आकाशवाक्योक्तमनन्तरवाक्येऽतिदिशति —
अत एवेति ।
तत्रोदाहरणम् —
उद्गीथ इति ।
‘परोवरीयांसमुद्गीथमुपास्ते’ इत्युक्तत्वात् । ‘अथातः शौव उद्गीथः’ इति च वक्ष्यमाणत्वादुद्गीथाधिकारे प्रासङ्गिकं प्रस्तावध्यानमिति वक्तुमुद्गीथ इत्युक्तम् । कश्चिदृषिश्चाक्रायणो नाम धनार्थं राज्ञो यज्ञं गत्वा ज्ञानवैभवं स्वस्य प्रकटयन्प्रस्तोतारमुवाच, हे प्रस्तोतः, या देवता प्रस्तावं भक्तिविशेषमन्वायत्ता तां चेदविद्वान्मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ।
स भीतः सन्पप्रच्छ —
कतमा
इत्यादिना ।
प्रतिवचनम् —
प्राण इति ।
मुख्यप्राणं व्यावर्तयति —
सर्वाणीति ।
प्राणमभिलक्ष्य लयकाले संविशन्ति, जन्मकाले तमेवाभिलक्ष्योज्जिहत उद्गच्छन्ति, सैषा परा देवता प्रस्तावं भक्तिविशेषमनुगतेत्यर्थः ।
अतिदेशकृतमर्थमाह —
तत्रेति ।
आकाशशब्दस्योभयत्र प्रयुक्तेः संशयेऽपि प्राणशब्दस्य नैवमिति कुतः संशयादिः, तत्राह —
प्राणेति ।
मनःशब्दलक्ष्यं तत्साक्षिचैतन्यं प्राणे परस्मिन्नैक्येन स्थितमित्यर्थः ।
ये प्राणस्य पञ्चवृत्तेर्वायुविकारस्य प्राणं सत्तास्फूर्तिदमात्मानं विदुस्ते ब्रह्म जानन्तीत्याह —
प्राणस्येति ।
अमृतः प्राणो ब्रह्मैवेत्यादिसङ्ग्रहार्थमादिपदम् ।
तथापि कुतः संशयः, तत्राह —
वाय्विति ।
हेतुमुक्त्वा फलमाह —
अत इति ।
इहेति प्रस्ताववाक्योक्तिः ।
अनन्तार्थपरोपक्रमोपसंहाराभ्यामाकाशस्य ब्रह्मत्वेऽप्यत्र ब्रह्मासाधारणधर्मोपक्रमाद्यदृष्टेर्न ब्रह्मतेति धिया विमृश्य पूर्वपक्षयति —
किमिति ।
प्रस्तावश्रुतेः स्पष्टब्रह्मलिङ्गतया ब्रह्मणि प्रस्तावेऽध्यस्य ध्येये समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्राणदृष्ट्या प्रस्तावोपास्तिः सिद्धान्ते ब्रह्मदृष्ट्येति फलम् ।
वैदिकप्राणशब्दस्य तादृक्प्रयुक्तिसिद्धे ब्रह्मणि वाचकत्वमाशङ्क्याह —
तत्रेति ।
तात्पर्यरहितलौकिकवैदिकप्रयोगत्यागात्तात्पर्यवदनेकलिङ्गात्पूर्वन्यायेन ब्रह्म ग्राह्यमिति शङ्कते —
नन्विति ।
ज्यायस्त्वादि लिङ्गमत्र नास्तीत्याशङ्क्याह —
इहेति ।
अन्यथासिद्धेर्न श्रुतिबाधकतेत्यह —
नेति ।
तदेवं वैदिकं दर्शनमाह —
एवं हीति ।
तर्हि तस्यामवस्थायामिति यावत् । वाक् अनुक्तकर्मेन्द्रियोपलक्षणम् । चक्षुःश्रोत्रे तादृग्बुद्धीन्द्रियाणाम् । बुद्धिरपि मनसा लक्ष्यते ।
प्राणस्यापि स्वापे बुद्ध्यादिवल्लयान्न लयस्थानतेत्याशङ्क्याह —
प्रत्यक्षं चेति ।
ननु भूतानामुत्पत्त्यादिवाक्याशेषे श्रुतं भूतशब्दश्च प्राणिसमूहस्य महाभूतानां च वाचको नेन्द्रियमात्रस्य, तन्न प्राणे वाक्यशेषः सिद्धः तत्राह —
इन्द्रियेति ।
भूतेष्विन्द्रियाणि सूक्ष्मत्वाद्भोक्तृसामीप्याच्च साराणि, अतस्तेषां लयोदयोक्त्येतरेषामपि तत्सिद्धेः शेषघटनेत्यर्थः ।
अब्रह्मसाहचर्याच्च प्राणो न ब्रह्मेत्याह —
अपिचेति ।
उद्गात्रा कतमा सा देवतोद्गीथमन्वायत्तेति पृष्टश्चाक्रायणः प्रत्युवाच, आदित्य इति । प्रतिहर्त्रा च कतमा सा देवता प्रतिहारमन्वायत्तेति पृष्टोऽन्नमित्युवाचेत्यादिना भक्तिदेवते कार्यकरणवत्यावादित्यान्ने उक्ते । तयोरब्रह्मणोः सन्निधानात्प्राणस्यापि भक्तिदेवतात्वादब्रह्मतेत्यर्थः । सन्निध्यनुगृहीतप्रथमश्रुतप्राणश्रुत्या वायुविकारसिद्धौ तद्दृष्ट्या प्रस्तावोपास्तिरित्युपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।