ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आकाशस्तल्लिङ्गात् ॥ २२ ॥
इदमामनन्ति ‘अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’ (छा. उ. १ । ९ । १) इति । तत्र संशयः — किमाकाशशब्देन परं ब्रह्माभिधीयते, उत भूताकाशमिति । कुतः संशयः ? उभयत्र प्रयोगदर्शनात् । भूतविशेषे तावत्सुप्रसिद्धो लोकवेदयोराकाशशब्दः । ब्रह्मण्यपि क्वचित्प्रयुज्यमानो दृश्यते, यत्र वाक्यशेषवशादसाधारणगुणश्रवणाद्वा निर्धारितं ब्रह्म भवति — यथा ‘यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) इति, ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति चैवमादौ । अतः संशयः । किं पुनरत्र युक्तम् ? भूताकाशमिति । कुतः ? तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति । न चायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुम् , अनेकार्थत्वप्रसङ्गात् । तस्माद्ब्रह्मणि गौण आकाशशब्दो भवितुमर्हति । विभुत्वादिभिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति । न च मुख्यसम्भवे गौणोऽर्थो ग्रहणमर्हति । सम्भवति चेह मुख्यस्यैवाकाशस्य ग्रहणम् । ननु भूताकाशपरिग्रहे वाक्यशेषो नोपपद्यते — ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इत्यादिः नैष दोषः, भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेः । विज्ञायते हि — ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निः’ (तै. उ. २ । १ । १) इत्यादि । ज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपद्येते भूताकाशस्यापि । तस्मादाकाशशब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते ब्रूमः —

पूर्वत्राव्यभिचारिलिङ्गेन रूपवत्त्वाद्यन्यथा नीतम् । इह तु लिङ्गान्न श्रुतिरन्यथयितव्येति प्राप्ते प्रत्याह —

आकाश इति ।

छान्दोग्यवाक्यमेवोदाहरति —

इदमिति ।

'हन्ताहमेतद्भगवत्तो वेदानि’ इत्युपसन्नः शालावत्यः ‘विद्धि’ इति जैवलिनोक्ते पृच्छति —

अस्येति ।

सर्वस्यैव प्रपञ्चस्य प्रतिष्ठाप्रश्ने प्रवाहणस्योत्तरमाह —

आकाश इति ।

कथं भूताकाशः सर्वजगत्प्रतिष्ठा, तत्राह —

सर्वाणीति ।

उपनिषदां तदभिज्ञानां च प्रसिद्धमेतदिति द्योतकौ निपातौ ।

निमित्तमात्रत्वं निराकर्तुं विशिनष्टि —

आकाशमिति ।

भूताकाशव्यावृत्तये हेत्वन्तरमाह —

आकाशो हीति ।

तत्रैव हेत्वन्तरं सूचयति —

आकाश इति ।

विचारबीजं संशयमाह —

तत्रेति ।

अनतिप्रसङ्गार्थं प्रश्नद्वारा निमित्तमाह —

कुत इति ।

क्वचिदित्युक्तं स्पष्टयति —

यत्रेति ।

असाधारणगुणश्रुतेराकाशशब्दस्य ब्रह्मार्थत्वे दृष्टान्तः —

यथेति ।

असाधारणेनानन्देनान्यत्रासम्भावितेन सामानाधिकरण्यादाकाशो ब्रह्मेत्यर्थः ।

वाक्यशेषादाकाशस्य ब्रह्मत्वे दृष्टान्तमाह —

आकाश इति ।

निपातावाकाशस्य नामरूपोपलक्षितसर्वप्रपञ्चनिर्वाहकत्वप्रसिद्ध्यर्थौ । ते नामरूपे यदन्तरा यस्मादन्ये यस्य वा मध्ये स्तः, तन्नामरूपास्पृष्टं ब्रह्मेति वाक्यशेषादत्राकाशो ब्रह्मेत्यर्थः । ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ इत्यादिवाक्यसङ्ग्रहार्थमादिपदम् । यथैवमादावाकाशो ब्रह्म तथात्रापीति योजना ।

रूढिनिरूढिभ्यां संशयमुपसंहरति —

अत इति ।

विमृश्य पूर्वपक्षयति —

किं पुनरिति ।

स्फुटब्रह्मलिङ्गोक्तश्रुतेरुद्गीथे सम्पाद्योपास्ये ब्रह्मणि समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे भूताकाशदृष्ट्योद्गीथोपास्तिः, सिद्धान्ते ब्रह्मदृष्ट्येति फलम् ।

वैदिकप्रयोगस्य तादृक्प्रयोगाद्ब्रह्मार्थत्वे सिद्धे कुतो भूताकाशार्थतेति शङ्कित्वा हेतुमाह —

कुत इति ।

प्रथमश्रुताकाशश्रुत्या भूतार्थे रूढ्या चरमश्रुतब्रह्मलिङ्गबाधान्न श्रुत्यन्तरेण ब्रह्मार्थतेत्यर्थः ।

ब्रह्मण्यपि साधारणत्वान्नाकाशश्रुतिर्ब्रह्मलिङ्गबाधिकेत्याशङ्क्याह —

नचेति ।

एकस्यापि गोशब्दस्यानेकार्थत्वमगत्याऽभीष्टं, ब्रह्मणि त्वाकाशशब्दो गौणत्वेनापि गच्छतीत्याह —

तस्मादिति ।

गौणत्वार्थं गुणयोगमाह —

विभुत्वेति ।

गुणवृत्तेरपि शब्दवृत्तित्वात्तया किं न ब्रह्म गृह्यते, तत्राह —

नचेति ।

ननु नेह मुख्यं सम्भवति तत्र सर्वकारणत्वायोगादतो मुख्यगौणयोर्मुख्ये संप्रत्ययन्यायस्यानवकाशत्वं, तत्राह —

सम्भवतीति ।

तदेव साधयितुं शङ्कयति —

नन्विति ।

आकाशस्य प्रथमश्रुतत्वेनासञ्जातविरोधित्वात्तद्बुद्धौ तदेकवाक्यस्थमुपस्थितं सर्वमुपजातविरोधित्वात्तदानुगुण्येन नेयमित्याह —

नेति ।

तत्रैव तैत्तिरीयकश्रुतिसंवादमाह —

विज्ञायते हीति ।

तथापि कथं वाक्यशेषो भूताकाशे स्यात् , तत्राह —

ज्यायस्त्वेति ।

भूताकाशेऽपि शेषोपपत्तौ फलितमाह —

तस्मादिति ।

भूताकाशदृष्ट्योद्गीथोपास्तिरिति प्राप्तमनूद्य सिद्धान्तयति —

एवमिति ।