ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
इदमाम्नायतेअथ एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश प्रणखात्सर्व एव सुवर्णः’ (छा. उ. १ । ६ । ६),तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम एष सर्वेभ्यः पाप्मभ्य उदित उदेति वै सर्वेभ्यः पाप्मभ्यो एवं वेद’ (छा. उ. १ । ६ । ७)‘... इत्यधिदैवतम्’ (छा. उ. १ । ६ । ८) थाध्यात्मम् ...’ (छा. उ. १ । ७ । १) अथ एषोऽन्तरक्षिणि पुरुषो दृश्यते’ (छा. उ. १ । ७ । ५) इत्यादितत्र संशयःकिं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यत्वेन श्रूयते, किं वा नित्यसिद्धः परमेश्वर इतिकिं तावत्प्राप्तम् ? संसारीतिकुतः ? रूपवत्त्वश्रवणात्आदित्यपुरुषे तावत्हिरण्यश्मश्रुःइत्यादि रूपमुदाहृतम्अक्षिपुरुषेऽपि तदेवातिदेशेन प्राप्यतेतस्यैतस्य तदेव रूपं यदमुष्य रूपम्इति परमेश्वरस्य रूपवत्त्वं युक्तम् , अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५) इति श्रुतेः; आधारश्रवणाच्च — ‘ एषोऽन्तरादित्ये एषोऽन्तरक्षिणिइति ह्यनाधारस्य स्वमहिमप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७ । २४ । १) इति आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति श्रुती भवतःऐश्वर्यमर्यादाश्रुतेश्च एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां ’ (छा. उ. १ । ६ । ८) इत्यादित्यपुरुषस्य ऐश्वर्यमर्यादा एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां ’ (छा. उ. १ । ७ । ६) इत्यक्षिपुरुषस्य परमेश्वरस्य मर्यादावदैश्वर्यं युक्तम्; एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय’ (बृ. उ. ४ । ४ । २२) इत्यविशेषश्रुतेःतस्मान्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते ब्रूमः

समन्वयस्य सविशेषपरत्वमपोद्योत्सर्गः स्थापितः । अधुनापवादार्थत्वेनाधिकरणमवतारयति —

अन्तरिति ।

छान्दोग्यस्थं वाक्यमुदाहरति —

इदमिति ।

ऋक्सामयोः पृथिव्यग्न्याद्यात्मत्वोक्त्यनन्तरमुपास्तिप्रस्तावार्थोऽथशब्दः ।

‘य एष’ इति शास्त्रप्रसिद्धिः, सन्निधिश्चोक्ता । तस्योपास्त्यर्थमाधिदैविकं स्थानमाह —

अन्तरिति ।

आदित्यमण्डलस्य मध्ये स्थित इति यावत् ।

ध्यानार्थमेव रूपविशेषमाह —

हिरण्मय इति ।

ज्योतिर्मय इत्यर्थः ।

स्थानकृतं परिच्छेदं व्यवच्छिनत्ति —

पुरुष इति ।

तत्रावहितधियामनुभवं प्रमाणयति —

दृश्यत इति ।

तर्हि पुरुषत्वात्पूर्णस्य कथमुपास्तिः, तत्राह —

हिरण्येति ।

तद्वज्ज्योतिर्मयान्येवास्य श्मश्रूणि केशाश्चेति तथोक्तः । किं बहुना, आप्रणखात् प्रणखो नखाग्रं तेन सह सर्व एव सुवर्णो ज्योतिर्मयः ।

चक्षुषोर्विशेषमाह —

तस्येति ।

कपेर्मर्कटस्यासः पृष्ठभागोऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथात्यन्तदीप्तिमत्तथास्य देवस्याक्षिणी प्रकृष्टदीप्तिमती ।

ध्यानार्थमेव नाम करोति —

तस्येति ।

कथं तस्योदितिनामत्वं, तदाह —

स इति ।

उदित उद्गतः । सकार्यसर्वपापास्पृष्ट इत्यर्थः । ध्यानफलमुदेतीति । आदिशब्दात् ‘तस्यर्च्क साम च गेष्णौ’ इत्याद्युक्तमधिदैवतं, देवतामधिकृत्योपास्तिवाक्यमित्यर्थः ।

आधिदैवध्यानोक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह —

अथेति ।

ऋक्सामयोर्वाक्प्राणाद्यात्मत्वोक्त्यानन्तर्यमथेत्युक्तम् । आदिशब्दात् ‘सैवर्क् तत्साम’ इत्याद्युक्तम् ।

स्थानद्वयस्थं पुरुषं विषयीकृत्य रूपत्त्वश्रुत्या सर्वपापास्पर्शश्रुत्या च संशयमाह —

तत्रेति ।

कश्चिदित्यादित्यक्षेत्रज्ञ उक्तः । पूर्वसूत्रे ब्रह्मपदमानन्दमयपदमानन्दपदार्थाभ्यासश्चेति मुख्यत्रयार्थबहुप्रमाणवशान्निर्विशेषनिर्णयवद्रूपवत्त्वादिबहुप्रमाणात्संसारी हिरण्मयः पुरुष इति सङ्गत्या पूर्वपक्षमाकाङ्क्षापूर्वकमाह —

किं तावदिति ।

स्फुटब्रह्मलिङ्गोक्तश्रुते सगुणे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वोत्तरपक्षयोरपरस्य परस्य चोपास्तिरेव फलम् ।

सर्वैरुपास्यत्वाय पर एव कस्मान्नेति पृष्ट्वा हेतुमाह —

कुत इति ।

चाक्षुषे पुरुषे यथोक्तं रूपं न श्रुतमित्याशङ्क्याह —

अक्षीति ।

परस्यैव स्थानभेदाद्रूपवत्त्वमुपदेशातिदेशाभ्यामिति चेत् , नेत्याह —

नचेति ।

परापरिग्रहे हेत्वन्तरमाह —

आधारेति ।

अनन्तशक्तित्वात्तस्याप्याधारश्रुतिरित्याशङ्क्याह —

नहीति ।

परस्यानाधारत्वे स्वमहिमप्रतिष्ठत्वं हेतुः । तत्र मानं ‘स भगवः’ इति । तत्रैव हेत्वन्तरं सर्वव्यापित्वम् । तत्रापि मानमाह —

आकाशवदिति ।

ईश्वराग्रहे हेत्वन्तरमाह —

ऐश्वर्येति ।

‘स एषः’ इत्याधिदैविकपुरुषोक्तिः । अमुष्मादादित्यादूर्ध्वगा ये लोकास्तेषामीशिता, ये च देवानां कामा भोगास्तेषां चेत्यर्थः । ‘स एषः’ इत्याध्यात्मिकपुरुषोक्तिः । एतस्माच्चक्षुषः सकाशादर्वाग्गता ये लोकास्तेषामीशिता, ये च मनुष्याणां कामा भोगास्तेषां चेत्येतस्य मर्यादावदैश्वर्यमुक्तमित्यर्थः ।

परस्यापि ध्यानार्थं तादृगैश्वर्यं स्यात् , नेत्याह —

न चेति ।

‘एष सर्वेश्वरः' इत्यविशेषश्रुतेरिति सम्बन्धः ।

कथमेतस्य सर्वेश्वरत्वं, यतो भूतानां नियन्ता यमोऽस्ति, नेत्याह —

एष इति ।

कथं परो भूतानामधिष्ठाय पालयिता, पालयितुरिन्द्रादेः सत्त्वात् , तत्राह —

एष भूतेति ।

तथापि ब्रह्मा मर्यादास्थापकोऽस्ति कुतोऽस्य सर्वेश्वरत्वं, तत्राह —

एष इति ।

यथा मृद्दारुमयः सेतुर्जलव्यूहस्य क्षेत्रसम्पदामसम्भेदाय धारयिता तथैषोऽपि सर्वेषां वर्णादीनामसङ्कराय धारयिता स्यादित्यर्थः ।

मर्यादाधाररूपश्रुतेरादित्यक्षेत्रज्ञ एवात्रोपास्य इत्युपसंहरति —

तस्मादिति ।

तस्य कर्मानधिकारात्सर्वपाप्मविगमः । सर्वात्मत्वमुपासनायै स्तुत्यर्थमनूद्यत इति भावः ।

पूर्वपक्षमनूद्य सूत्रमवतार्य प्रतिज्ञां व्याकरोति —

एवमित्यादिना ।