

तदिति ।

प्राणशब्देन कारणब्रह्मलक्षणात्तद्दृष्ट्या प्रस्तावोपास्तिमुपसंहरति —

तस्मादिति ।