ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
अन्तस्तद्धर्मोपदेशात् इति । ‘ एषोऽन्तरादित्ये’, ‘ एषोऽन्तरक्षिणिइति श्रूयमाणः पुरुषः परमेश्वर एव, संसारीकुतः ? तद्धर्मोपदेशात्तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाःतद्यथा — ‘तस्योदिति नामइति श्रावयित्वा अस्यादित्यपुरुषस्य नाम एष सर्वेभ्यः पाप्मभ्य उदितःइति सर्वपाप्मापगमेन निर्वक्तितदेव कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति — ‘यन्नाम तन्नामइतिसर्वपाप्मापगमश्च परमात्मन एव श्रूयते आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादौतथा चाक्षुषे पुरुषेसैव ऋक् तत्साम तदुक्थं तद्यजुस्तद्ब्रह्मइति ऋक्सामाद्यात्मकतां निर्धारयतिसा परमेश्वरस्योपपद्यते, सर्वकारणत्वात्सर्वात्मकत्वोपपत्तेःपृथिव्यग्न्याद्यात्मके चाधिदैवतमृक्सामे, वाक्प्राणाद्यात्मके चाध्यात्ममनुक्रम्याह — ‘तस्यर्क्च साम गेष्णौइत्यधिदैवतम्तथाध्यात्ममपि — ‘यावमुष्य गेष्णौ तौ गेष्णौइतितच्च सर्वात्मकत्वे सत्येवोपपद्यतेतद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः’ (छा. उ. १ । ७ । ६) इति लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयतितच्च परमेश्वरपरिग्रह एव घटतेयद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वातत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्’ (भ. गी. १० । ४१) इति भगवद्गीतादर्शनात्लोककामेशितृत्वमपि निरङ्कुशं श्रूयमाणं परमेश्वरं गमयतियत्तूक्तं हिरण्यश्मश्रुत्वादिरूपवत्त्वश्रवणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमःस्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् , माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’(म॰भा॰ १२-३३९-४५) सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि’(म॰भा॰ १२-३३९-४६) इति स्मरणात्अपि , यत्र तु निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते, भवति तत्र शास्त्रम् अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५) इत्यादिसर्वकारणत्वात्तु विकारधर्मैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यतेसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’ (छा. उ. ३ । १४ । २) इत्यादिनातथा हिरण्यश्मश्रुत्वादिनिर्देशोऽपि भविष्यतियदप्याधारश्रवणान्न परमेश्वर इति, अत्रोच्यतेस्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो भविष्यतिसर्वगतत्वाद्ब्रह्मणो व्योमवत्सर्वान्तरत्वोपपत्तेःऐश्वर्यमर्यादाश्रवणमप्यध्यात्माधिदैवतविभागापेक्षमुपासनार्थमेवतस्मात्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते ॥ २० ॥

प्रथमश्रुतरूपवत्त्वादिना चरमश्रुतसर्वपाप्मविगमादेर्नेयत्वान्न परस्य प्राप्तिरित्याह —

कुत इति ।

फलवत्पाप्मविगमादिलिङ्गस्य चरमस्यापि तच्छून्यत्वेनाविवक्षिताल्लिङ्गादाद्यादपि बलीयस्त्वात्तद्वशेनेतरन्नेयमित्याह —

तद्धर्मेति ।

इहेति स्थानद्वयस्थपुरुषोक्तिः ।

आदित्यक्षेत्रज्ञस्यापि कर्मानधिकारात्पाप्मास्पर्शो युक्तः, ‘न ह वै देवान्पापम् ‘ इति श्रुतेरित्याशङ्क्याह —

सर्वेति ।

देवादिषु पश्वादिवत्कर्मानधिकारेऽपि प्राचिभवे सञ्चितपापयोगात्तदल्पत्वात् ‘न ह वै देवान् ‘ इत्युक्तेर्न जीवः सर्वपापास्पृष्टः । प्रदेशान्तरे च तस्य परस्मिन्नेव श्रुतेरत्रापि तद्दृष्ट्या तत्प्रत्यभिज्ञानात्तस्यैवोपास्यतेति भावः ।

सार्वात्म्यमपि श्रुतं न संसारिणि युक्तमित्याह —

तथेति ।

तत्र तच्छब्दैश्चाक्षुषनरोक्तिः । ऋगादिविधेयापेक्षया विलक्षणलिङ्गोक्तिः । उक्थं शस्त्रविशेषः । तत्साहचर्यात्तत्साम स्तोत्रं, उक्थादन्यच्छस्त्रमृगुच्यते ।

ब्रह्म त्रयोवेदाः ऋगाद्यात्मना चाक्षुषस्य संसारित्वेऽपि स्तुतिरुपास्त्यर्थमित्याशङ्क्य मुख्यसम्भवे नामुख्यकल्पनेत्याह —

सा चेति ।

तत्रैव हेत्वन्तरमाह —

पृथिवीति ।

ऋगधिदैवतं पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा । साम चाग्निवाय्वादित्यचन्द्रादित्यगतपरकृष्णाख्यातिकृष्णरूपं ‘इयमेवर्गग्निः साम’ इत्यादिनोक्तम् । अध्यात्मं च वाक्चक्षुःश्रोत्राक्षिगतशुक्लभालक्षणा तावदृगुक्ता । साम च प्राणच्छायात्ममनोऽक्षिस्थकृष्णभारूपं ‘वागेवर्क्प्राणः साम’ इत्यादिनोक्तम् । एवमुभयत्रोक्तरूपे ऋक्सामे क्रमेणोक्त्वा पुरुषस्योक्तप्रकारर्क्चाभिहितप्रकारं साम चेत्येते द्वे गेष्णौ पादपर्वणी इति देवतायामुक्त्वात्मन्यपि तयोर्ऋक्सामयोरतिदेशेन गेष्णत्वमुक्तमित्यर्थः ।

तदपि संसारिविषयं किं न स्यात् , नेत्याह —

तच्चेति ।

तत्रैव हेत्वन्तरमाह —

तद्य इति ।

व्यवहारभूमिस्तच्छब्दार्थः । धनसनयो धनस्य लब्धारः । विभूतिमन्त इत्यर्थः ।

राजादीनामपि श्रीमतां गीयमानत्वदृष्टेरन्यथासिद्धिमाशङ्क्याह —

तच्चेति ।

उक्तेऽर्थे स्मृतिमनुकूलयति —

यद्यदिति ।

धनादिसमृद्धिमत्त्वं विभूतिमत्त्वम् । कान्तिमत्त्वं श्रीमत्त्वम् । बलवत्त्वमौर्जित्यम् ।

ईश्वरपक्षे हेत्वन्तरमाह —

लोकेति ।

निरङ्कुशमनन्याधीनम् ।

सर्वपाप्मविरहादिना तस्यैवोपास्यतेत्युक्त्वा परोक्तमनुवदति —

यत्त्विति ।

रूपवत्त्वं नावश्यं संसारिलिङ्गमित्याह —

अत्रेति ।

मायामयस्यापि रूपस्य हिरण्यश्मश्रुत्वादिनियमे हेतुमाह —

इच्छेति ।

तथाविधरूपोपयोगमाह —

साधकेति ।

तस्येच्छापि मायामयीति मत्वाह —

मायेति ।

यथादृष्टि देहादिवैशिष्ट्यमीश्वरस्य तात्त्विकमित्याशङ्क्याह —

सर्वेति ।

अरूपश्रुतिविरुद्धं रूपवत्त्वमित्युक्तमाशङ्क्य विषयभेदमाह —

अपिचेति ।

तात्त्विकमैश्वरं रूपमाश्रित्याशब्दादिशास्त्रे कथं तस्य रूपादिमत्त्वोक्तिः, तत्राह —

सर्वेति ।

निर्विशेषमेव ब्रह्मात्र प्रतिपाद्यं तज्ज्ञानादेव मुक्तिरित्याशङ्क्योपास्तिवाक्यत्वात्सविशेषोक्तिरित्याह —

तथेति ।

स्वमहिमप्रतिष्ठस्याधारायोगादत्र चाधारश्रुतेरीश्वरादर्थान्तरतेत्युक्तमनुवदति —

यदपीति ।

आधारानपेक्षस्यापि फलवशात्तदुक्तेर्नानीश्वरतेत्याह —

अत्रेति ।

किमित्युपासनायै तदुक्तिः, साक्षादेव किं न स्यात् , तत्राह —

सर्वगतत्वादिति ।

मर्यादावदैश्वर्यमीश्वरस्य नेत्युक्तं प्रत्याह —

ऐश्वर्येति ।

एकस्यैवेश्वरस्य स्थानभेदावच्छेदादैश्वर्यमर्यादाकरणं पृथगनुध्यानार्थं न परिच्छेदप्राप्त्यर्थमित्यर्थः ।

परोक्तलिङ्गानामन्यथात्वे फलितमाह —

तस्मादिति ॥ २० ॥