ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
आकाशस्तल्लिङ्गात् ॥ २२ ॥
आकाशस्तल्लिङ्गात्’ । आकाशशब्देनेह ब्रह्मणो ग्रहणं युक्तम्कुतः ? तल्लिङ्गात्परस्य हि ब्रह्मण इदं लिङ्गम् — ‘सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेइतिपरस्माद्धि ब्रह्मणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादाननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्शितम्सत्यं दर्शितम्तथापि मूलकारणस्य ब्रह्मणोऽपरिग्रहात् , आकाशादेवेत्यवधारणं सर्वाणीति भूतविशेषणं नानुकूलं स्यात्तथाआकाशं प्रत्यस्तं यन्तिइति ब्रह्मलिङ्गम् , ‘आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्इति ज्यायस्त्वपरायणत्वेज्यायस्त्वं ह्यनापेक्षिकं परमात्मन्येवैकस्मिन्नाम्नातम्ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः’ (छा. उ. ३ । १४ । ३) इतितथा परायणत्वमपि परमकारणत्वात्परमात्मन्येव उपपन्नतरम् श्रुतिश्चविज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’ (बृ. उ. ३ । ९ । २८) इतिअपि चान्तवत्त्वदोषेण शालावत्यस्य पक्षं निन्दित्वा, अनन्तं किञ्चिद्वक्तुकामेन जैवलिनाकाशः परिगृहीतःतं चाकाशमुद्गीथे सम्पाद्योपसंहरति एष परोवरीयानुद्गीथः एषोऽनन्तः’ (छा. उ. १ । ९ । २) इतितच्चानन्त्यं ब्रह्मलिङ्गम्यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं प्रतीयत इति, अत्र ब्रूमःप्रथमतरं प्रतीतमपि सद्वाक्यशेषगतान्ब्रह्मगुणान्दृष्ट्वा परिगृह्यतेदर्शितश्च ब्रह्मण्यप्याकाशशब्दः आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) इत्यादौतथाकाशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दृश्यतेऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः’ (ऋ. सं. १ । १६४ । ३९) सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिता’ (तै. उ. ३ । ६ । १) कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) खं पुराणम्’ (बृ. उ. ५ । १ । १) इति चैवमादौवाक्योपक्रमेऽपि वर्तमानस्याकाशशब्दस्य वाक्यशेषवशाद्युक्ता ब्रह्मविषयत्वावधारणा । ‘अग्निरधीतेऽनुवाकम्इति हि वाक्योपक्रमगतोऽप्यग्निशब्दो माणवकविषयो दृश्यतेतस्मादाकाशशब्दं ब्रह्मेति सिद्धम् ॥ २२ ॥

रूढ्या प्रयोगबाहुल्याच्च सिद्धभूताकाशत्यागे न हेतुरिति शङ्कित्वा हेतुमादाय व्याचष्टे —

कुत इति ।

ननु वादिनः सर्वयोनित्वं ब्रह्मणो नेच्छन्ति तत्राह —

परस्माद्धीति ।

तस्यान्यथासिद्धिं स्मारयति —

नन्विति ।

उक्तमुपेत्य प्रत्याह —

सत्यमिति ।

तत्र तत्र तेजःप्रभृतिषु वाय्वादेरपि कारणत्वादवधारणासिद्धिः, मूलकारणापेक्षायां ब्रह्मण्येव तद्युक्तम् । सर्वाणीति भूतविशेषणं च भूताकाशपक्षे वाय्वादौ सङ्कुचितं स्यात्तस्मान्नान्यथासिद्धिरित्यर्थः ।

सर्वभूतोत्पादकत्ववत्तल्लयाधारत्वमपि ब्रह्मलिङ्गमित्याह —

तथेति ।

ब्रह्मणो लिङ्गद्वयमाह —

आकाशो हीति ।

भूताकाशस्यापि ज्यायस्त्वादि सापेक्षमुक्तमित्याशङ्क्याह —

ज्यायस्त्वमिति ।

नैरपेक्ष्यधिया तरपो वचनम् ।

न केवलं युक्त्यास्य परायणत्वं, श्रुतेरपीत्याह —

श्रुतिरिति ।

रातेर्धनस्य दातुर्यजमानस्येति । रातिरितिपाठे बन्धुरित्यर्थः ।

आकाशो ब्रह्मेत्यत्र लिङ्गान्तरमाह —

अपिचेति ।

शालावत्यो दाल्भ्यो जैवलिरित्युद्गीथविद्याकुशलानां किं परायणमुद्गीथस्येति विचारे स्वर्गलोक एवेति दाल्भ्योक्तं निरस्यायं लोक इति शालावत्योक्तौ ‘अन्तवद्वै किल ते शालावत्य साम’ इति पृथिवीलोकस्यान्तवत्त्वात्प्रतिष्ठितत्वं निन्दित्वा जैवलिना साम प्रतिष्ठारूपमनन्तमेव विवक्षता गृहीतमाकाशं नान्तवद्युक्तम् , अतो ब्रह्मैवाकाशमित्यर्थः ।

नन्वनन्तमाकाशमिह नोपसंह्रियते किन्तूद्गीथः, तत्कथमानन्त्यादाकाशो ब्रह्म, तत्राह —

तं चेति ।

'स एषः’ इत्याकाशात्मत्वोक्तिः । देशतोऽनन्तत्वं परत्वम् । गुणत उत्कृष्टत्वं वरीयस्त्वम् । कालतो वस्तुतश्चापरिच्छिन्नत्वमानन्त्यम् । परेभ्यः स्वरादिभ्योऽतिशयेन श्रैष्ठ्यं वा परोवरीयस्त्वम् ।

तथापि कथमाकाशो ब्रह्म तत्राह —

तच्चेति ।

नाब्रह्मणस्त्रिधानन्त्यं, तेनोपक्रमोपसंहारप्रतिपाद्यतात्पर्यवदानन्त्यमाकाशस्य ब्रह्मत्वबोधीत्यर्थः ।

श्रुतिबाधो लिङ्गान्न दृष्ट इत्युक्तमनुवदति —

यदिति ।

‘त्यजेदेकं कुलस्यार्थे’ इतिन्यायाद्भूयसीनां ब्रह्मलिङ्गश्रूतीनामनुग्रहायाकाशश्रुतेरेकस्या बाध इत्याह —

अत्रेति ।

किञ्चाकाशशब्दस्य ब्रह्मणि प्रयोगप्राचुर्यादत्यन्ताभ्यासेन गौणादपि तस्मादाद्या धीः स्यादित्याह —

दर्शितश्चेति ।

नाकाशशब्दस्यैव ब्रह्मणि बहुकृत्वः प्रयोगः, तत्पर्यायाणां चेत्याह —

तथेति ।

व्योमन्व्योम्नि, परमे प्रकृष्टे, अक्षरे कूटस्थे ब्रह्मणि, ऋगुपलक्षिताः सर्वे वेदा ज्ञापकाः सन्ति, यस्मिन्नक्षरे विश्वे देवा अधि निषेदुरधिष्ठिताः, स्वरूपत्वेन प्रविष्टा इत्यर्थः । भार्गवी भृगुणा प्राप्ता । वारुणी वरुणेनोक्ता । सैषा विद्या ‘आन्दो ब्रह्मेति व्यजानात्’ इति प्रकृता परस्मिन्ब्रह्मणि व्योम्नि स्थितेत्यर्थः ।

ओङ्कारस्य प्रतीकत्वेन वाचकत्वेन लक्षकत्वेन वा ब्रह्मत्वमुक्तम् —

ओमिति ।

कं सुखं तस्यार्थेन्द्रिययोगजत्वं वारयितुम् —

खमिति ।

तस्य भूताकाशत्वं व्यासेद्धुम् —

पुराणमित्युक्तम्।

किञ्च तत्रैव प्रथमानुगुण्येनोत्तरं नीयते, यत्र तन्नेतुं शक्यं, यत्र त्वशक्यं तत्रोत्तरानुगुण्येनेतरन्नेयमित्याह —

वाक्येति ।

तत्र दृष्टान्तः —

अग्निरिति ।

आकाशश्रुतेर्गौणत्वे फलितमुपसंहरति —

तस्मादिति ॥ २२ ॥