उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्री्ह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह —
भेदेति ।
आदित्यक्षेत्रज्ञादन्तर्यामिणः ।
श्रुत्यन्तरे भेदोक्तेस्ततोऽन्य ईश्वरः सिद्ध इत्यक्षरार्थमाह —
अस्तीति ।
आदित्यमण्डले स्थितरश्मिपुञ्जस्यापि स्यादित्यत उक्तम् —
आदित्यादिति ।
तज्जीवं व्युदस्यति —
यमिति ।
तस्य देहित्वे जीवत्वमदेहित्वे न नियन्तृतेत्याशङ्क्याह —
यस्येति ।
इतश्चादित्यजीवादन्योऽसावित्याह —
य इति ।
तस्य ताटस्थ्यं वारयति —
एष इति ।
श्रुत्यन्तरस्याप्यनीश्वरविषयत्वमाशङ्क्याह —
तत्रेति ।
तथापि प्रत्यभिज्ञापकाभावान्नेह तदुपास्तिरित्याशङ्क्याह —
स एवेति ।
आदित्यान्तःस्थत्वश्रुतिसाम्यात्प्रत्यभिज्ञया पर एवोद्गीथे ध्येयत्वेनोपदिश्यत इत्युपसंहरति —
तस्मादिति ॥ २१ ॥